________________
६६
न्यायावतारः
.०००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००000000000000000000
मभ्युपगम इतिनिर्विवादः पन्थाः। यच्चावादिषुर्भवन्तोऽनुमानेनापी'त्यादि । तदप्यनालोचितमेव रमणीयम् । यतो न लिङ्गलिङ्गिप्रत्यक्षनियमोऽनुमानोत्थाने, किन्तु अन्यथानुपपन्नत्वज्ञानमेव । तच्च प्रत्यक्षेणाऽन्येन वा येन केनापि भवन्न विरोधमधिरोहेत् । अन्यथा कथमिव भवन्त एव तावदनुमानमप्रमाणतयो ष्याज्ञमोहनाय 'चैतन्यं भूतधर्म' इत्युदाहरिष्यन् । नहि भूतावलेभवन्ती भवद्भिरनु - भूता चेतनास्ति, येनानुमीयते जागद्यते वानुमाय चेतसा भूतधर्मश्चेतनेयं तदन्वयव्यतिरेकानुविधानादित्याद्यालोचनीयमन्तर्लोचनेनैकान्ते कान्तविचारैः । विचारणीयं तावत्-काठिन्यगुणा पृथ्वी, आपो द्रवलक्षणाः, वायुश्चलनलक्ष्मा, तेज: पक्तिलक्षणं, शुषिरलक्षणं च नभः इति भूतानां नियमिता गुणाः । न चैकस्यापि चेतना गुणः, दृश्यते चेयं । तथाच भाविन्येव व्याप्तिः, यतो भूतव्यतिरिक्त न भाव्यं केनापि चैतन्यगुणवता । अन्वयव्याप्तिवद् व्यतिरेकव्याप्तेरपि पदार्थावगमकत्वात् । अनुमास्यत्यनुमाता चेतनाया भूतधर्मताऽभावम् । काठिन्यादयो निवर्तमाना निवर्तयत्येव भूतधर्मतां चेतनायाः । तथा च तद्वानन्यः कोपीति ज्ञाने यत्र यत्र चेतना तत्र तत्र भूतभिन्नः कोऽप्यन्यस्तद्वानिति । भविष्यत्येव भूतधर्मत्वानुपपत्त्याश्चेतनायास्तद्वता तद्वदनुमाननिबन्धनीभूता व्याप्तिः। न चासौ दृष्टा कदाचिदपि भूतमात्रे, येनानै कान्तिकशङ्कापि।निमील्य विलोक्यतां वा भूतपञ्चकं चेदनुमानप्रथां व्यर्थयितुमीप्सा, भवति नवा चेतना, यदि भूतसमुदाये चेतना भविष्यतीति मनो भवेत् । यदि च देहाकारणाग्रहस्तदापि चिन्तनीयमिदं तावद्यन्न जगति समानाकृतिशरीराश्चेतनावन्तः सन्ति, येन शरीरस्य भवेनियताकृतिस्तथापि पञ्चालिकायां मेलयन्तु तत्पञ्चक भवति न वा सा, तत्रापि नैव सा चेत् 'किमागृह्योच्यते'भूतधर्मश्चेतने ति.। नहि विपक्षवृत्तिवासिद्धौ भवेदनेकान्तिकतां कथ च बाधकनामापि । अन्यदिदं तेजो वायुर्वेति चेत्, स एव चेतनावान्, तेनैव चेतनाया अन्वयव्यतिरेकानुविधानात् । अन्वय