________________
न्यायावतारः
१२३
००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००
स्वड निरभिद्यत त्वचो लोमानि लोमभ्य औषधिवनस्पतयो हृदयं निरभिद्यत हृदयान्मनो मनसश्चन्द्रमा नाभिर्निरभिद्यत नाभ्या अपानोऽपानान्मृत्युः शिश्न निरभिद्यत शिश्नाद्रेतो रेतस आपः । इत्यादि ।
छान्दोग्ये-प्रथमं तावत् प्रजापतिर्लोकानभ्यतपत्तेभ्योऽभितप्तेभ्यस्त्रयी विद्या सम्प्रास्रवत्तामभ्यतपत्तस्या अभितप्ताया एतान्यक्षराणि सम्प्रास्रवन्त भूर्भुवःस्वरिति । तान्यभि (भ्य) तपत्तेभ्योऽभितप्तेभ्य ॐकारःसम्प्रालवत्। इत्यभिधाय तृतीयाध्याये तृतीये प्रपाठके-असदेघेदमग्र आसीत्तत्सदासीत्तत्समभवत्तदाण्डं निरवर्त्तत तत्संवत्सरस्य मात्रामशयत तन्निरभिद्यत ते पाण्डकपाले रजतं च सुवर्ण चाभवतां ॥१॥ तद्यद्रजत सेयं पृथिवी यत् सुवर्ण सा द्यौर्यज्जरायु ते पर्वता यदुल्वं स मेघो नीहारो या धमनयस्ता नद्यो यद्वास्तेयमुदकं स समुद्रः ॥२॥ अथ यस्तदजायत सो सावादित्यस्तं जायमानं घोषा उलूलवो नूदतिष्ठन्त सर्वाणि च भूतानि च सर्वे च कामास्तस्मात्तस्योदयं प्रति प्रत्यायनं प्रतिघोषा उलूलवो नूत्तिष्ठन्ति सर्वाणि च भूतानि च सर्वे च कामाः ॥३॥ तुर्येऽध्याये चतुर्थे सप्तदशे खण्डे तु-प्रजापतिर्लोकानभ्यतपत्तेषां तप्यमानानाँस्सान्पृबृहदग्निं पृथिव्या वायुमन्तरिक्षादादित्यं दिवः॥१॥ यावदग्नेत्तत्वोवायोर्य षि सामान्यादित्यात् ॥२॥ षष्ठेऽध्याये प्रथमे द्वितीयखण्डे तु-सदेव सौम्येदमप्र आसीत एकमेवाद्वितीयं ॥२॥ तदैक्षत बहु स्यां प्रजायेयेति तत्तेजोऽसृजत तत्तेज ऐक्षत बहु स्यां प्रजायेयेति तदपोऽसृजत तस्माद्यत्र क च शोचति स्वेदते पुरुषस्तेजस एव तदध्यापो जायन्ते ॥३॥ ता आप ऐक्षन्त बह्वयःस्याम प्रजायेमहीति ता अन्नमसृजन्त तस्माद्यत्र क्व च वर्षति तदेव भूयिष्ठमन्नं भवत्यद्भय एव तदध्यन्नायं जायते । ४।। इति द्वितीयः खण्डः । तेषां खल्वेषां भूतानां त्रीण्येव बीजानि भवन्त्यण्डजं जीवजमुद्भिज्जमिति ॥१॥ सेयं दैवतैक्षत हन्ताहमिमास्तिस्रो देवता अनेन जीवे. नात्मनानुप्रविश्य नामरूपे व्याकरवाणीति । इत्यादि ।