________________
८२
न्यायावतारः
00000000000............................00000000000000000000000000008866066@
दपि । नह्यम्बु बीजेनासंबंधमुत्पादयत्यङ्क रादीति, उक्तं च- 'निर्गुणत्वातदसम्भवादहङ्कारधर्मा ह्ये ते' । न च वाच्यं सम्बन्धाभावे प्रकृत्यात्मनोः कथं स्वस्वामिभावः ? इति अदृष्टस्य तन्निमित्तत्वे नाश्रयणाद्। यद्वाऽविवेकादेव तत् । यतः सति विवेके प्रकृत्यात्मनोर्न क्रिमपीति चेत्। उच्यतेप्रकृतिर्नित्या अनित्या वा ? । आद्ये, बुद्धयादीनां कथमिवोद्भवः' । नह्यु - पादानस्य पूर्वावस्थाSरित्यागे भवत्युत्तरावस्था । सत्कार्यत्वं तु प्रयासानर्थक्यं - क्रिया व्युपरम व्यपदेश- तत्कार्याभावादिनाऽनुच्चार्यमेव । तन्न स्वनीत्या तत्सम्भवोऽपि कुतस्तत्कर्त्त ता । अन्त्यस्तु नाभ्युपगम्यत एव । अभ्युपगमे या कादाचित्कत्वाद् भाव्यं तन्निमित्तेन । तथा चायात आत्मैव निमित्त त्तम् । अन्यच्च प्रकृतिरात्मसम्बद्धा कुर्यात् किमप्यसम्बद्धा वा ? | भाद्ये, असङ्गत्वव्याहतिः स्पष्टैव । अन्त्ये न कार्यलेशस्याप्युद्भवः । अन्यच - अमिति पुरुषः प्रवक्ति तदन्यो वा ? । पुरुषश्च तू स्वसिद्धान्तविरोधः ।
1
•
प्रकृतेः क्रियमाणानि, गुणैः कर्माण्यनेकशः । अहङ्कारविमूढात्मा, कर्त्तामिति मन्यते || १ || इति
श्लोकवृत्तिसदसत्कर्मवाचकायाः प्रकृतेः कल्पितप्रकृतिवाच्यतां स्वीकृत्य यदि चोच्येत प्रकृतिजन्ये ऽहङ्कार एवाहमितिचेत्, नन्वहं जानेऽहं भुनज्मि मुक्तश्च प्रकृतेर्भवामीति पुरुषस्य मन्यतेऽहंताऽन्यस्य वा ? । आये, को विरोधोऽत्र । अन्त्ये, प्रकृतेभोंगाश्रयता चिदात्मकता प्रकृतियोगपरिजिहीर्षा चापद्येत । प्रतिविम्बोदयेनैव भोगादिरिति चेत्, नामूर्तस्य प्रतिविम्बादि । आकाशवच्चेत्, नैतदमूर्त्तस्याव शिस्य, किन्तु तद्वतिप्रभादेः, अन्यथाकाशस्यापि साकारत्वाभ्युपगमापत्तेः । अन्यञ्च त्वन्मतेन विभुत्वादात्मनः सर्वेषां भवेयुः प्रतिबिम्बानि । असङ्गस्यामूर्त्तस्य प्रतिबिम्बभावे तु स्यात् मुक्तानामपि प्रतिबिम्बता । अन्यथा स्यात् प्रकृतिमतां सम्बन्धेन मूर्त्तता बलात्कारेणापि । अन्य - सर्वव्यापिन आत्मनो नित्यायाः प्रकृतेर्वियोगः कथं भवेत ? ।