Page #1
--------------------------------------------------------------------------
________________
Sarasvativilasa Series Ro. 1.
THE
GADYACHINTAMANI
OF
VÂDIBHASIMHA
BY
T. S. KUPPUSWAMI SASTRI,
Assistant, Government Upper Secondary Training School, Tanjore
All Rights Reserved. ]
AND
S. SUBRAHMANYA SASTRI, Sanskrit Pandit, K. H. School, Tanjore.
Madras:
PRINTED BY G. A. NATESAN & Co, ESPLANADE ROW.
1902.
[Copyright Registered
Page #2
--------------------------------------------------------------------------
________________
Sarasvativilasa Series No. 1.
THE
GADYACHINTAMANI
OF
VÂDIBHASIMHA
BY
T. S. KUPPUSWAMI SASTRI,
Assistant, Government Upper Secondary Training School, Tanjore
All Rights Reserved. ]
AND
S. SUBRAHMANYA SASTRI, Sanskrit Pandit, K. H. School, Tanjore.
Madras:
PRINTED BY G A NATESAN & CESPHANAUE ROWE
1902.
[Copyright Registered
Page #3
--------------------------------------------------------------------------
Page #4
--------------------------------------------------------------------------
________________
Dedicated
włih kind pērmission
TO
EUGEN HULTZSCH Esquire, Ph. D., Government Epigraphist ; Fellow of the University of Madras , Corr. Member of the Batavia Society of Arts and Sciences ;
and of the Royal Society of Sciences at Göttingen.
As a token of high regard and esteem for his Indefatigable researches in the field of
Sanskrit literature.
BY THE EDITORS.
Page #5
--------------------------------------------------------------------------
Page #6
--------------------------------------------------------------------------
________________
|| श्री: ॥ ॥ गद्यचिन्तामणिः श्रीवादीभसिंहश्च ॥
अयं वादीभसिंहः कविर्दिगम्बरजैनो यतिः पुष्पसेनमुनेरन्तेवासी च । क्षत्रचूडामणिर्गद्यचिन्तामणिश्चेति द्वावेव ग्रन्थावेतत्कृतावुपलभ्यते । अस्यानितरसाधारणी नैपुणी पश्यन्तः पण्डिताः 'वादीभसिंहः' इति नाम चक्रुरिति प्रतीयते । सांस्कारिकं तु नाम 'ओडयदेवः' इत्यवगम्यते । अत्र प्रमाणवचनानि ग्रन्थादावन्ते च दृश्यन्ते
'श्रीपुष्पसेनमुनिनाथ इति प्रतीतो
दिव्यो मनुहृदि सदा मम संनिदध्यात् । यच्छक्तितः प्रकृतिमूढमतिर्जनोऽपि
वादीभसिंहमुनिपुङ्गवतामुपैति' ॥ ६ ॥ 'श्रीमद्वादीभसिंहेन गद्यचिन्तामणिः कृतः ।
स्थेयादोडयदेवेन चिरायास्थानभूषणः ॥ स्थेयादोडयदेवेन वादीभहरिणा कृतः ।
गद्यचिन्तामणिर्लोके चिन्तामणिरिवापरः' ॥ अत्र प्रथमोदाहृतश्लोक आत्मनो गुरुचरणध्यानमेवाज्ञानभञ्जकः सुज्ञानजनकः परमो मन्त्रजप इति स्वाशयमाविष्करोति कविः । 'ओडयदेवः' इत्यदसीयनामश्रवणाद्दाक्षिणात्योऽयं कविरित्यवगम्यते । यतः 'उडयदेवः' 'ओडयदेवः' 'ओडयात्तेवः' 'ओडयाल्वार' इत्येवं नामकरणं दाक्षिणात्येष्वेव कतिपयजातीयेषु दृष्टचरं प्रसिद्धं च । अद्यापि विद्यन्त एव शालिवाटीप्रमुखेषु प्रदेशेषु (Tinnevelly and other Districts) 'उडयदेवः' इति नामवन्तोऽवरवर्णजाः पुरुषाः ।
Page #7
--------------------------------------------------------------------------
________________
वादीभसिंहः ।
. कविरयं कदा बभूवेति न निश्चयः । किंतु वचनसंदर्भरीतिमनुमृत्यैव यत्किंचिदिवास्य कालं निर्णेतुं प्रयत्यते । वादीभसिंहसूरिकृतक्ष. प्रचूडामणिगद्यचिन्तामण्योर्हरिचन्द्रकविरचितस्य जीवंधरचम्पूकाव्यस्य च वचनरचनायामाशयाविष्करणे च तत्रतत्र स्थलेषु सुतरां समुल्लसति साधर्म्यम् । तच्चाधस्तात्किंचित्प्रदर्यते
... १. 'यश्च समुपस्थितायां विपदि विषादस्य परिग्रहः सोऽयं चण्डातपचकितस्य दावहुतभुजि पातः' । पृ० १९. गद्यचिन्तामणिः.
