________________
१२०
न्यायावतारः
00000000000000000000000000000000000000000000000000000000000000000000000000000000000000
अस्य सफलत्वे च किं तेनान्तर्गडुना, भक्तिमात्रत्वात् तकर्त्ततावादस्य । तदिदमाहुः पूज्या:
'फलं ददाति चेत् सधैं तत्तेनेह प्रचोदितम् । अफले पूर्वदोषः स्यात्, सफले भक्तिमात्रता ॥१॥
2
अत्र पूर्वदोषो विचित्रे कर्मणि जन्तूनां प्रवर्त्तने को हेतुरीशस्य ? न कोपोत्यनथक एव कर्त्त त्वाद :खादिकारणप्रवर्त्तकत्वात् स्पष्टोSपकारिशेखरः इति निर्हेतुका वा प्रवृत्तिः सोऽत्रापि कर्मणो निष्फलत्वस्वभावात्तदवस्थ एवेति । केचित्तु परमेष्ठिनमनभ्युपगच्छन्तः स्वयमेव प्रकृतिजातां जगत्युत्पत्तिं प्रचक्षते, तेऽपि क्रमेणानेनैव निरस्याः । यतो सापि 'नित्ये' त्यादि सर्व वाच्यम् । न चाचेतना प्रकृतिः वेत्त्यदृषुपरिमाणं येन जगज्जन्तुयोग्यायोपभोगायोपयुज्येत । न च सत्त्वरजस्तमः साम्यावस्थालक्षणा नित्या प्रकृतिरपरिणममाना किमपि तृणकुब्जीभावादिकमपि कर्त्तु मला स्यात् । अप्रच्युतामुत्पन्नस्थिरस्वभावत्वाच्च नित्यस्य । यांद सा कुर्यादहङ्कारादिकपरिणतिं स्वस्याः कथमिव स्यान्नानित्या ? कथं च श्रद्धेयं प्रत्यक्षादिविरुद्धां गुणेभ्यो द्रव्योत्पत्तिरुद्भवतीत्येवंरूपां प्रक्रियां वर्णयन्ती श्रतिगीरद्भावयेद्भावुक तत्त्वमिति । किञ्चापरिणामिन आत्मनः संसज्य तृती यवेदिनमिवाभिनवविकाररूपतनयजननयोग्यतामादधीत सा वनितेव प्रकृतिः कथं ? कथं विदधीत चाकतु भुक्तभोगिन आत्मनो 'वियुक्ततां स्वनिवृत्या । क्षीरादिदृशन्तोपि न कथञ्चनापि युक्तियुक्ततामादधाति तः प्रणिगद्यमानः । यतः प्रथमं न तन्नित्यं, न च न तद्भिन्नं द्रव्यं, न च तत् स्वयं प्रकृतिवत् परिणमतिं न चानुपगृहीतं वा परिणमति, तत् कथमित्र तयोः साम्यं भवेत् । शेषं पूर्ववदेव |
.9
ये तु तृतीयप्रकृतिमन्तमिव तृतीयविकल्यं संश्राययन्त्य मतनया