________________
न्यायावतारः
६५
00000000000000000000000000००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००
नाशाभावः ?, यतो यद्यतोऽभिन्नं तत्तत् समानावस्थाकमेव । यथा प्रेत्य गच्छति जीवे, गच्छति तज्ज्ञानमपि सहैव । एवमत्रापि पर्यायनाशे भवितव्यमवश्यं द्रव्यनाशेन । न च घटत्यादिनाशे नश्यति मृद्रव्यं युष्मन्मतेनापीतिचेत्, न खलु द्रव्यपर्याययोभिन्नत्वमभिन्नत्वं वैकानेनास्ति । ततश्च द्रव्यवर्जिताः न पर्यायाः पर्यायवर्जितं च न द्रव्यमिति युक्तियुक्तः पन्था युक्तिवादिनाम् । जीवज्ञानयोस्तु दृष्टान्त एवासमीचीनः । यतो ज्ञानं तावत् गुणो न तु पर्यायः । न भवत्येव च ज्ञानविस्मृतावपि जीवस्य नाशः । भवतु तथापि ज्ञानं भिन्नमेव, अन्यथा तन्नाशे जीवनाशापत्तेः । सत्यं, नश्यत्येवासो तद्रपेण। यतो विशिष्ट. नाशे विशेषण-विशेष्यत्दुभयाऽन्यतरनाश एव कारणम् । यथा दण्डनाशे पुरुषनाशे तदुभयनाशे वा नष्ट एव दण्डी पुरुषः । न च पश्चाद् व्यपदिश्यते दण्ड्ययमिति सत्यपि पुरुषे । एवमेव च 'विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानु विनश्यतीतिश्रुतिः। सिद्ध ष्वप्युत्पादादिश्च सङ्गच्छते । तत एवार्षे प्रथमसमयसिद्धो द्वितीयसमयसिद्ध इत्यादि सिद्धानामे करूपाणामपि भेदाभिधानं सङ्गच्छते । द्रव्यपर्याययोः कथञ्चिद्भेदः कथञ्चिदभेदो वर्त्तते यतस्तत एव द्रव्यापेक्षया नित्यत्वं पर्यायापेक्षयाऽनित्यत्वमपि च सङगतं भवति । तद्भावाव्ययं नित्यमिति हि नित्यलक्षणम । न च पर्यायविशिष्ठत्वेन द्रव्यनाशे द्रव्यत्वेन द्रव्यनाशः । नहि दण्डित्वेन पुरुषनाशे पुरुषत्वेन पुरुषनाशोऽस्ति । पर्यायाणां भिन्नाभिन्नत्वं च द्रव्येष्वेव तदुत्पादाद् द्रव्यावस्थानेपि तन्नाशात् द्रव्यमन्तरेणाभावाच स्पष्टमेव । नहि जीवत्वमृते मनुष्यत्वमुत्पद्यते, तद्वतोऽजीवत्वप्रसङ्गात् । न च मनुष्यत्वनाशेन नश्यति सः, परलोकाभावप्रसङ्गात् । न चान्यत्र जीवादीक्ष्यते मनुष्यत्वमित्येवं सर्वेष्वपि स्वीकार्यम् । एवमेव च परमाणोः नित्यत्वेऽपि तत्समुदायस्य स्कन्धपरिणामः । अन्यथा स्कन्धभावे परमाणुनाशभावस्य स्वीकार्यत्वापत्तेः । स्कन्धे