________________
न्यायावतारः
.00000000000000000000000००००००००००००००००००००००००००००००००००0000000000000000000000००००००००
नोत्पत्तिकं, परं प्रदीपप्रकाशयोः प्रभापत्युदयान्धतमसनाशयोरिव समकालमप्यस्त्येव द्वयोः कारणकार्यभावः । न चानवाप्ते नाशमन्धङ्करणान्धकारततिरवाप्नोति द्वादशात्मन्युदयम् । तथाऽत्रापि ज्ञानावरणनाशजन्यत्वेऽपि द्वयोर्नह्यज्ञानतमो नश्यति ज्ञानदिवाकरोदयमृते । नचैवं केवलकेवलद्विकलामे छाद्मस्थिकज्ञानस्याज्ञानस्यापि क्षणम - षस्थानसम्भव इति । आवरणनाशे वा सद्य उत्पद्यते ज्ञानमात्मधर्मस्वात्तस्य, उत्पन्ने च तस्मिन्नश्यतीतरत् तत्कालं तेनेति ज्ञानोत्पादाज्ञाननाशयोन कारणकार्यभावविरोधः । द्वादशगुणस्थानान्त्यसमये च ज्ञानदर्शनावरणे क्षपयित्वाऽवाप्नोति त्रयोदशगुणालयादावेव केवलद्विकं नश्यति च तत्समकालं प्रचण्डचण्डभानूदयसमकालं तमस्ततिवदज्ञानतमोवृन्दमिति कि चर्वितचर्वणेनेति । अनेन य आहुःप्रमितिकरणं प्रमाणमिति सूत्रेण प्रमाणस्य ज्ञानरूपां प्रमिति फलतया, ते निरस्ताः। त-मते हि प्रमाणस्याज्ञानरूपत्वापत्तेरज्ञानरूपात् प्रमाणाच कथङ्कारमापद्यत चाज्ञाननिवृत्तिः । चर्चितं च प्रागप्येतत्प्र . माणलक्षणावसरेऽपि । अज्ञाननिवृत्तिश्चावाप्तकेवलस्य शाश्वतिक्येव । क्षायोपशमिकज्ञानवतामपि यावस्थिति साऽन्त्येव । न च वाच्यं साऽज्ञाननिवृत्तिः किं प्रागभावरूपा ध्वंसाऽन्योन्यात्यन्ताभावान्यतम - रूपा वा ? यत आद्यरूपत्वे, प्रतिक्षणं निवृत्तिवत्तत्प्राक् क्षणे आपद्येत एवं सति तत्सत्ता, स्याच्च तन्नाशानन्तरं ज्ञानोत्पादः । ध्वंसरूपत्वे तु तस्या उत्तरपरिणामो वाच्यः, घटध्वंसस्य कपालयुग्मवत् । न वाऽऽद्यक्षणावशिष्टं ज्ञानं फलवत्तत्राज्ञानाभावात्तनिवृत्त्यभावात् । न च ज्ञानाभावरूपाज्ञानस्य युक्तो ध्वंसः । अन्योन्याभावत्वं चेत् नाभावरूपा सा, अत्यन्ताऽभावत्वे न पुनरुपपत्तिः फलत्वस्य, ज्ञानाभावाभावरूपत्वाज्ज्ञानस्येति । यतोऽज्ञानं तावन्न ज्ञानाभावरूपम्, किन्तु ज्ञानावरणोदयोत्पन्न आत्मपरिणामोऽशुभः, तथा चाज्ञाननिवृत्ति - रित्यस्याज्ञानध्वंस इत्येवार्थ उत्तरपरिणामश्च य एव ज्ञानान्वितः शुद्धः