________________
न्यायावतारः
000000000000000000000000000000000०००००००००००००००००००००००००००००००००००००००००००००००००००००००
परवत्तव्वयपक्खा अविसिट्ठा तेसु तेसु सुत्तेसु। अत्थगईय उतेसिं विभंजणं जाणओ कुणइ।। अत एव चव्याख्यान्ति सूरिपादानुसारिण:'सभिण्णं पासंतो' तथा 'संभिण्णनाणदंसणधरा' इत्यादौ संभिन्नं-मीलितं सामान्यविशेषोभयरूपं पश्यन् मीलितज्ञानदर्शनधारका इत्यादि । अन्ये तु जीवस्वाभाव्यादेवोपयोगपार्थक्यात् समयान्तरितत्वेऽपि मतिज्ञानादेरुपयोगतः सान्तरत्वेऽपि षट्षष्टिः सागरोपमाणां यथा स्थितिस्तथाऽत्रापि साधनन्तत्वमपि न विरोधमधिरोहति । तत्र क्षयोपशमघदत्र क्षयावस्थानादिति व्याख्यान्त्युपयोगापेक्षया सान्तरत्वेपि तदावरणक्षापेक्षया साद्यनन्ततेति युक्ता सततताऽस्येति। सततं किमित्याह'प्रतिभासन मिति । प्रतीति विशिष्टं, विशिष्टता च याथार्येन, भासनमवगमः प्रतिभासनम्, प्रतिपूर्वकस्यैव वा भासेरवगमार्थता । अत्रेदम् सतत्त्वं-सकलावरणमुक्तात्म केवलम् यत्प्रकाशते तत्प्रत्यक्षमेव भवति । तदपि सकलार्थात्म सततप्रतिभासनात् सकलं, नत्ववध्यादिवद्विकलमित्वरं वेति । अन्ये तु व्याख्यान्ति-यद्यस्माद्धे तोः केवलं सकलावरणमुक्तात्म, तम्मात् प्रत्यक्षं, सकलार्थात्म सततप्रतिभासनं यथा स्यात्तथा प्रकाशते इति । अपरे तुव्याचख्युर्यत्पूर्व 'अपरोक्षतये'त्यादि परोक्षोपयोगितयोक्तं, न लक्षणाभिप्रायेण । यद्वा-उत्तमपि लक्षणाभिप्रायेण सांव्यवहारिकप्रत्यक्षापेक्षयैव तल्लक्षणं, न तु पारमार्थिकापेक्षयेति । साम्प्रतं व्यावहारिक-प्रत्यक्षानुमानादिपरोक्ष - व्याख्यानन्तरं पारमार्थिकं प्रत्यक्ष लक्षयन्तः सकललक्षणे कृते विकलं बुद्धिगम्यं भविष्यत्यभिप्रेत्याहुर्यत्केवलं सकलावरणमुक्तात्म प्रकाशते तत सकलात्मसतत प्रतिभासनं प्रत्यक्षं सकल प्रत्यक्षमित्यर्थः। तथाच यदसकलावरणमुक्तात्म प्रकाशते, तद्विकलात्मप्रतिभाएनम् विकलं प्रत्यक्षमिति । विग्रहश्चात्र सकलैरावरणैर्मुक्त आत्मा जीवो यस्मिन्निति समारचनीय इति । गूढतमश्च धामभिप्रायः । २७ ॥
एवं सप्रपञ्चप्रमाणं निरूप्य यद्वा फलापेक्षया सकलस्य पृथ