________________
१२४
न्यायावतारः
.००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००0060
बृहदारण्यके प्रथमे तुरीये ब्राह्मणे-आत्मैवेदमग्र आसीत् पुरुषविधिः सोनुवीक्ष्य नान्यदात्मनोऽपश्यत्सोहमस्मीत्यग्रे व्याहरत् ततोहं नामाभवत् तस्मादप्येतामन्त्रितोहमयमित्येवाग्र उक्त्वाथान्यन्नाम प्रब ते यदस्य भवति स यत्पूर्वोऽस्मात सर्वस्मात् सर्वान्पाप्मन औषत् तस्मान पुरुष औषति ह वै सतं योऽस्मात् पूर्वो बुभूवति य एवं वेद ॥१॥ सो बिभेत्तस्मादेका की बिभेति सहायमीक्षाञ्चक्रे यन्मदन्यन्नास्ति कस्मान्न बिभेमीति तत एवास्य भवं वीयाय कस्माद्वयमेष्यद् द्वितीयाद्वै भयं भवति ॥२॥ स वै नैव रेमे तस्मादेकाकी न रमते स द्वितीयमैच्छत् सहैतावानास यथा स्त्रीपुमांसौ संपरिष्वक्तौ स इममेवात्मानं द्वेधा पातयततः पतिश्च पत्नी चाभवतां तस्मादिदमर्धबृगलभिव स्व इति इ स्माह याज्ञवल्क्यस्तस्मादयमाकाशः स्त्रिया पूर्यत एव तां समभवत्ततो मनुष्या अजायन्त ॥३॥ साहेयमीक्षांचक्र कथं नुमात्मान एव जनयित्वा सम्भवति हन तिरोऽसानीति सा गौरभव
वृषभ इतरस्ताँ समेवाभवत्ततो गावोऽजायन्त वडवेतरा भवदश्ववृष इतरो गर्दभीतरागर्दभ इतरस्ताँ समेवाभवत्तत एकशफमजायताजेतराभत्रबस्त इतरोऽविरितरा मेष इतरस्ताँ समेवाभवत्ततोऽजावयोऽजायन्तैवमेव यदिदं किञ्च मिथुनमापिपीलिकाभ्यस्तत्सर्वमसृजत ॥४॥ सो वेद हं वाव सृष्टिरस्म्यहं हीदं सर्वमसृक्षीति तत: सृष्टिरभवत् सृष्टयाँ हास्यै तस्यां भवति य एवं वेद ।।५।। अथेत्यभ्यमन्थत्स मुखाच्च योनेहस्ताभ्यां चाग्निमसृजत् तस्मादेतदेतदुभयमलोमकं अन्तरतोऽलोमका हि यो निरन्तर तद्यदि तमाहुर मु यजामु यजेत्येकैकं देवमेतस्यैव सा विसृष्टिरेष उह्य व सर्वे देवा अथ यत्किंचेदमाई ततसोऽसृजत तदुसोम एतावद्वा इदं सर्वमन्नं चैवान्नादश्च सोम एवान्नमग्निरन्नादः सैषा ब्रह्मणोतिसृष्टिः । यच्छ यसो देवानसृजताथ यन्मर्त्यः सन्नमृतान्नसृजत तस्मादतिसृष्टयां हास्य तस्यां भवति य एवं वेद ॥६॥ तद्वेदं तह्य व्याकृतमासीत्तन्नामरूपाभ्यामेव व्याक्रियतेऽसौ नामायमिदं रूप इति।