________________
न्यायावतारः
BB0000000308888bdodo0000000000000000000000000000००००००००००००००००००००००००००००००००००००००००
निश्चितसिद्धान्तता स्यादेव । प्रतिपादितं चैवमेव जजह भणियं सुत्ते' इत्यादिनापि । कथं तदा निश्चितश्रुतत्वं प्रमाणभूतं वा श्रुतं स्यादित्याह'सम्पूर्णार्थविनिश्चायीत्यादि । सम्पूर्णः सकलसदसदादिधर्मकलितत्वात् यावद्धर्मविशिष्टोऽर्थो-घटादिर्जीवादिर्वा तं विनिश्चिनुत इत्येवंशील यत्तत्सम्पूर्णार्थविनिश्चायि, न नयादिवदेकादिधर्मविनिश्चायीस्यर्थः । किन्तु सकलनयाभिप्रेतधर्मसमुच्चयनात् सम्पूर्णधर्मकलितार्थाभ्युपगन्तृ । अत एवोच्यते___ 'भमिच्छद्दसणसमूहमइअस्स अमयसारस्स । जिणवयणस भगवओ'त्ति । न च वाच्यं कथं नयानां मिथ्यादर्शनत्व ? तथात्वे च तेषां कः प्रतिविशेषो नयदुर्नययोः ? । नयवाक्यं चाभिमतमेवामियुक्त यदुक्तम् स्तुतिषु'सदेव सस्यात्सदिति त्रिधार्थो, मीयेत दुर्नीतिनयप्रमाणैः। यथार्थदर्शी तु नयप्रमाण-पथेन दुर्नीतिपर्थवमास्थः ।।१।। [अन्ययोग०]
इह च नयप्रमाणपथस्य यथार्थदर्शिदब्धतादर्शनेन स्पष्टैव समीचीनताऽवाचि । प्रतिपादितं च पूर्वमपि-'नथि नएहिं विहुण'मित्यादिना भवद्भिरपि जिनवचनस्य नयमतत्वं, न च तन्मिथ्येति कथङ्कार विरुद्धमिदं परस्परार्थ श्रद्दध्महे इतिचेत् । सम्यकपर्यनुयुअक्थाः, परमेतावत्तावचिन्तनीयं त्वया यदुत-नयैरपि सकलधर्मविशिष्टं घटादि वस्तुन प्रतिपाद्यत एव, किन्त्वेकधर्मविशिष्टमेव । तथा घ कथं तेभ्यः सम्पूर्णार्थबोधो भविता, चेन्न भविता, तर्हि स्पष्टमेव यथार्थपदार्थानवबोधकत्वं तस्य, एनमंशमधिकृत्दैव तस्य मिथ्यात्वतया प्रतिपादनमभिप्रेतमभियुक्ततमैः । असम्पूर्णवस्तुप्रतिपादनस्य मिथ्यात्वं तु
'पयमक्खरं व इकं जो न रोएइ सुत्तनिहिट्ट । . सेसं रोयतो बिहु मिच्छादिट्ठी मुणेयव्यो' ॥१॥