________________
६२
न्यायावतारः
0000000000000000000000000000000000000000000000000000000000......................
प्रत्यभिज्ञायते चांशतो विनष्टमपि पटादिकम् । न च नवोत्पन्न स्वस्वत्वमस्ति । तथा चासत्यालापा एवैकान्त नित्यवाद विचक्षणाः समापद्येरन् । स्याच्च तेषामेकान्तकान्तप्रविष्टानाम् अदर्शनीयमुखता श्रतिकुत्सितदोषास्पदानाम् । यतो वर्णिता वर्णिकामात्रमन्तर्याणिविशारदः
सत्त्वस्यैकान्तनित्यत्वे कृतनाशाकृतागमौ । स्यातामेकान्तनाशेऽपि कृतनाशाकृतागमौ ॥ १ ॥
आत्मन्येकान्तनित्ये स्यान्न भोगः सुखदुःखयोः । एकान्तानित्यरूपेपि न भोगः सुखदुःखयोः ॥ २ ॥
क्रमाक्रमाभ्यां नित्यानां युज्यतेऽर्थक्रिया नहि । एकान्तक्षणिकत्वेऽपि युज्यतेऽर्थक्रिया नहि ॥ ३॥ [ वीत०]
तथा 'नैकान्तवादे सुखदुःखभोगौ, न पुण्यपापे न च बन्ध मोक्षौ' । तथा 'य एव दोषाः किल नित्यवादे, विनाशवादेऽपि समास्त एवेति । उक्तं च पूज्यपादैरप्यन्यत्र
सुहदुक्खसंपओगो न जुज्जर निचत्रायपक्खमि । एगच्छेअमिय सुहदुक्खवियप्पणमजुत्तं ॥१॥
कम्मं जोगनिमित्तं बज्झइ बंधट्ठिई कसायवसा । अपरिणउच्छिन्नंसु अ बंधट्ठकारणं नत्थि ॥२॥
बंधमि अपूरंते संसारभओह दंसणं मोज्झं । बंधं व विणा मुक्ख सुहपत्थणा नत्थि मोक्खो य ॥३॥ [सन्मति०]
वाच्यावाच्योभयात्मकतापि पदार्थप्रचयस्य नियमितधर्मवाचकत्वाच्छब्दानामवशेषधर्मानुदीरणात् स्पष्टव । यद्वा नहि यावदितरपदार्थगतधर्मव्यावृत्तिसाधकशब्दप्रयोगः कर्तुं शक्यते । अस्ति