'किं कल्पते कुरङ्गाक्षि शोचनं दुःखशान्तये ।
आतपक्लेशनाशाय पावकस्य प्रवेशवत् ॥' जीवंधरचम्पू:. २. 'सुमित्राद्यास्तयोः पुत्रास्तेष्वप्यन्यतमोऽस्म्यहम् ।
वयसैव वयं पक्का विश्वेऽपि न तु विद्यया॥' क्षत्रचूडामणिः'तयोः पुत्राः सुमित्राद्यास्तेष्वप्यन्यतमोऽस्म्यहम् । विद्याहीना वयं सर्वे नद्या हीमा इवाद्रयः ॥' जीवंधरचम्पू:. 'तपांसि तप्यमानस्य तस्य चासीदहो पुनः । भस्मकाख्यो महारोगो भुक्तं यो भस्मयेत्क्षणात् ।। न हि वारयितुं शक्यं दुष्कर्माल्पतपस्यया । विस्फुलिङ्गेन किं शक्यं दग्धुमार्द्रमपीन्धनम् ॥ अशक्त्यैव तपः सोऽयं राजा राज्यमिवात्यजत् । श्रेयांसि बहुविघ्नानीत्येतन्नह्यधुनाभवत् ॥ तपसाच्छादितस्तिष्ठन्स्वैराचारी हि पातकी । गुल्मेनान्तर्हितो गृह्णन्विष्किरानिव नाफलः ॥ अवर्तिष्ट यथेष्टं स पाषण्डितपसा पुनः ।
चित्रं जैनी तपस्या हि स्वैराचारविरोधिनी॥' क्षत्रचूडामणिः. 'तदनु दिनेदिने प्रवर्धमानं भस्मकरोगमल्पेन तपसा विस्फुलिङ्गेनेवार्दै
'तदनु दिन जनी तपस्या हिलसा पुनः ।
Page #8
--------------------------------------------------------------------------
________________
वादीभसिंहः ।
न्धनं खद्योतेनेव संतमसं नखरञ्जकयेव महारण्यं शमयितुमशक्नुवानः पूर्व राज्यमिव तपःसाम्राज्यमपि परित्यजन्पाषण्डितपसा समाच्छादितः स्वैराहारान्नाफल इव गुल्मान्तर्हितो विष्किरान्समाददानो यथेष्टमवर्तिष्ट ।। जीवंधरचम्पू:. ...
__ सत्यप्येवं साम्ये कतरोवानयोः पूर्वतरः कविरिति न वक्तुं सुकहम् । यतोऽस्य हरिचन्द्रकवेरपि समयः सुतरां न ज्ञायते । हरिचन्द्रत्रयं तावत्प्रसिद्धम् । बाणभट्टवर्णितो भट्टारहरिचन्द्रः प्रथमः । विश्वप्रकाशकोशकर्तुर्महेश्वरस्य पूर्वपूरुषश्चरकसंहिताटीकाकारः साहसाङ्कनृपतेः प्रधानवैद्यो द्वितीयः । धर्मशर्माभ्युदयकाव्यकृदादेवसूनुर्हरिचन्द्रमहाकविस्तृतीयः । एषामयमप्येकतमोऽन्योवेति संदेहः । किंतु हरिचन्द्रो वादीभसिंहश्चेत्युभावपि स्वस्वकवित्वप्रौढ्या प्राचीनकविकक्षामारोहत इतिमामद्य वक्तुं प्रभवति रसना ।।
__ अनेन परिचितभूयिष्ठाः कालिदासबाणभट्टादीनां कृतय इति तेभ्योऽस्यानन्तरकालिकत्वमूह्यते-. १. 'सेकान्ते मुनिकन्याभिः कारुण्योज्झितवृक्षकम् । विश्वासाय विहङ्गानामालवालाम्बुपायिनाम् ॥ ११॥ आतपात्ययसंक्षिप्तनीवारासु निषादिभिः ।
मृगैर्वतितरोमन्थमुटजाङ्गणभूमिः ॥ ५२ ॥' स. १. रघुवंशः. 'वासरावसानसंक्षिप्तनीवाराङ्गणनिषादिमृगगणनिवर्तितरोमन्थम् , आलवालाम्भःपानलम्पटविहगपेटकविश्वासकृते सेकान्तविसृष्टवृक्षमूलमुनिकन्यकाविवृतकारुण्यम् , दण्डकारण्याश्रममधिवसन्तीम् ।' पृ० १२०. गद्यचिन्तामणिः.
___२. 'तात चन्द्रापीड, विदितवेदितव्यस्याधीतसर्वशास्त्रस्य ते नाल्पमप्युपदेष्टव्यमस्ति । केवलं च निसर्गत एवाभानुभेद्यमतिगहनं तमो
Page #9
--------------------------------------------------------------------------
________________
वादीभसिंहः ।
यौवनप्रभवम् । दारुणो लक्ष्मीमदोऽत्यन्ततीव्रो दर्पदाहज्वरोष्मा । अमन्त्रगम्यो विषमो विषयविषास्वादमोह इत्यतो विस्तरेणाभिधीयसे ।' कादम्बरी.
___'वत्स, बलनिषूदनपुरोधसमपि स्वभावतीक्ष्णया धिषणया धिक्कुर्वति सर्वपथीनपाण्डित्ये भवति पश्यामि नावकाशमुपदेशानाम् । तदपि कलशभवसहस्रेणापि कबलयितुमशक्यः प्रलयतरणिपरिषदाप्यशोष्यो यौवनजन्मा मोहमहोदधिः। अशेषभेषजप्रयोगवैफल्यनिष्पादनदक्षो लक्ष्मीकटाक्षविक्षेपविसी दर्पज्वरः । मन्दीकृतमणिमन्त्रौषधिप्रभावः प्रभावनाटकनटनसूत्रधारः स्मयापस्मारः इति किंचिदिह शिक्ष्यसे।' पृ०४१-४२॥ गद्यचिन्तामणिः. ____३. 'गर्भेश्वरत्वमभिनवयौवनत्वमप्रतिमरूपत्वममानुषशक्तित्वं चेति महतीयमनर्थपरम्परा । सर्वाविनयानामेकैकमप्येषामायतनम् । किमुत समवायः ।' कादम्बरी.
