________________
न्यायावतारः
००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००
न तावत् प्रकृतिरन्यत्र गच्छेत् । श्रामापि च नैव । सम्बन्धो व्यपैति चेद्, हंत ! हताऽसङ्गतोक्तिः । ससङगे च तस्मिन् का व्याहतिस्तस्य कर्त्त तायाम् । अदृष्टनिमित्तं प्रकृतेः स्वत्वमप्यात्मनो युक्तियुक्तं भवति सम्बन्धे एव बीजाङकुरन्यायेन भवदुदितेन । सङगै च प्रकृत्यात्मनो न कथञ्चिद्भेदेऽभेदे चाघटमानता । कथं च प्रकृतिर्जडा जनयेद् द्विं? यदि जनयेत् कारणं स्वानुरूपं कार्यमुत्सादयेदात्मानमाप। तन्नार्थः पञ्चविंशतितमेन पुरुषेण । कथं चैतन्यानुपपत्त्यात्माऽनुमापि। स्पष्टैव प्रच्छन्ना नास्तिकता । कथं च निवर्तते जडा प्रकृतिः । स्वयं निवर्त्तने च स्पष्टमेव यमनियमादेवैयय, सर्वेषां मुक्तिभावश्चाकारणम । प्रकृतिनिवृत्तेः सहेतुकत्वे च स किं पुरुषकृतः प्रकृतिकृतो वा?। आये, यथा प्रकृतिनिवृत्तिकारणस्य विवेकादेः कत्तत्वं तथैवादृष्टानामभ्युपगन्तव्यम् । अन्त्ये, प्रकृतेः स्ववधाय किं स्यात् करणीयं विवेकादि, करणे वा न तत्संयोगोऽपि तदैव, वियोगकर्तत्वस्वभावस्याव्याहतत्वात् । नवीनोद्भवे तु तत्स्वभावस्यावश्यमन्वेषणीयं कारणमन्यत्, तच्चात्मैवेत्यायातः कर्तृत्ववादः पुनः । अन्यच्च-यथा प्रतिबिम्बेनैव भोक्तताऽभ्युपगम्यते तथापि किमिति नाङ्गीक्रियते कत्तु ता । न चास्त्य तरेण भोगं सम्बन्धो नूतनादृष्टेन । भोक्ता चासावात्मा चेत्. तथा कर्त्ताप्यङ्गीकरणीयः समानयोगक्षेमत्वात् । तथा च किमुच्यते-'प्रकृतिः करोति पुरुषः उपभुते' इति । अन्यच्चकिमपराद्धमात्मना, यत्प्रकृतिकृतमशुभादिकं भुनक्त्यसौ । संसर्गमात्रं तु भवन्मतेन मुक्तात्मभिरपि सर्वव्यापित्वादात्मनामस्त्येव । पुण्यपापनियमोऽपि प्रत्यात्म न स्यादेव चैवं, यथावत् सम्बन्धे च किमिति रास्टयतेऽसङ्ग एवायं पुरुष इति । चिन्तनीयं चावश्यमिदं यदुत-भवान्तरे गतिारकादिका कस्य ? को वागच्छति? प्रकृतेर्जडत्वात्तस्या अभोक्तत्वाचात्मनश्च सर्वव्यापित्वाभ्युपगमाद् गमनाभावात् । निमील्याक्षिणी विचारयिष्यति भवानवश्यं हास्यत्येवालीकोऽहङ्कारः स्वस्य कतां विभुतां चात्मेति । असङ्गाधर्मत्वादिकं च श्रुत्युदितं