________________
न्यायावतारः
000000000000000000000000०००००००००००००००००००००००००००००००००००00000००००००००००००००००००००००००
चा प्रक्षिपति सर्वमन्यदधम्तात् करोति स्वभोग्यतयेति प्रमाता, प्रमीनाति-वोपादानेनान्यान्यान्पुद्गलान् विनाशयति यथेच्छं परिणामात् तत्पूर्वपर्यायांत्याजयित्वा हिनस्तीति वा प्रमाता । तस्यैव प्रमातृत्व, योऽत्रोदियः। नेन्द्रियाणां मनसो वा। यतो हि द्रव्यरूपाणि, जडानि तानि, न तदभावे तृणकुब्जीकारेप्यलंभूष्णूनि । न च तान्यात्मानं प्रयुजते, किन्तु तेन प्रयोज्यान्येतानि । स्वतन्त्रश्च कर्ता भवति । अन्यच्च-भावेन्द्रियाणि यानि लब्ध्युपयोगरूपाणि भावमनो वा परिणामात्मकं यत्तदपि करणरूपाण्येव, न कत्तणि । करणस्य सकत कत्वनियमाच भाव्यं तेषामधिष्ठात्रा । न चानुपयुक्त आत्मनि स्वविषयंपरिच्छिन्दन्त्यक्षाणि मनोवा सुप्तमुर्छितादौ। तथानुभवात् । न चेन्द्रियाणां परिच्छेदकत्वेऽन्यान्याक्षविषयानुभवाभावात्तत्स्मरणं स्याद्, येन मया श्रुतमित्यादिविषयपञ्चकसङ्कलना भवेदेकस्य कस्यापि । न च ज्ञानज्ञानार क्ये ज्ञानवानहमित्याकारकः स्यात् प्रत्ययो निराबधिः । ज्ञानालयत्वेन भिन्नत्वे तु स एव नामान्तरितः प्रमाताऽभ्युपंगतो भवति । न चाभिन्नः सन्तानः सन्तानिनः क्षणक्षणावस्थानप्रष्ठ सन्तानिनं सञ्जानीत, सन्तानस्यापि च सत्त्वेन क्षणिकत्वायत्तौभक्षितो लशुनो न ज्वरः शमं गत' आयातो न्यायः । न भवेदेव पासनासङक्रमादि सन्तानिनीव क्षणक्षयिणि सन्तानेऽपि । तवभावे च कुतस्तरां स्मरणं प्रत्यभिज्ञानादि वा । तदभावे च कथं भवतां बौद्धानुयायित्वाद्यवगतिः, न चेत् साऽलं विवादेनाशुभसंस्काराऽभावेन पूर्वव्युग्राहित्वाभावात् स्वाभाविकोपदेशेनैव सम्बोधभावात्। किम्भूतः पुनरित्याह-स्वान्यनिर्भासी'ति । स्व-जीवो विवक्षितः, स एवान्ये च तद्भिन्ना ज्ञानज्ञेयाद्याः तान् स्वान्यान, निर्भासते-प्रतिक्षणमुपयोगस्वाभाव्यानिश्चिनोतीत्येवंशीलो स्वान्यनिर्भासी । निरुपसर्गेण च तस्योपयोगस्वभावतां ज्ञापयति। नहि आकाशवजडोजीवश्चेतनासमवायाचेतनः, तथात्वे हि 'कालखात्मदिशां सर्वगतत्वं परमं महदि'