________________
न्यायावतारः
५७
00000000 10000000 00000000000000000000000000000000000000000000000000000000000000000000
ग्रहणादि त्यादि तु तस्योपादानोपादेयादिजन्यहर्षज्ञापनपरम्, न तु ज्ञानमात्रोद्भव फलज्ञापनायौत्सुक्यप्रभवो वा स हर्ष इत्यलं विस्तरेण । न केवलम् सुखम्, किन्त्वन्यदपि उपेक्षारूपम् । केवलज्ञानात्रातविभुत्वानां हि न किञ्चिदौत्सुक्याभावादुपादेयम्, ज्ञानेनावलोकिताखिलजगद्यथार्थ स्वभावान्निरुपाधित्वाच्च हेयमस्ति । उपादेयस्यादित एवोपात्तत्वाद्धे यस्य त्यक्तत्वाच्चेति युक्तमुक्तमुपेक्षेति । न च वाच्यHarsaat भवस्थोऽपि भवत्येव पुरुषोत्तमः तस्याधुनापि हेयो भवी घातीनि भवोपग्राहीणि चत्वार्यदृष्टानि वा हेयानीति कथं तस्य न हेयादि ? | भवस्वरूपावगमेनावगे वावगतमेतस्य, यदुत यास्यत्येवायमेव। मेव क्षयमिति न तस्य तद्गता जिहासा । मोक्षस्योपादेयता त्वर्वागपि परमवैराग्याणां नाभूत केवलात, 'मोक्षे भवे च सर्वत्र निःस्पृहो मुनिसत्तम' इतिवचनात् । का वार्त्ता तदुत्पत्तेरनन्तरम् तु । यतः काकनाशम् नष्टस्तेषां रागद्वेषात्मको मोहः । न च विना तेनोपादानादिबुद्धिसम्भत्र इति । अथ छद्मस्थानां किं प्रमाणफलं पारम्पर्येणेत्याह- शेषस्यादानहानधी 'रिति । शेषस्य पूर्वोक्तात् सकलप्रत्यक्षरूपात् केवलात् परस्य विकलप्रत्यक्ष व्यावहारिकप्रत्यचानुमानशाब्दादि परोक्षरूपप्रमाणसमुदायस्य. जातावेकवचनम् । यद्वा-एकमेवोपयोगापेक्षयैकस्मिन्काले इति 'शेषस्ये 'ति प्रोचुरेकवचनम् । नहि छास्थिकानि ज्ञानानि युगपद्भवन्त्युपयोगतः । केवलवतां त्वेकमेव ज्ञानं, तन्न तेषामपि युगपदनेकज्ञानसम्भवः । किमित्याहु रादानहानधी 'रिति । भदीयते इत्यादानम्, हीयत इति च हानम् उभयत्रापि धात्वर्थनिर्देशरूप्रे भावे 'अन क्लीचे भाव' इत्यनट् । तयोरादानहानयोर्धी बुद्धिरादानानधीः । केवलादपरस्य परम्परा फलमिति सण्टङ्कः । तत्र विकलेन प्रत्यक्षेण तावदवधिमनः पर्यायरूपेणालोक्य रूपद्रव्याणि मनोद्रव्याणि च यथार्हाणि हृषीकगोचरातीतामि स्वेष्टमुपादातुमनिष्टं हातु च प्रवर्त्तन्ते एव तद्वन्तः । नहि तद्वन्तो मुक्ता रागद्वेषाभ्यां सर्वथा, यन्न तेषा