________________
१२२
न्यायावतारः
०००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००000000000000
लोकानां स च वृद्धयर्थं मुखबाहूरुपादतः । ब्राह्मणं क्षत्रियं चव, शूद्र च विन्यवर्त्तयत् ।।३॥
पौराणिकानां त्विदं-'यदा न किचिदपि वस्त्वासीत् पदार्थशून्योयं संसारस्तदा ब्रह्माऽस्वण्डमसृजत् । तस्माञ्च क्रमेण वृद्धाद् द्विधाभावमुपगतादूर्वाधो विभागोऽभूत्तन्मध्ये च सर्वाः प्रकृतयोऽभूवन । एवं पृथ्यप्तेजोवाय्वाकाशसमुद्रसरित्पर्वतमकराकरनिवेशादिस्थितिरभूत् ।
औपनिषदिकास्त्वन्यदन्यद्विविधं प्रचक्षते परस्परासम्बद्धम्'ऊर्ध्वमूलोऽवाक्शाख एषोऽश्वत्थः सनातनः। तदेव शुक्रं तद्ब्रह्म, तदेवामृतमुच्यते ॥१॥ तस्मिल्लोकाः श्रिताः सर्वे' । इति कठोपनिषदि । 'प्रश्ने तु प्रजाकामो वै प्रजापतिः स तपोऽतप्यत स तपस्तप्त्वा स मिथुनमुत्पादयते रयिं च प्राणं चेत्येतो मे बहुधा प्रजाः करिष्यत' इति । मुण्डके-तपसा चीयते ब्रह्म ततोऽनमभिजायते । अन्नात्प्राणो मनः सत्यं, लोकाः कर्मसु चामृतम् ॥१॥
तैत्तिरीये-असद्वा-इदमग्र आसीत् ततो वै सदजायत । ऐतरैयेआत्मा वा इदमेक एवाग्र आसीन्नान्यकिचनमिषत् स ईक्षत लोकान्नु सृजा इति ॥१॥ स इमाँल्लोकानसृजत अम्भोमरीचीमरमापोऽदोम्भः परेण दिवं द्यौः प्रतिष्ठान्तरितं मरीचयः । पृथिवी मरो या अघस्तात्ता आपः॥२॥ स ईक्षते मेनु लोकाः लोकपालानु सृजा इति । सोऽद्भय एव समुद्धृत्यामूर्छयत् ॥३॥ तमभ्यतपत्तस्याभितप्तस्य मुखं निरभिद्यत यथाण्डं मुखाद्वारवाचोग्निर्नासिके निरभिद्येतां नासिकाभ्यां प्राणः प्राणाद्वायुरग्नी निरभिद्येता कर्णाभ्यां श्रोत्रं श्रोत्रादिश