___‘अविनयविहंगलीलावनं यौवनम् , अनङ्गभुजङ्गनिवासरसातलं सौन्दर्यम् , स्वैरविहारशैलूषनृत्तास्थानमैश्वर्यम् , पूज्यपूजाविलङ्घनलघिमजननी महासत्त्वता च प्रत्येकमपि भवति जनानामनर्थाय । चतुर्णा पुनरेतेषामेकत्र संनिपातः सद्म सर्वानर्थानामित्यर्थेऽस्मिन्का संशीतिः।' पृ० ४२॥ गद्यचिन्तामणिः.
___ बाणभट्टः स्वकीयहर्षचरितस्य प्रारम्भे केषांचित्प्रख्यातनाम्नां पू. र्वेषां कवीनां नामग्रहणं करोति । तत्र गद्यबन्धस्य निबन्धारौ द्वावेव सुबन्धुहरिचन्द्रनामानौ कवी स्मरति न पुनरन्यं तस्य कृतिं वा । कालिदासकवेः कालः (६३४) चतुस्त्रिंशदधिकषट्छततमाख्रिस्ताब्दात्प्रामिति सर्वजनसंमतम् । बाणभट्टः कविः स्थानेश्वराधीशस्य हर्षवर्धनमहाराजस्य सदसि लब्धप्रतिष्ठ आसीत् । स च राजा हर्षवर्धनः (६१०
Page #10
--------------------------------------------------------------------------
________________
वादीभसिंहः ।
६५०) दशाधिकषट्छततमाख्रिस्ताब्दादारभ्य पञ्चाशदुत्तरषट्छततमाब्दावधि पालयामास पृथिवीमिति निर्विवादम् । अतो वादीभसिंहसूरिः (६५०) पञ्चाशदुत्तरषट्छततमाब्दात्परमेवासीदिति निश्चेतुं पार्यते।।
परं च, अस्ति भोजचरित्रस्यावसाने भोजराजः कालधर्म गत इति कुतोऽपि मृषोद्यामाकर्ण्य ताम्यता कालिदासेनोक्त इति प्रथां गतः प्रायः संस्कृतभाषाविदां सर्वेषामपि मुखस्थश्चायमधस्तनः श्लोकः
'अद्य धारा निराधारा निरालम्बा सरस्वती। ..
पण्डिताः खण्डिताः सर्वे भोजराजे दिवं गते ॥' इति ।। वादीभसिंहश्च गद्यचिन्तामणौ राजद्रुहः काष्ठाङ्गारस्य दुर्नयेन दुर्मनायमानानामुपरतं सत्यंधरमहाराजमनुशोचतां जनानां प्रलापव्याजेन स्वमन:संदानितानि तदात्वनिष्पन्नानि तान्येव पद्यस्थानि पदानि प्रस्तुतानुगुणं किंचिद्विपरिणमय्य ‘अद्य निराधारा धरा, निरालम्बा सरस्वती' इत्येवं पठितवानिति संभाव्यते । यद्येवं तर्हि धाराधीशस्य भोजराजस्याबाचीन एवायं कविरिति परिणमति बाढम् । विद्वत्प्रियः श्रीभोजराजश्च (९९७–१०५३) सप्तनवत्युत्तरनवशततमाख्रिस्ताब्दादारभ्य त्रिपञ्चाशदुत्तरसहस्रतमाब्दावधि राज्यमकरोदिति सुज्ञातम्। सर्वथोपरितनः श्लोको भोजराजस्य समय एवोदपादीति निर्विकल्पमवसीयते । परं तु कथमस्थ भोजराजस्य समकालः कालिदास इति शङ्का समुत्पद्यते । अयं च भोजप्रबन्धनिर्दिष्टः कालिदासः रघुवंशादिकृत्कालिदास इत्यतिमात्रमसंगतम् । किं तु तत्समाननाम्ना तत्समानप्रभावेन वा तदन्येन भवितव्यम् । आसीद्भोजराजस्य पितृव्यो मुञ्जो नाम नरपतिः । यस्यैवामोघवर्ष इति वल्लभनरेन्द्र इति वाक्पतिदेवराज इति च प्रथन्ते नामान्तराणि । तस्य भ्राता भोजराजस्य जनको विक्रमार्कापरनामा सिन्धुराजः । यमेवाहुनवसाहसाङ्क इत्येके कुमारनारायण इत्यन्ये । आसीदाभ्यामुभाभ्यामपि
Page #11
--------------------------------------------------------------------------
________________
वादीभसिंहः ।
