________________
न्यायावतारः
B0000000000000000000000000000000०००००००००००००००००००००००००००००००००००००००००००0000000000000
रयाभावज्ञानायान्येन्द्रियव्यापारो न युज्यतेति वाच्यम् । यतस्तत्स्पर्शस्यैव स्पर्शनेनावबोधात् । समग्रगुणयुक्तावबोधस्त्वखिलैस्तद्गुणैरवलोकितैरेव । अन्यथा तवृत्तिरसस्याप्यप्रत्यक्षात् किमिति सोऽपि न तत्र भवति । न चैवं सति सन्नेवासन्, असन्नेव च सन्नापद्यते इतिमहदनिष्टम्। स्वापेक्षया तस्य सत्त्वे परापेक्षया चासत्त्वेऽङ्गीक्रियमाणे नांशतोऽपि स्याद्वादनिपुणानामनिष्टसम्भवः । स्याच्च तेषामेवानवबुद्धस्याद्वादसतत्त्वानां शङ्करप्रभृतीनां स्वपित्रपेक्षितवधूशब्दवाच्यखजननीमपि जगद्वधूत्वेनाङ्गीक्रियमाणानां महदनिष्टं स्ववचसैव । अस्मा. कं तु तत्पित्रपेक्षया तस्या वधूत्वेऽपि शङ्कराद्यपेक्षया तस्यां जननीत्वाद्यनेकविरुद्धधर्माङ्गीकरणान्न तथाप्रसङ्गः। यत्तु तैस्तेषां तीर्थङ्करोऽ. प्यतीर्थङ्कर इत्यादि स्याद्वादापलापे प्रलपितम, तदपि स्त्रवधायोद्गीण शस्त्रम । यतः स्वयमेव पूर्वमतदर्शनावसरे कश्चिनिश्चयापेक्षयैकत्वं व्यवहारापेक्षया चानेकत्वमात्मनः स्वीकृतम्. तदेतेन स्ववचसैवहतम्। अस्माकं तु तस्य भावाद्यपेक्षया तीर्थकरत्वेऽपि केवलनामाद्यपेक्षयाजीर्थकरत्वमभिमतमेव । अनुपकृतारहितरताखिलार्थवेदननिपुणस्यासर्वज्ञताप्येवमेव तेषां प्रसाध्यमाना न दोषावहा । किन्तु मण्डनमिश्रमोहनाकृत-मोहनविषयक - प्रश्नोत्तरसामर्थ्यहेतुकाश्रितनृपललनानां तेषामेव सर्वज्ञत्वं दोषपोषकं विशेषेण । अभिमतशिवपुरी-वाराणसीनिवासिश्वपचवार्तातु यद्यपि कथञ्चित् सर्वज्ञत्वाविरोधितया समाधीयेत सांयिकत्वमपि तेषां तत्रैव युक्तं सर्वज्ञख्यातिमतां महिषीसमागमे न तु ब्रह्मद्वैताद्वैतनिीतिवत्स्वापेक्षया सत्त्वे परापेक्षया चासत्त्वे निर्णीते। उक्तं चैतत्-'सर्वे सन्ति स्वरूपेण पररूपेण नैव चे'त्यादि. नाभियुक्ततरः। अन्यच्च-स्याद्वादानङ्गीकारे 'पीयमानं मधु मदयती'त्यत्र परस्परविरुद्धकत्त कर्म-कारकसमावेशोऽपि ? कथं भवतां युक्ति - सङ्गतो भवेत् ? कथं चैकस्यैव ह्रस्व-दीर्घ जुतलक्षणपरस्परविरुद्धभेदभिन्नस्यावर्णेनैकेन वाच्यत्वं ? कथं वा पचतिमाह-गवित्ययमाहे