________________
न्यायावतारः
००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००00.0000000
इति । कियन्तं यावत्कालं आसीनयानामवतार ? इति चेद्, आर्यबज्रपादान यावदिति गृहाण । 'जावंत अजवइर'त्तिवचनात् । नन्वेवं नयावताराभावे कथमवतार्यते कचिदितिचेत्, अनुयोगद्वाराद्यभिहिताशया एवावतार्यन्ते वसतिप्रस्थकयोरावश्यकाभिहितनीत्या च सामायिकादौ । अत एव च 'न नया समोयरंतित्ति प्रतिपादितम्। ननु का हानिर्यद्यवतार्येत नयप्रकरश्चेद् । एकैकानां नयानांशतशोभेदभिन्नत्वादन्यनयवक्तव्यतामज्ञानादन्यत्र समवतारयतो भवे. न्मिथ्यात्वापात इति निषिद्धोऽसौ । यद्वा-नाऽसौ निषेध आत्यतिकः। यदाह-'आसज्ज उ सोयारंनए नयविसारओबूयत्ति । ननु व्याहतमिदं परस्परमितिचेत, नियमाभावपरत्वादेतस्य । यद्वा अवतारितनयावतारविषयत्वनुत्तरस्येति न व्याघातगन्धोऽपि । यद्वा-निषेधो हि सूक्ष्मसूक्ष्मतरादिगवेषिणामृजुसूत्रादीनामनुज्ञा च नैगमादीनां स्थूलविषयकाणाम् । यत् उक्तम्
एएहिं दिट्ठीवाए परूवणा सुत्तपत्थकहणा य ।। इह पुण अणभुवगमो अहिगारोतीहि ओसन्न ।। ति [विशेषा०]
कृतं प्रसङ्गानुप्रसङ्गेन । नयानानेकनिष्ठानां श्रुतवमनि प्रवृत्तिस्तु 'एगे आया एगे दंडे' इत्यादिसूत्रार्यालोचनाविचारचतुराणां स्पष्टैव । अबोचुश्च सूरयोऽपि 'पाडिकनयपहगयं सुत्तति । तथा च या या स्वसमये वक्तव्यता साऽपि तत्तत्रयप्ररूपितैवेति व्याख्याविदां मतम् । अत एव च बहुश्रुतत्वेऽपि निश्चयानभिज्ञत्वं समयप्रत्यनीकत्वं च प्रतिपाद्यमानं सङ्गच्छते । तदुक्तम्'जह जह बहुस्सुओ संमओ अ सीसगणसंपरिवुडो अ। अविणिच्छिओ अ समए तह तह सिद्धन्तरडिणीओ।। [सन्मति०]
इति । अन्यथा बहुश्रुतत्वं विरुद्ध्येतैव । नयप्रवृत्तिमयत्वे तु श्रुतस्यावि