________________
न्यायावतारः
#.............................................................................................................................66666660
७४
मन्यते सम्यक तत्वं तत्स्वीकार्य प्रत्येकं नयेषु सम्यक्त्वमितिचेत् ! ।. न, यतः प्रतिपादितमेव पूर्व नयस्वरूपाख्याने तेषां एकनिष्ठत्वम् । तावन्मात्रेण नयाभासेभ्यस्तेषां भिन्नत्वं च । ततः समुद्रांशो यथा न समुद्रो न वा समुद्रस्तद्वदिमेऽपि 'निभयवयणिज्जसच्च' त्तिवचनात् प्रमा
भूता इति न ते प्रमाणं न चाऽप्रमाणं सकलांशोपेतस्य च समुद्रत्ववत् सकलनयमयस्याद्वादश्रुतस्य सम्यक्त्वमत एवोक्तम्- 'अन्नोन्ननिस्सिआ पुण हवंति सम्मत्त सब्भाव'त्ति । ननु तेषां मिध्यात्वतया प्रतिपादनात् मिध्यात्वसमुदाय एष इति नास्य समीचीनतेतिचेत्, नेतरोपेक्षारूपमिध्यात्वांशस्य स्यात्कारेण दूरीकरणाच्छोधितविषस्य रसायनीभाव satta समीचीनता भवन्ती न निवारयितुं शाशक्यते शक्रसहस्रे णापि । अत एवोच्यते विशकलितानां नयानां सम्यक्त्वाभावेऽपि समुदाये सम्यक्त्वं यदाह-
जह गलक्खणगुणा वेरुलिभाई मणी विसंजुत्ता । रयणावलीववएस न लहंति महग्घमुल्ला वि || १॥
तह निययवायसुविनिच्छआ वि अन्नोन्नपक्खनिरवेक्खा | सम्म सणस सव्वे विनया न पार्वति ||२॥
जइ पुण ते चेव मणी जहा गुणविसेसविभागपडिबद्धा | रयणावलित्ति भण्णइ जह तं पाडिकमन्नाओ ||३॥
तह सव्वे नयवाया जहाणुरूवं निउत्तत्तव्वा । सम्म सणस लहंति न विसेससन्नाभो ||४|| [सन्मति०] इति । गुणप्रोतत्वादेव यथा मणीनां रत्नावलीति व्यपदेशः । एवमत्रापि सर्वेषु नयाभिमतेषु स्यात्कार गुणस्यूतेषु सम्यकश्रुतत्वेन स्याद्वादश्रुतमितिव्यपदेशः । यथा च तत्र प्रत्येकसञ्ज्ञा अपगच्छन्ति, प्रति पाद्यते च रत्नावलीति । तथाऽत्रापि नयसञ्ज्ञां विजहतस्त एव नयाः