________________
न्यायावतारः
००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००
आत्मपरिणामः । घटोऽभवन्मृत्तिकायां तद्वति च कपालयुगलं यथा तथैवात्र ज्ञानाज्ञानयोरात्मपरिणामे समावेशात् । यथा यावत्कपाल घटध्वंसवत्ता प्रतीयते, एवमत्रापि यावज्ज्ञानमज्ञाननिवृत्तिः प्रतीयते, न कोपि दोषावकाशः। शेषास्त्वनभ्युपगमेनैव निरस्ताः । एवं साक्षात्फलमभिधाय प्रमाणस्य सामान्येनाधुना विभागेन पारम्पर्येण फलमाहुः- केवलस्ये'. त्यादि । केवलस्य प्राङनिर्णीतस्वरूपस्य. फलमित्यत्रापि सम्बन्धनीयम् अनुवृत्त्या दीपोद्योतन्यायेन वा । यतो दीपः प्रज्वालित उद्योतते आलयमखिलमनावृतम्, तथाऽत्रापि पूर्वमुक्त फलपदमत्र समग्रश्न के यथोपयोगमायात्युपयोगमिति । किमित्याह-'सुखोपेक्षे' इति । केवलेन वेदसोपलभ्यार्थानात्मस्वरूपत्वात्तस्यात्मरमणोऽवाप्नोत्येव स्वाभाविक सुखम् । अत एव च सिद्धानामपि न सुखसद्भावे संशयकणिका, तेषामप्येतज्ज्ञानरूपत्वात् ज्ञानानन्त्येनैवानन्तसुखसम्पत्तेनिर्विवादत्वात् । दृश्यते चाध्यक्षमवाप्तबोधः सामान्यतोऽप्यपूर्वमाह्लादास्थान सौभाग्यवाँश्च । यत उच्यते एतद् ‘कलानां ग्रहणादेव सौभाग्यमुपजायते' इत्यादि । न तेषामौत्सुक्यमिति त्वन्यदेव । तस्यौत्सुम्योद्भवे विवादात् । अन्यैस्तु किमप्यालम्ब्य कारणं दूरपरम्परादि नैतद् बहुमत। यतस्तैहि व्यवस्थाप्यते इदम् यदुत-साक्षात्फलजन्यं हि परम्पगफलम् स्यान्न चाज्ञाननिवृत्तिजन्यं सुखम्, किन्तु तस्याखिललोकालोकजन्य - मन्यथा यावत्प्रमाणानामज्ञाननिवृत्तिव्याप्यत्वात् स्यादेव सुखम् समप्राणां परम्पराफलम्, न तु केवलस्य केवलस्येति । तदुक्त केवलज्ञानस्य तावत्फलमौदासीन्यमित्यादि । सूरिपादैस्तु शेषज्ञानानां यथोपादानादिबुद्धयः फलत्वेनोपादीयन्ते उपादेयादिचणैस्ताश्च ज्ञानजन्याः, परम् प्रथमं तावदज्ञाननिवृत्तेर्भावात् तस्याः साक्षात्फलत्वम्, शेषाणाां पश्चाद्भावान परम्पराफलत्वम् स्त्रीक्रियते सुनिर्णीतस्वीकारैः । तथात्राप्यवेक्षणीयमेवैतत्फलमित्यभिप्रेत्योक्त सुखम् फलतया, शेषज्ञानानां तूपादानादिबुद्धय त्पादेन तदुद्भव इति न तद्विवक्षा । 'कलानां