संमानितोऽनयोरुभयोरपि प्रेमपात्रं सदस्यः परिमलापरनामा कालिदासः । येनास्ति विरचितं नवसाहसाङ्कचरितं नाम सिन्धुराजचरितप्रख्यापक महाकाव्यम् । यत्र सर्वमिदं प्रथमैकादशयोः सर्गयोनिरूपितं च भवति । तेनैव परिमलापरनाम्नामुना कालिदासेन भोजसदस्येन भवितव्यमित्यूह्यते। . अयं वादीभसिंहः कविर्बाणभट्टस्यैब सरणिमान्तमनुसरति । अस्य काव्यपथे पदानां लालित्यं श्राव्यः शब्दसंनिवेशः निरर्गला वाग्वैखरी सुगमः कथासारावगमश्चित्तविस्मापकाः कल्पनाश्चेतःप्रसादजनको धर्मोपदेशो धर्माविरुद्धा नीतयो दुष्कर्मणो विषमफलावाप्तिरिति विलसन्ति विशिष्टगुणाः । किं च समासभूयस्त्वं समपदास्तनां च निरवधिकदैर्घ्य तादृशविशेषणानां बाहुल्यं ततः कर्तृपदानां क्रियापदानां च व्यत्र हितत्वमतोऽर्थबोधस्यायाससाध्यत्वं चेति गद्यप्रबन्धकृतामसाधारणाः केचन . दोषा अपि कचित्क्वचिद्विशेषतः प्रारम्भ एव दर्शनपथमवतरन्ति । . । .. यथा नाटकपद्यबन्धचम्पूप्रबन्धानां निर्माणे बद्धादराः पूर्वे कवयो न तथा त एव केवलगद्यबन्धनिर्माणे । अतो गद्यबन्धानां निबन्धारः सप्ताष्टा एव कवयो नामतः श्रूयन्ते । श्रवणगोचरीभूतास्तेषां च तावन्त एव गद्यप्रबन्धा नामतोऽद्य परिज्ञायन्ते । तेषां चात्र निर्दिश्यन्ते नामानि सुखावगमाय सर्वेषामपि जनानाम्- (१) सुबन्धुकविकृता वासवदत्ता (२, ३) बाणभट्टप्रणीते कादम्बरीहर्षचरित (४) आचार्यदण्डिविनिर्मितं दशकुमारचरितम् (५) श्रीवादीभसिंहसूरिविरचितो गद्यचिन्तामाणः (६) धनपालकविकृता तिलकमञ्जरी (७) अगस्त्यकविकृतं कृष्णचरितम् (८) वामनभट्टबाणविरचितं वीरनारायणचरितम् (९) अविज्ञातकर्तृका शुकसप्ततिश्चेति । अत्र निर्दिष्टेष्वपि कतिचिदेव प्रबन्धा अद्यावधि प्राकाश्यं नीताः । न पुनः सर्वेऽपि। अतोऽद्य गद्यचिन्तामणिरयं न केनापीतः पूर्व प्रकाशित इत्यस्य प्रकाशने समजायत साभिलाषं हृदयम् । अत्र परोप
Page #12
--------------------------------------------------------------------------
________________
॥ श्रीः ॥
गद्यचिन्तामणिः।
प्रथमो लम्बः ।
श्रियः पतिः पुष्यतु वः समीहितं त्रिलोकरक्षानिरतो जिनेश्वरः । यदीयपादाम्बुजभक्तिशीकरः सुरासुराधीशपदाय जायते ॥ १॥ प्रणम्रगीर्वाणकिरीटभानुभिः प्रफुल्लपादाम्बुरुहान्गणेश्वरान् । प्रणौमि येषां स्तुतिरेव भारती कवित्वशक्तयै भुवि कल्पते नृणाम् ॥२॥ आतिस्थिरं स्वस्य पदं मनोगृहे स धर्मचिन्तामणिरातनोतु मे । यदाश्रिताः शाश्वतसंपदं बुधाः श्रयन्ति भव्या गतसंसृतिश्रमाः ॥३॥ अशेषभाषामयदेहधारिणी जिनस्य वक्राम्बुरुहाद्विनिर्गता । सरस्वती मे कुरुतादनश्वरी जिनश्रियं स्यात्पदलाञ्छनाञ्चिता ॥ ४ ॥ सरस्वतीस्वैरविहारभूमयः समन्तभद्रप्रमुखा मुनीश्वराः । जयन्तु वाग्वज्रनिपातपाटितप्रतीपराद्धान्तमहीध्रकोटयः ॥ ५ ॥
श्रीपुष्पसेनमुनिनाथ इति प्रतीतो
दिव्यो मनुर्मम सदा हृदि संनिदध्यात् । यच्छक्तितः प्रकृतिमूढमतिर्जनोऽपि
वादीभसिंहमुनिपुंगवतामुपैति ॥ ६ ॥ स्नेहप्रयोगमनपेक्ष्य दशां च पात्रं .
