________________
न्यायावतारः
.000000000000000000000000000000०००००००००००००००००००००००००००००0000000000000000००००००००००००
च तदितराखिलव्यावृत्तं स्वरूप वस्तुनि प्रत्येकं, विवक्षितघटे तदितरघटतदन्यशेषपदार्थत्रातस्यान्योन्याभावभावात् । भवन्मतेनापि न च. यावत्तदवधारणाभावे सम्यगायातो घटो वाच्यतावम॑ । जेगीयते चात एव- ‘एको भाव' इत्यादिनैकपदार्थस्य यथार्थ स्वपरपर्यायैर्ज्ञानापाइने सर्वपदार्थज्ञानसम्भवः । सदादिसप्तभङ्गकलितत्वाच वस्तूनां नैकान्तवाच्यता। प्रतिपादितं चैतत् सविस्तरं-' 'अह देसो सम्भावे' इत्यादिनान्यत्र सूरिमुख्यैः । व्यवहारोप्यनेकान्तादेव सङ्गच्छते। ततश्चोक्तमिदं
'जेण विणा लोगस्सवि ववहारो सम्बहा न निष्पहइ ।
तस्स भुवणिकगुरुणो नमो अणेगंतवायस्से'। त्यादि । एवं सामान्यविशेषोभयात्मकत्वमपि पदार्थानां प्रतिव्यक्ति स्वसजातीयसमानताया इतरव्यावृत्तताया अनुभवाचावसेयमित्यलं विस्तरेण । अनेकान्तात्मकमेव वस्त्विति स्थितम । तकिमित्याह - 'गोचरः सर्वसंविदामिति । तत्र गावः-इन्द्रियाणि चरन्त्यस्मिन्निति 'गोचरसंचरवहव्यजव्रजखलापणनिगमबकभगकषाकनिकषं' [५॥३१३१ ] करणाधारयोः पुन्नाम्नि इत्यधिकरणे घे गोचर-इन्द्रियविषयः तदेवानेकान्तात्मकं वस्त्विति लक्षणपक्षेऽध्याहार्यम् । केषामित्याह सर्वसंविदा' तत्र सर्वाश्च ताः संविदः सम्पूर्वकविदेर्भावाकोंः 'क्रुत्संपदादिभ्यः' [३।११४] इति किपि संविद इति । तासां सर्वसंविदाम् । अनेनैतत् ज्ञापयति, यदुत-यद्यज्ज्ञेयं तत्तत् सर्वमनेकान्तात्मकम् । नच ज्ञेयत्वस्याऽभावोस्ति कचिदपि । लक्षणपक्षे तु सर्वसंविदां तदेव वस्तुगोचरः, न तदन्यथारूपं बस्त्वध्यवसेयं ज्ञानेन केनचिदपि, तदभावादेव । सर्वेत्यनेन सांव्यवहारिक-पारमार्थिकप्रत्यक्षपरोक्षादीनां सर्वेषां समानगोचरतानाह । नहि केवलेनाप्यनेकान्तात्मकतामतिरिच्यान्येन प्रकारेणेक्ष्यते गोचरः । संविदामित्यनेन तु प्रमाणस्य सकलादेशतां ज्ञापयति । तेन सर्व स्वधर्मसत्त्वान्वितं परधर्मासत्त्वा