________________
११८
न्यायावतार:
.000000000000०००००००००००००००००००००००००००००००००००००००००००००००3000000000000000000000000000
विकं प्रयत्नजन्यं वा ? । आधे, न कर्त्तता, स्वाभाविकस्य कारणानिबन्धनत्वात् । अनित्यं हि कादाचिकत्वात् कारणकल्पितं भवेत्, न च भवेत्तथा स्वाभाविकमिति जगतोऽनादितै वैवम् । प्रयत्नजन्यत्वे तु प्रयतमानः कृतार्थः सन्नितरथा वा प्रवर्तेत ? आये, तत्ताहानिः । अन्त्ये च न करणयोग्यतैव । स एव च विधेयः स्यादितरवत् तथात्वे । अन्यच्चस गौणमुख्यभावः कथं भवेदितरवस्तुयोगाभावे प्रथमतः परिपूर्णत्र्यात्मकत्वात् उभयथापि प्रारम्भाभावो विश्वस्य । किच प्रयोजनं तस्य सम्पूर्णत्र्यात्मकस्य तथा तथा परिणतौ । अत्र्यात्मकत्वेऽपि च स्पष्ठ. वाऽनादिता त्रयाणां ब्रह्मजीवाजीवानान् । न च वाच्यं समुद्रस्यैकरूप. स्यापि भवन्त्येव विचित्रा वीचय इति । तासां वाय्वादिसंयोगहेतु. कत्वान्नहि भवति शान्ते वायौ कल्लोललेशोऽपि । यथा भाजनोद के। तन्नतरयोग्ययोगाभावे विचित्रता कथञ्चनापि सम्भविनी। न चेतरदपि जन्यते तेन, चतुर्थवस्तुस्वीकारापत्तेः । स्वीकारेऽपि च तस्य ब्रह्मरूपत्वे चतुगुणात्मकताप्रसङ्गः । इतरथा चाकारणं कार्योद्भवः ब्रह्मणो निमित्तकारणत्वेन स्वीकारात् । तन्न स एव तथा तथारूपतया परिणमति योग्यो विकल्पो विकल्पाननुवर्त्तयितुम् । तन्न ब्रह्मविवौयं दृश्यमानः पदार्थप्रकरः । 'आत्मन आकाशः सम्भूतस्तस्माद्वायु'रित्यादिका प्रक्रियापि स्वच्छन्द उद्भ तान प्रमाणीभावमाप्नोति विद्वपरिषदि । वायोराकाशे जायमानत्वं, न तु ततस्तथा । वायोरपामुद्भवस्य यन्त्रद्वारा प्रत्यक्ष सिद्धत्वात् । तत्र त्वग्नेराप इति । अथ चेत मयाध्यक्षेण प्रकृतिः सूयते' इति, 'अजामेकां लोहितशुक्लकृष्णां बह्वीः प्रजाः सृजमानां सरूपाः । अजो ह्य को जुषमाणोऽनुशेते' इत्यादि । तथा 'मायां तु प्रकृति विन्द्यात् मायिनं तु महेश्वर'मित्यादि वाक्याद्यदि प्रकृतिद्वाराऽसौ विधातृत्वेन कतीक्रियते द्वितीयविकल्प:ङ्गीकारेण, तदापि वचनीयमवचनीयवाङमयतत्त्वविदा वचनीयम् । यत् सा प्रकृतिरपि नित्यानित्या वा ? । आद्य, कथं सा तेन विहिता विधात्रा ? कथं च नागिन्यवनीधरादिप्रादुर्भाव ? इतरकारणा