धुन्वंस्तमांसि सुजनापररत्नदीपः । मार्गप्रकाशनकृते यदि नाभविष्य
सन्मार्गगामिजनता खलु नाभविष्यत् ॥७॥
Page #13
--------------------------------------------------------------------------
________________
२
गद्य चिन्तामण
व्यक्तानुवर्तनतिरस्करणौ प्रजानां श्रेयः परं च कुरुतोऽमृतकालकूटौ ।
तद्वत्सदन्यमनुजावपि हि प्रकृत्या
तस्मादपेक्ष्य किमुपेक्ष्य किमन्यमेति ॥ ८ ॥
निःसारभूतमपि बन्धनतन्तुजातं
मूर्ध्ना जनो वहति हि प्रसवानुषङ्गात् । जीवधरप्रभवपुण्यपुराणयोगा -
द्वाक्यं ममाप्युभयलोकहितप्रदायि ॥ ९ ॥ गीर्वाणाधिपचोदितेन धनदे नास्थायिकामादरा
त्सृष्टां द्वादशयोजनायततलां नानामणिद्योतिताम् । अध्यास्त त्रिदशेन्द्रमस्तकमिलत्पादारविन्दद्वयः
प्राग्देवो विपुलाचलस्य शिखरे श्री वर्धमानो जिनः ॥ १० ॥ तत्रासीनममुं त्रिलोकजनतासंसारजीर्णाटवी
दावं दुर्मत धर्मतापहरसद्धर्मामृतस्राविणम् । राजा श्रेणिक इत्यशेषभुवनप्रख्यातनामा नमन्दूरानम्रकिरीटताडिततलस्तुष्टाव हृष्टाशयः ॥ ११ ॥ तत्त्रस्थं चतुराश्रमस्थपुरुषानुष्ठेयधर्मस्थिति
व्याख्याव्यापृतिदृश्यमानदशनालोकं गणाधीश्वरम् ।
वन्दित्वा मकुटावतंसकुसुमामोदेन लिम्पन्मही
मप्राक्षीत्किमपि क्षमापतिरथ स्पष्टीभवत्कौतुकः ॥ १२ ॥ नानाभोगपयोधिमग्नमतयो वैराग्यदूरोज्झिता
देवा न प्रभवन्ति दुःसहतमां वोढुं मुनीनां धुरम् । इत्याहुः परमागमस्य परमां काष्ठामधिष्ठानव
स्तद्देवो मुनिवेषमेष कलयन्दृश्येत कस्मादिति ॥ १३ ॥
Page #14
--------------------------------------------------------------------------
________________
प्रथमो लम्बः ।
इत्थं पृच्छति पार्थिवे गणधरस्तदृत्तमाख्यातवा
राजन्नैष सुरः पुरा नरपतिर्विश्वंभराविश्रुतः । वैराग्येण तृणाय राज्यमतुलं मत्वा विमुच्याशु त
त्प्राविक्षत्पदवीं तपोधनगतां गीर्वाणतुल्याकृतिः ॥१४॥ इत्येवं गणनायकेन कथितं पुण्यास्रवं शृण्वतां
तज्जीवंधरवृत्तमत्र जगति प्रख्यापितं सारभिः ।। विद्यास्फूर्तिविधायि धर्मजननीवाणीगुणाभ्यार्थिनां
वक्ष्ये गद्यमयेन वाङ्मयसुधावर्षेण वाक्सिद्धये ॥ १५ ॥ .
अस्ति खलु निखिलजलधिपरिक्षेपविलसदनेकद्वीपकमलकाणेकारूपस्य जम्बूद्वीपस्य दक्षिणभागभाजि भारते खण्डे पुण्डरीकासनायाः क्रीडागृहमिव लक्ष्यमाणः , प्रक्षीणमोहजनितजिनचरणपक्षपातैरक्षु - णमतिमन्दरमथितविद्यासागरसमासादिततत्त्वावबोधसुधारसैरहरहरुपचितसुकृतमुकुलितपरलोकभयैरभ्यागतसंविभक्तविभवविजृम्भमाणवितरणगुणगरिमनिमीलदमरमहीरुहमाहात्म्यैर्ममतामर्थेष्वनाकलयद्भिरात्मचरितापहसितकलिविलसितैरावसद्भिः सद्भिरारोपितगरिमा , दिशिदिशि दृश्यमानकनकमयविमानतिलकितवियन्मध्यानपरयमधनाध्युषित वेदिकोपशो - भिताशोकपादपच्छायालङ्घनचकितभव्यलोकवक्रितप्रदक्षिणभ्रमणैः परहितनिरतमुनिवरपरिषदभिहितधर्मानुकथनकर्मठशुककुलवाचालोद्यानशाखिशाखापरिष्कृतपरिसरैरुपसरत्संसृतेरुपरतिमुपजनयद्भिर्जिनालयैरुपशेभितः, सततविनिहितसलिलसेकजनितशैत्यविनिर्गतपुलकतुलितमुकुल - दन्तुरितेन वहदनिलकम्पितैर्विटपबाहुभिरतिदुर्धरं फलभरं दातुमाह्वयतेत्र प्रत्यग्रकन्दलादलनदुर्ललितकोकिलकलालापच्छलेन मनसिजविजयभोगावलीमिव पठता सहकारतरुषण्डेन कृतमण्डनैर्मधुकरनि
Page #15
--------------------------------------------------------------------------
________________
गद्यचिन्तामणौ
