________________
न्यायावतारः
०००००००००००००00000000000०००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००
क्लत्वात्तन्निरूप्य फलव्याख्यानायोदाहृतवन्तः
प्रमाणस्य फलं साक्षा-दज्ञानविनिवर्त्तनम् । केवलस्य सुखोपेक्षे, शेषस्याऽऽदानहानधीः ॥२८॥ तत्र प्रमाणस्य-प्राङ्निरूपितस्वरूपस्य, फल-काय जन्यम् वा, साक्षात-आनन्तर्येण, अज्ञानस्याबोधस्य संशयादेः कुत्सितज्ञानस्य वा विनिवर्तनम्-विशेषेण निवृत्तिः । प्राक् च पदार्थमात्रविषयकमभूज्ज्ञानं संशयादौ, अधुना तु धर्मविषयकोऽपि निर्णयो जात इति निवृत्तमज्ञानेन तद्विषयकेण । सर्व हि ज्ञानं स्वविषयत उद्भवत् प्रथममेव तावन्नाशयति स्वाश्रयस्य तद्विषयकमज्ञानम् । छायातपयोरिव विरोधात् ज्ञानाज्ञानयोः । तत एव चैतम्यानन्तरं फलमेतदामनन्ति मनीषिणः । न च वाच्यं कथमिवाज्ञानस्य नाशमृतेऽवाप्नुयाज्ज्ञानमुदयम् । नहि दृश्यतेन्धतमसे सूर्योदयः पश्वाञ्च तस्य तेन नाश इति । यतः प्रथमं नश्यदज्ञानं कुतो नश्येत् ? स्वयमेव चेत्,अहेतुकतापत्तिः।न चास्ति हेतुरन्यस्तस्य विना ज्ञानं विनाशे । अत एव च जातेऽपि ज्ञानेऽनभ्यासदशायां संशयादय उत्पद्यते । यदि च पूर्वमेवानङक्ष्यदज्ञान का वार्ता संशयादेः। उच्यतेऽपि च विद्वद्भिर्जाते ज्ञाने निर्णीते मे संशयो नष्टः, अवसेयम चेदमतोऽपि यद्यथा यथाज्ञानोद्भवस्तथा तथा संशयादेरल्पता अनुभूयते आबालगोपालेन । ननु चाज्ञानमिति ज्ञानाभावोsभावश्च नर्ते भावमवाप्नोति नाशम् । संशयादिका अप्यंशतो ज्ञानशून्या एव । ननु ज्ञानमित्यात्मधर्मोऽज्ञानं चौदयिको भावः, क्षयोपशमादिना तदावरणनाशे च ज्ञानोत्पादोऽज्ञाननाशश्च । तथा चावरणनाशजन्यो ज्ञानोत्पादोऽज्ञाननाशश्चेति नानयोहे तुहेतुमद्भावो युक्तः । नहि कारणभूतावरणनाशे जाते क्षणमप्यवतिष्ठतेऽज्ञानं यन्नाश्येत तदनन्तरोत्पन्नेन ज्ञानेन । न तु लब्धे केवले क्षणं छामस्थिकं ज्ञानमज्ञानं वेति चेत् सत्यं, एतद्धि अनन्यथासिद्धपूर्ववृत्तित्वरूपकारणज्ञानाधी