________________
न्यायावतारः
00000000 00000000000000ooooooooooooooooooooo......................00000000000000000000
स्याद्वादः,
तस्यैव सम्यग्न्यायमार्गत्वात्तदुक्तम्
'इमां समक्षं प्रतिपक्षसाक्षिणा मुदार घोषामवघोषणां वे ।
न वीतरागात् परमस्ति दैवतं न चाप्यनेकान्तमृते नयस्थिति ' ॥ १ ॥
,
७३
रित्यादि । तेन स्याद्वादेनोपलक्षितं श्रुतं स्याद्वादश्रुतम् । मध्यमपदलोपस्तु शाकपार्थिवादित्वात् । उच्यते - प्रतिपाद्यते । तस्यैव सकलनयाभिप्रायसमुच्चयप्रत्यलत्वात्तदुक्तम्
अन्योन्यपक्षप्रतिपक्षभात्रा यथा परे मत्सरिणः प्रवादाः । नयानशेषान विशेषमिच्छन् न पक्षपाती समयस्तथा ते ॥ १ ॥
तथान्यत्रापि नयास्तव स्यात्पदलाञ्छिता इमे,
रसोपविद्धा इव लोह धातवः ।
-
भवन्त्यभिप्रेतला यतस्ततो,
भवन्तमार्याः प्रणता हितैषिणः ||२|| इत्यादि ।
ननु च सर्वनयमयत्वे स्याद्वादश्रतस्य कथं प्रामाणिकत्वं, प्रत्येकं नयानां प्रमाणत्वाभावात् । तथा चोचुः - प्रत्येक यो भवेद्दोष, द्वयोर्भावे कथं न, स' इतिचेत, न, कफहेतुत्वे गुडस्य नागरस्य च पित्तनिमित्तकत्वेऽपि संयुक्तौषधे न विकृतिकणिकापीक्ष्यते । तदुक्तम्
'गुडो हि कफहेतुः स्यान्नागरं पित्तकारणम् । द्वयात्मनि न दोषोस्ति, गुडनागरभैषजे ॥१॥ [ वीत० ] इति ।
अन्योन्यापेक्षोद्भव एष गुणो जात्यन्तरं चेदं युग्मम् । तथाऽत्रापि समवसेयमिति । ननु यदि प्रत्येकं नयेषु सम्यकं श्रुतत्वं न तर्हि समुदायरूपे तस्मिन् कथं तत् भवेत् ? यतो यदि रेणुषु प्रत्येक न तैलांशो, नैवाप्यते समुदायेऽपि तर्हि तत्, स्याद्वादश्रुतस्य चाभि