करकज्जलाकलङ्किताः कामविजयनीराजनदीपिका इव कुसुममञ्जरीः पिअरितदशदिशो दर्शयता चम्पकचक्रेण चारुतामुद्वहद्भिः प्रसवोत्कण्ठमानकामिनीगण्डूषमधुधारासेकनिष्पन्नपुष्परिञ्छोलधिवलितवपुषा हसतेव युवतिजनलालनविधुरानितरधरणीरुहान्वकुलतरुवाटेन वर्धितशोभैस्त - रुणीचरणप्रहारानन्तरमन्तःप्ररूढकोपकृपीटयोनिमिव कृकवाकुचूडापाटलं पल्लवापीडमुद्गिरता प्रत्यङ्गं कङ्केलिजालेन जातनयनातिथ्यैरन्यलताश्लेषावकाशहरणाभिनिवेशादिव गाढाश्लिष्टनिःशेषकुरवकतरुभिर्माधवीभिराधीयमानमदनबलैरुन्मीलितकुसुमावचयकौतुकमिलितमहिलानिर्विशेषलताभिरामैरारामविनोदितलोकलोचनः, प्रतिफलिततटरुहतरुनिवहनिभेन जलनिधिजिगीषया स्वयमपि कल्पतरूनिव कतिचन जठरे धारयद्भिरुद्दण्डकमलविष्टरोपविष्टकादम्बकदम्बकैरुत्फुल्लकल्हारनिःस्यन्दिमकरन्दमेदुरितपाथोभिः पवनोद्भूतकल्लोलपटलकबलितवियदवकाशैः पाथोराशिपरिबुभूषया सागरमहिषीं मन्दाकिनी बन्दीकर्तुमन्तरिक्षमुत्पतद्भिरिव प्रेक्ष्यमाणैः समन्तादुन्मिषदुत्पलजालजटिलैर्जनपदलक्ष्मीदिदृक्षया सहस्राक्षतामिव बिभ्रद्भिः शुभ्रसाललभारतजठरैर्जलाशयैर्शितानेकसागरमहिमा, कचित्पाककपिशकणिशभरविनमितशिरोभिरात्मरोहावकाशदायिनी मेदिनीमभिवादयमानैरिव शालिस्तम्बैः शुम्भितशालेयेन क्वचिद्विहरमाणकमलाचरणतुलाकोटिक्कणितैरिव स्थलकमलकाननकेलीकलितदोहलीनां कलहंसीनामारसितैरापाद्यमानश्रवणपारणेन कचिदनवरतविधीयमानशुश्रूषाहृष्यदुर्वीसर्वाङ्गनिर्गच्छदतुच्छरोमाञ्चसहचरितरुचिभिः कतिपयदिवसप्ररूलै रूढहरितिमकबलितहरिदन्तरालप्रशस्यैः सस्यकन्दलैः कण्ठकथितकेदारसारगुणेन क्वचिन्निकटरूढपुण्ड्रेक्षुदण्डविघटितपर्वपुटनिपतितमुक्ताफलपटलशर्करिलसारणीतीरसंचारखेदितकृषीवलचरणतलेन क्वचिदतिगम्भीरक्षेत्ररमसनिपतदभ्यर्णसारणीसालिलसमुड्डीनशफरजिघृक्षाजनितपरस्परक
Page #16
--------------------------------------------------------------------------
________________
प्रथमो लम्बः ।
लहविधूतबकोटपक्षपुटदर्शितस्थलपुण्डरीकविभ्रमेण कचिदिवाप्यन्धकारितपरिसराभिर्मरकतपरिघपरिभावुकरम्भापरिरम्भरमणीयाभिः प्रक्राडाचकोडविघटितकोहलपतितकेसरसंकटाभिः पूगवाटिकाभिः प्रकटीक्रियमाणाकाण्डप्रावृडारम्भेण सर्वकालमुर्वराप्रायतया प्रथमानबहुविधसस्यसारेण ग्रामोपशल्येन निःशल्यकुटुम्बिवर्गः, सलिलदेवतानाभिमण्डलसनाभिसंनिवेशैः स्फटिकविशदसलिलपूरितोदरैर्घनघटितसुधालेपधवलभित्तिपरिवेष्टितमुखतया हसद्भिरिव निरुपयोगसलिलभरभरितमपांनिधिमम्भःकुम्भोत्क्षेपपतितपयोबिन्दुरूढशाद्वलतृणश्यामलितानूपैः कूपैरुपेतपर्यन्ताभिरनतितुङ्गमञ्चिकाप्रतिष्ठितसलिलघटपरिपाटीविलोकनमषितपथिकजनपरिश्रमाभिर्जलाधिवासघृष्यमाणपाटलीशर्करापरिमलबहलिमविद्रावितनिदाघवैभवाभिरप्रविष्टतरणिकिरणशिशिरखलूरीपरिसरनिद्राणा - ध्वन्योदन्यादैत्यशमनचतुरप्रभावाभिः प्रपाभिः प्रतिहतधर्मविजृम्भितः, प्रत्यग्ररोहासिततृणकरीरकबलनमुदितैरवनितलविलुठितवालपल्टवैरप्रचलितबलवदुक्षदर्शनभयधावदध्वगैर्गतिरभसरणितमणिकिंङ्किणीरव - मुखरितभुवनविवरैः स्मरणपथविहरमाणतर्णकवमितदुग्धधाराधौतधरातलैः कठिनखुरपुटखननसमुत्पतदविरलपरागपटलच्छलेन गोशब्दसाम्यसमाविर्भूतस्नेहतया भूतधात्र्येव दीयमानानुयात्रैः स्वभावकुण्डलितशिखरभीषणविषाणव्याजेन दुष्टसत्त्वसमुत्सारणाय कार्मुकमिव कलयद्भिः प्रशस्तकर्मसाधनैोधनैः पवित्रीकृतसीमा, हेमाङ्गदनामा जनपदः । ___यश्च दौर्गत्यनिवासपरिजिहीर्षयेव निरवकाशयत्यात्मानमभितो घटितैर्धान्यकूटैः । यं च दिशिदिशि दृश्यमानजिनालयलाञ्छनपञ्चाननविलोकनचकिता इव नोपसर्पन्त्युपद्रवकरिणः । येन च विप्रकीर्णविविधमणिगणमरीचिमालिना जलनिधिविरहविषादः परिहियते पङ्कजासनायाः । यस्मै च स्पृहयन्ति निःस्पृहा अपि निर्वाणसुधानिःस्य
