________________
न्यायावतारः
.००00000000000000000000000000000०००००००००००००००००००००००००००००००००००००००00000000000000000
मादानहानधीन भवेत् । किन्त्वाद्येषु देवानां विशेषेण तद्भावस्तेषां परिग्रहसंज्ञाबहुलत्वात् विषयगवेषणातत्परत्वान्नासम्भविनी। अन्तानां त्वप्रमत्तत्वेपि विद्यत एव, मोक्षसाधनानां वैराग्यादीनामुपादित्सा रागादीनां कर्मबन्धकारणानां च जिहासेति न तेषां तत्सम्भवे दोषले शोऽपि । मतिज्ञानभेदभूतानां स्पार्शनादीनां स्मृत्यादीनां श्रुतरूपम्यागमस्य फलं स्पष्टमेव वेविद्यते विद्वद्भिरुपादानहानधीलक्षणम् । ननु चोपादानहानयोग्यार्थवदम्त्युपेक्षणीयोप्यर्थः स्थाएवादिस्तबुद्धिश्व भवत्येवेक्षकाणां, तत् किमिति सा नोक्ता फलतयेति चेत् । अत्र केचिदाहुः-यदुपलक्षणेन सापि ग्राह्य वेति । अन्ये त्वाहुः-यथा मैत्र्या विषयीकृतेषु प्रमोदकारुण्यभावनयोः ये नागच्छन्ति तेषामुपरि माध्यस्थ्यभावनोचिताभावयितुम्, तथात्रापि प्रमाणविषयीकृतोऽर्थस्ततप्रथमतया छद्मस्थेनोपादेयतया हेयतया वागवेष्यते, न चेत्तद्विषयतयाऽसाववाप्यते उपेक्षाविषयीक्रियते इति प्रथममुपादानहानयोः फलत्वम् । केवलिनस्तु तदभावादुपेक्षैवेति । अपरे तूदाहरन्ति-यत्सुखोपेक्षयोरनुवृत्तिर्वर्त्तते । तेन शेषस्य सुखोपेक्षादानहानधियः फलम् । सूरिपादै स्तु 'शेषस्यादानहानधी रित्यनेन प्रतिपादितमेतद्यदुत-न छद्मस्थानामस्त्युपेक्ष्यम, उपादेयेतरस्य हेयत्वनियमात् । उपेक्षणीयमप्यनुपादेयत्वाद् हेयमेव । केवलिनस्तु नोपादित्सेति न तद्भिन्नत्वेन द्वषविकलत्वाद् हेयतेत्युपेक्षैव तथाविधा फलभूतेति । यथासत्यमालोचनीयम् वैतदालोचनालोचनैः । उपादानबुद्धयादीनां कथञ्चित्प्रमातृतादात्म्यात् प्रमाणात कथञ्चिदभेदः, प्रमाणोपादानादिबुद्धयोः कारणकार्यभावाच कथश्चिद्भेद इत्याद्यप्यवधेयमत्र धीधनैः ।
एवं प्रमाणे आख्यायाधुना 'नाप्रमेयं प्रमाण मित्यवश्यं भायं प्रमेयेणेति तत्स्वरूपमाहुः
अनेकान्तात्मकं वस्तु, गोचरः सर्वसंविदाम् । एकदेशविशिष्टोऽर्थो, नयस्य विषयो मतः ॥ २६ ॥