________________
१२
न्यायावतारः
000000000000000000000000००००००००००००००००००००००00000000000000००००००००००००००००००००००००0000
विनष्टत्वेनाप्रत्यक्षत्वात्। तत् कस्य निर्वचनं वाञ्छसि । अनुमानादि च नैवाभ्युपगम्यते भवता स्पष्टम् । अथ न नैवाभ्युपगम्यते सर्वथा, किन्तु यद् यथार्थं वह्नयादिज्ञापकानुमानादिवद्, चिरं जीवतु । तथासति न नियमो यदुत-प्रत्यक्षमेव प्रमाणं, नानुमानादि । किन्तु यदेव प्रमेयाव्यभिचारि, तदेव प्रमाणम, परं चाप्रमाणमिति । न च वाच्यं प्रत्यक्षमविसंवाद्येव, अनुमानादिकं तु न तथेत्यप्रमाणतो
द्घोष्यतेऽस्य । यतोऽध्यक्षं दृश्यते मरुमरीचिकाजलावभासप्रत्यक्षादीनां व्यभिचारिताऽनुमानादीनां च बहूनामव्यभिचारितेति न भ्रान्तव्यं भ्रातर्भवता व्युवाहणया । न चास्त्यनुमानाद्यपि निषेधकं जीवस्य । यतो वक्त शक्यमत्रापि, यन्न जीवाभावः प्रत्यक्षः, कथं तदा तत्प्रतिबद्धलिङ्गाग्रहणादनुमानादीत्येवं सर्वे भवदुक्तमवतारणीयमत्र जीवनिषेधेपि भवतैव । न खल्वयं सतामस्ति न्यायो, यदुत-पराभिमते एव प्रमाणान्वेषणा, न स्वानुमते इति । पर्यनुयोगपराण्येव सूत्राणि वाचस्पतीनामिति त्वनभिमतभावाभावोभयस्यैव युक्तमवलम्बयितुमन्यथावलम्बने तु स्पष्टैवार्धजरतीयन्यायानुसृतिः। अन्यथा भवतां स्थापनाहीनपक्षवादित्वेन विकटैवं वैतण्डिकता। प्रश्नमात्रसूत्रप्रणेतृणां तु 'कायाकारपरिणतसमुदाय. पुरुष' इत्यपि वचनं न भवतामागमाप्रामाण्याभिमन्तृणामभिमतसिद्धये। यतः स एवाभिधाताऽभि. धाता स्ववचनाप्रामाण्यम् । तथाच स्वतो व्याघातितस्वप्रामाण्यस्य कथं भवेत् प्रामाणिकभावः १ । यच्चोक्तं निषेधयता प्रमातृत्वादिविशिष्टं जीवं यत् 'प्रमाणाधीनेत्यादि । तद् युक्तमेव, किन्त्वसिद्धमेव जीवस्य प्रमाणातीतत्वभणनम् यतो, यत्तावदुक्तं-'केन प्रमाणेनेत्यादि । तत्र व मो-यत्सकलप्रमाणज्येष्ठेन प्रत्यक्षेणैव तत्सत्ताऽवगम्यत एव, किमन्यमानगवेषणया ? । नहि मुधा लभ्यन्ते यवाश्चत् क्रीणीरन् कोपि तान् । अहमिति प्रत्ययः सर्वेषां स्वानुभवसिद्ध एव । न च कोऽपि ब्र यावं यदुत-अहं मां न जानामि। तथाच नाऽहंप्रत्यये विप्रतिपत्तिः । न च वाच्यमई गौर इति भवत्यहप्रत्ययः शरीरगोचरोपि,