________________
न्यायावतारः
५६
००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००
तत्र'अमद्रमहमे त्यादिर्दण्डकघातुर्गत्यर्थोऽम्यते-गम्यते इति 'दम्यमितमिताबापू०'इत्यादिनौणादिके तप्रत्यये अन्तो-धर्मः सत्त्वासत्त्वादिर्वस्तुस्वभावः, अनेका अन्ताः सत्त्वासत्त्व-नित्यानित्यत्व-वाच्यावाच्यत्वाद्या अनेकान्तास्ते आत्मा स्वरूपं यस्य स 'शेषाद्वेति कचि अनेकान्तात्मकम् । वस्तुस्वभावाविर्भावकमेतत् , न व्यवच्छेदकम्, अनेवम्भूतस्य वस्तुन एवाभावात् । 'उत्पादव्ययध्रौव्ययुक्तं सदिति नियमादनाविभूतस्वभावस्य भावस्य स्वभावाविर्भावनाय विशेषणस्य सम्मतत्वाद्'आपो द्रवाः परमाणुरप्रदेश' इत्यादिवत् । यद्वा-प्रमेयमाचिचक्षुः प्रथमं प्रमेयभूतं वस्त्वेव प्रथमपादेन लक्षयति-यदुतानेकान्तात्मकम् वस्तु । अर्थादाख्यान्त्यन्यथाभूतस्यावस्तुत्वम् । ननु च कथं परस्परविरुद्धानां सत्त्वनित्यत्ववाच्यत्वाना सेतराणामेकत्र समायोगः स्यात् ? तदसम्भवे चासम्भव्येवैतल्लक्षणमिति चेत् । अनुभव - चक्षुष्कानां नातथाभूतं वस्तु त्रिजगत्यपि दृष्टिपथमायाति । निर्गतदृष्टीनां किं कथ्यते ? यदि नायाति सदपि दृष्टिपथं तदा । यतो विचार्यतां तावत्-विवक्षितो घटो यदि मार्तिकत्वेन पाटलिपुत्रोत्पत्तिकत्वेन शैशिरत्वेन कृष्णादिगुणवत्त्वेन स्वपर्यायापेक्षया सन् तदा परैः राजत-माथुरक-वासन्तिक-पीतादिगुणवत्त्वलक्षणापरपर्यायैरसन्नेव । अन्यथा ततो व्यावृत्त्यभावात् कथमिव स्वरूपं ज्ञापयेदसावविविक्त - स्वरूपः । न च पृथगस्त्यभावो यस्तत्रागत्य तत्प्रतीतिं कारयति । तस्य सर्वथा भिन्नत्वे भवन्मतेनैव तस्य न स्वरूपसम्बन्धेन तद्वत्ता भवेत् । अभावतद्वतोः स्वरूपः सम्बन्ध इत्यभिधानात् । द्वयोः स्वरूपस्य सम्बन्धत्वेऽभावस्य पृथगसत्त्वाद्भावरूप एवाभाव इति पर्यवस्यति । स्वीक्रियते न चेत् तस्य स्वरूपेण पररूपासत्त्वं स्पष्टःसपररूपः,भावाभावयोः परस्पराविनाभावित्वात् । न चाधिकरणादन्यक्किमप्यभावाख्यमवलोक्यतेऽधिकरणमात्रज्ञानेनेतराभावस्य वेविद्यमानत्वात् । न चाभावस्याधिकरणात्मकत्वे स्पर्शनेनाधिकरणस्य ज्ञाने तत्तिरस