________________
न्यायावतारः
.००००००००००००००
००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००
द्धत्यं परिहरन्ति । यतो नहि प्रसिद्धार्थानुशासकोऽवाप्नोति अनुशास्तृशिरःशेखरताम् । तत्त्वतस्तु प्रस्तुतप्रकरणप्रस्तुता · प्रमाणादिव्यवस्था न कथञ्चनापि कैश्चिदपि विरोधमनुभवन्तीतिदर्शनार्थमुपन्यासः । नहि प्रसिद्धमर्थ शासच्छास्त्रमर्थवद् भवति । तत् प्रसिद्धस्वेऽस्य च स्यादेवानर्थक्यमित्येवं कार्या व्याख्या । यद्वा-संव्यवहार कर्तारोऽत्र विद्वांसः सन्ति । न च तेऽत्राधिकृताः 'तव्यामोह. निवृत्तिः स्याद् व्यामूढमनसामिहे'ति प्रतिज्ञानात् । तथाच विद्वत्परि. षदि प्रसिद्धापि व्यवस्थेयं नेतरेषां तथेति । तेभ्यस्तत्कीर्तनमप्रसिद्धत्वात् सफलमेव । यद्वा-प्रकीर्णकरूपेण यद्यपीयं प्रसिद्धा तथापि नैवं यथार्थमुपनिबद्धाऽस्ति । अनुपनिबद्धायां चैवंन स्याद् व्यामोहनिवृत्ति. रिति युक्त प्रसिद्धाया अपि निबन्धनमेतस्या इति ज्ञाप्यतेऽपिना । किमित्याहु:-'प्रकीर्तिते'ति । प्रकर्षण-अव्याप्त्यतिव्याप्त्यसम्भवव्य. वच्छेदेन कीर्तिता-श्लोकबद्धोपनिबन्वेन संशब्दिता । यथा वाचकपाठकानां सुखावधारणपाठप्रमुख सिद्धयत् तथोपनिबद्धेत्यर्थः । अत्र कीर्तितेतिशब्दोऽन्त्यमङ्गलाय । तच्च शिष्यपशिष्यादिवंशस्याविच्छित्या शास्त्रप्रवर्तकम । 'अन्ते अन्वुच्छित्तिकरं 'सिस्सपसिस्साइवसस्से'ति वचनात् । कीर्तितशब्दश्च प्रशस्तभावोत्पादकत्वान्मङ्गलमेव, प्रशस्तभावस्यैव मङ्गलपदार्थत्वात, अन्यथा मङ्गलस्यापि मङ्गलकार्याकरणात् । प्रशस्तमपि वस्तु प्रशस्तभावोत्पादकतयैव मङ्गलम् । अत एव च शिष्यबुद्धिमङ्गलपरिग्रहायैव मनलमित्यमियुक्तपादा आख्यान्ति । भद्रादिगणान्तगर्तत्वादपि मङ्गलमेष शब्दः । यतो
'देवता वाचकाः शब्दा, ये च भद्रादिवाचकाः। ते सर्वे नैव निन्द्याः. स्युलिपितो गणतोऽपि वेतिवचनात् । ग्रन्थसम्पूर्णतां कुर्वन्त आहु:
इति न्यायावतारसूत्र' तत्र इतिः सम्पूर्णार्थमव्ययम् । न्यायस्य प्रमाण-प्रमेयादिपदार्थबोधस्यावतारो-निरूपणं यस्मिन् स न्याया