Page #17
--------------------------------------------------------------------------
________________
aur
गद्यचिन्तामणौ
न्दचन्द्रमसो मुनयः । यस्माच्च सततजाज्वल्यमानजिनपूजाचरुपचनपावकादुपजातभीतिरिव दूरं पलायत कलिः । यत्र च संकल्पसमयावर्जितैर्दानजलप्रवाहैः प्रक्षालित इव प्रलयं प्राप किल्विषपङ्कः ।
तत्र चास्ति समस्तभुवनविख्यातसंपदाभोगा, भोगवतीव भुजङ्गचरितोद्वेगेन भित्त्वा भुवमुत्थिता, नमुचिमथननगरीव निरालम्बनतया नभःस्थलान्निपतिता, माधुर्यकुलभूमिः फलमञ्जरीव भारतवर्षभूरुहस्य, भुवनवलभीमण्डनमुक्तासरमरीचिनिचयकवचिता कर्णचामरिकेव हेमाङ्गदमतङ्गजस्य, मरकतमणिकुट्टिममयूखपत्रला पद्मसरसीव कमलाकलहंसीविहारस्य, पातालवासिभिरप्यनालोकितमूलेन गगनचरैरप्यलक्षितशिखरेण पराजितपरनरपतिकरदीकृतकनकोपलपटलघाटतेन विघटितकुलगिरितटाभिर्दिगन्तदन्तावलदशनकुलिशकोटिभिरप्यभेद्यसंस्थानेन स्तम्भितजगदुपरमसमयसमीरसंरम्भेण त्रिभुवनलक्ष्मीकनकपादकटककान्तितस्करेण प्राकारेण परिवृता, कलशभवकबलितजलनिधिजनितानुशयेन कुशेशयभुवा सावधानमनवधि सलिलमापादितेनेव फणभृदावासविश्रान्तगाम्भीर्येण स्नानावतरदवनीपतिमदवारणकपोलतलविगलितदानजलवेणिकाव्याजेन जलनिधिसमुत्कण्ठया यमुनयेव विगाह्यमानेन निजाभोगविस्मयनिपतितैरुपरिचरयुवतिनयनैरिव नीलकुवलयापीडैरकाण्डेऽपि निशां दर्शयता प्रतिफलितभवननिवहभरितजठरतया कुपितसुरपतिकरकल्पितकुलिशपतनभयमग्नमहामहीधरमुदधिमवधीरयता परिखाचक्रेण परिष्कृता, विकसदभिनवसुमनःपरागविसरधूसरितवासरालोकैः पतितपचेलिमफलरसपिच्छिलतलस्खलितपुष्पलावीजनैरनिभृतपरभृतकू - जितमुखरितसहकारैः प्रसवपरिमलतरलमधुकरनिकरान्धकारितैः पाकसुरभितपनसफलहेलाच्छोटनकुपितमर्कटीकोपशमनचतुरशाखामृगली - लाजनितकुतूहलैः पारावतपरस्परसंपरायपतितपुष्पस्तबकतारकिततरु -
Page #18
--------------------------------------------------------------------------
________________
प्रथमो लम्बः ।
मूलैरुद्वेलवहमानमकरन्दकूलंकष कुल्यालोकनमुदितसेककर्मान्तिकैर्लावण्यतरङ्गितदिगङ्गनामुखैः शिलीमुखपद भग्नवृन्तलम्बमानचम्पकपाटलपुंनागकेसरप्रसवैः कंदर्पकनकातपत्रकमनीयकर्णिकारहारिभिर्वनदेवताधरबन्धुबन्धुजीवबन्धुरैः कुरवकपादपपरिष्वङ्गसफलमाधवीलतायौवनैरुपवनैरुद्रासमाना, मरकतदृषदुपरचिततटाभिः पद्मरागशिलाघटित सोपानपङ्किभिर्जलदेवताकुचकलशकौशलमलिम्लुच कमलमुकुलाभिरुन्मिषदात लवनान्धकारेण दिवसेऽपि रजनीविभ्रमविघटितरथाङ्गमिथुनाभिरभिषेक
दोहलवितरदबलाचरणनूपुररणितश्रवणोद्गीवकलहंसाभिरुड्डीयमानजलचरविहग विधूतपक्ष पुटपतितपयःकणकोर किततटतरुशिखराभिर्मृणालसंदोह - संदेहिकादम्बखण्ड्यमानफेनकलिकादन्तुरतरङ्गाभिः प्रतिफलननिभेन गगनतलपरिभ्रमणरभसर्जानितपिपासाशमनकौतुककृतावतरणेनेव तरणिना रमणीयतां बिभ्राणाभिर्विभ्रमदीर्घिकाभिर्दीर्घीकृत सौभाग्या, क्वचित्पुरोनिहितविंष्टरपुञ्जितं स्फुरितकरनखमयूखसंपर्क पुनरुदीरितं निजवदनजनिततुहिनकरशङ्कासमृपनततारकानिकरमित्र दृश्यमानं प्रसूनराशिमारणितमणिपारिहार्यवाचालबाहुलतिकाविभ्रमाभिराममाबध्नतीभिर्व्याजीकृत्य पुष्पक्रयं वक्रोक्तिमभिदधता धूर्तलोकेन विस्मृतहस्ताङ्गुलिन्यस्त सुमनोबन्धनाभिरपि कुसुमसौरभादधिकपरिमलैरात्मनिःश्वासैराकुलीक्रियमाणमधुक
