________________
न्यायावतारः
०००००००००००००००००००००००००००००००००००००००००००००००००00000000000000000000०००००००००००००००.
मेव तथात्वात् । विग्रहगत्यादावपि चास्त्येव समप्रापि शक्तिः, तत्रापि कर्माष्टक वेदनाद्वा सर्वमपि । यद्वा-'जीव प्राणधारणे' इतिवचनात तस्माद्'अचि'त्यचि'नाम्युपान्त्येति के वा जीव इत्ययमपि लक्षणावेदकम (कः) । तथाच न प्राणो जीवः, किन्तु तद्धारकोऽन्य एवेत्युक्तं स्यान । ननु का तस्याभिधेति प्रोचिवांसः प्रवचनप्रधानाः - 'क्षित्याद्यनामक' इति । तत्र क्षियन्ति-निवसन्ति गमन वा कुर्वन्ति सकर्मका जीवाः सशरीरा वा प्राणिनो गत्यर्थानां ज्ञानप्राप्तिव्याप्त्यर्थत्वात् त्रय एतेपि यथायोगं ग्राह्या इति क्षितिः । ति निवासगत्यो रिति तौदादिकात् 'स्त्रियां क्ति [५३६१] रितिक्तौ सिद्धयत्येव। एवं आदिशब्दाच्छेषोदकसमीरणानलवनस्पति-द्वित्रिचतुःपञ्चेन्द्रियाः पर्या - तरभेदभिन्ना ग्राह्याः । अनेका हि भेदा जीवस्य । यहाहद्विविधाश्चराचराख्यास्त्रिविधाः स्त्रीनपुसका ज्ञेयाः । नारक-तिर्यक-मानुष-देवाश्चतुर्विधाः प्रोक्ताः ॥१॥ पञ्चेन्द्रियास्त्वेकद्वित्रिचतुःपञ्चेन्द्रियास्तु निर्दिष्टाः । क्षित्यम्बुवह्निपवनतरवस्त्रसाश्चेति षड्भेदाः ॥२॥ एवमनेकविधानामेकैको विधिरनन्तपर्यायः । प्रोक्तः स्थित्यवगाह ज्ञानदर्शनादिपर्यायैः ॥३॥
एते यद्यपि जीवभेदास्तथाप्युदाहाए :-नामयति-प्रह्वीकरोति तत्तद्रपेण जीवं लोके वित्तीकरोतीति नाम 'सात्मन्नात्मन्वेमन्त्रोमन्क्लोमन् ललामन् नामन् पाप्मन् पक्ष्मन् यक्ष्मन्निति' मनि नमेरानिपातनानाम । क्षित्यादि नाम न यस्य स क्षित्याद्यनामकः। 'एकार्थ चानेक [३।१।२२] मित्यत्रानेकग्रहणात् त्रिपदबहुव्रीहिः। शेषाद्वेति चकच। भत्रावधेयमिदं धीधनैर्यत् तत्तत्कर्मोदयेन तत्तद्गत्यवाप्ती सोऽभिधीयते पृथ्व्यादिनाम्ना, परं तस्य न नाम जीवस्य, तदानीन्तनपर्यायस्यैव । तथा नामत्वात पर्यटँश्च धारयत्येवासावनेकविधानि