________________
न्यायावतारः
00000000000000000000000०००००००००००००००००००००००००००००००...०००००००००००००..०.०००....0000०.
स्याद्वादश्रुतसञ्ज्ञामभिरूपतरां नूतनां लभते । तथा च यथा केवलमणिराशिरपि न रत्नावलीव्यपदेशभाजनं तथा निरपेक्षोऽन्योन्यं नयसमुदायोऽपि न स्याद्वादश्रुतसञ्ज्ञाभाक् । किन्तु व्यवस्थापित एव । अत एव सामान्यविशेषोभयनिरूपिणोऽपि न वैशेषिकस्य विशिष्टताऽन्यमतेभ्यः । अत एव च सकलनयमयस्याद्वादश्रुतवेदिनोऽपि सूत्रार्थादिना सम्यग्योजनाभावेनानिश्चितत्वमभिहितं सङ्गच्छते। तदुक्तं
नहु सासणभत्तीमत्तएण सिद्धत जाणओ होइ । नवि जाणओ अ नियमा पण्णवणानिच्छिओ णाम' ॥ त्ति ।
अत एव चार्वाग् दशभ्यः पूर्वेभ्योऽन्यूनेभ्य उभयथा श्रुतोक्तिरपि। सम्यग्दृष्टिपरिगृहीतस्य सम्यक् श्रुतत्वमन्यथेतरत्वमिति । सम्यग्दृष्टिश्च स एव, यो यथार्थतया पदार्थपरिभावयिता । यत उक्त
'एए जिणपन्नत्ते सदहमाणस्स भावओ भावे ।
पुरिसस्साभिणिबोहे दसणसदो हवइ जुत्तु ॥१॥ त्ति ननु चैवं मिथ्यादृष्श्रुितं वेदादि लौकिकं च भारताद्यपि श्रुतं सम्यग्दृष्ट्रिपरिग्रहपूत स्यादेव सम्यकच्छु तम् ‘सम्यग्दृष्टिपरिग्रहपूतम् जयति श्रुतज्ञान'मितिवचनात् को विशेषोऽनयोः स्याद्वादसामान्यश्रुतयोरिति चेत् । न कोऽपि ।
'द्रष्टदर्शननैर्मल्ये, भिदा नासन्नदूरयोः । न स्याद्वादेतरो भेदः सदृष्ट्या ग्रहणे तथा । केवलं न नयाः सर्वे, तत्र सन्त्यत्र सन्ति च । हेतुरित्येष वैषम्य-व्यपदेशे बुधैर्मतः ॥ तोतरेऽनया बुद्धया, योज्या आदाय चान्यतः । अन्योन्यानामपेक्षापि, दुष्करं ततथा न ते ॥