रमालाभिर्मालाकारपुरंध्रीभिर्नीन्ध्रितेन कुचिद्विशङ्कटपेटकप्रसारितैः प्रसरदविरलसौरभसंपादितघ्राणपारणैर्युगपदुपलक्ष्यमाणैर्निखिलर्तुफलैः फलितलोकलोचननिर्माणेन कचित्सौरभ लुब्ध भुजंगसंगृह्यमाणैर्मलयजैर्विडम्बितमलयगिरिपरिसरारण्येन कुचित्प्रसार्यमाणस्फारकर्पूरपरागपाण्डर तया लहरीपवनसमुत्क्षिप्तशुक्तिपुटमुक्तमुक्ताफलपुलकितामुदधिवेलां विहसता कुचिद्वदान्यजनताजटिला नगरीयमिति वितरणकलापरिचयाय धरणीतलमवतीर्णैः कालमेघैरिव कृष्णकम्बलैस्तिमिरितेन कुचित्तृहृदय रुचिवर्ध
Page #19
--------------------------------------------------------------------------
________________
गद्यचिन्तामणौ
नाय प्रसार्यमाणैः शारदपयोधरावधीरणधुरीणैः पराजितपारिजातदुकूलैरनुकूलस्पर्शसुखसंपादनक्षमैः क्षौमैरुन्मिषक्षीरोदशङ्केन कृचित्पुनर्मथनचकितजलधिढौकितैरिव गाढोद्गच्छदतुच्छमहःस्तबकितैः कौस्तुभप्रतिमल्लैरनुपलक्षितत्रासकलङ्कादिदोषैरहिमकरकुटुम्बडिम्भरिव क्षितितलचङ्कमणकुतूहलादम्बरतः कृतावतारैर्माणिक्यैर्मध्यंदिनेऽप्यनुज्झितदिवसमुख - लावण्येन कुचित्प्रतिफलिततरणिकिरणधवलमरीचिनिर्गमप्रतिहतजननयनपरिस्पन्दैः परस्परसंघट्टजनितक्रेङ्काराराववाचालैः कांस्यमण्डलैः समसमयसमुदितानेकदिनकरकरनिकरविराजितस्य प्रलयसमयस्यानुकुर्वता विपणिपथेन कुटलितकुबेरनगरगौरवा, सान्द्रीकृतवर्णसुधाच्छु णधवलिततोरणवितर्दिकैरनुद्वारदेशनिहितकदलीपूगकथितमहोत्सवप्रबन्धैरुत्तप्तहाटकघटितकवाटयुगलभूषितैोषिदङ्गलावण्यचन्द्रिकाचर्वणवितृष्णचकोरावहेलितचन्द्रमरीचिसमुद्गमैः संगीतशालाप्रहतमृदङ्गमन्द्रघोषजनितजलधरनिनदशङ्काताण्डवितकेलिशिखावलैजलदनलकीलसंदेहिलीलांकुरङ्गशाबकपरिह्रियमाणरत्नकुट्टिममहःपल्लवैः पवनचलितशिखरकेतुपटताडिततपनरथकूबरैरुपरितलखचितवलभिदुपलनीलिमशैवलितसुरसरिदम्बुपूनियूहनिहितानेकरत्नभुवा मयूखकन्दलेन महेन्द्रशरासनशोभामम्भोदसमयमन्तरेणापि पयोधरेभ्यः प्रतिपादयद्भिर्मणिमयभित्तितया प्रसरद्भिरुभयतः किरणलतावितानैर्विबुधराजमन्दिरविजिगीषया विहायसमुत्पतितुमाबद्धपक्षैरिव लक्ष्यमाणैः शृङ्गीनखातकेतुदण्डच्छलेन पुरयुवतिवदनसौकुमार्यचोरं चन्द्रमसं ग्रहीतुमुत्तम्भितबाहुस्तम्भैरिव शुम्भद्भिर्दुर्धरधरणीधारणखेदितमीदनीपतिबाहुमाराधयितुमागतैः कुलगिरिभिरिव गुरुभिः प्रासादैः प्रसाधिता, आकर्णकुण्डलितकुसुमशरकोदण्डनिपतितविशिखभिन्नड - दयगलितरुधिरपटलपाटलकुङ्कुमपङ्किलपयोधरभराभिः कान्तिसलिलशीकरपरिपाटीमनोहरं हारमुद्वहन्तीभिर्विलासहसितविसर्पिणा दशनकिरणवि
Page #20
--------------------------------------------------------------------------
________________
प्रथमो लम्बः ।
सरेण त्र्यम्बकललाटाम्बकनिर्यदनलदग्धं रतिपतिममृतेनेव सिञ्चतीभिर्गरुत्मदुपलताटङ्कतरलरश्मिपलाशपेशलमुखकमलाभिरयुग्मशरसमरनासीर - भटान्विवेकजलधिमथनमन्दरान्मन्थरमधुरपरिस्पन्दानिन्दविरकालिकानुकारिणः कटाक्षान्विक्षिपन्तीभिर्मदनमहाराजधवलातपत्रबन्धुचन्दनतिलक - भासमानभालरेखाभिराननविनिहितनवनलिनसंदेहनिपतदलिकुलर्नालकुन्तलाभिरनादरनहनशिथिलकबरभिरनिरवकाशितपश्चाद्भागांभिर्वारवामन
नाभिर्विराजिता, राजपुरी नाम राजधानी ।
यस्यां च परितोभासमानभगवदर्हदालयलङ्घनभयादपहाय वि- हायसागतिमधः संचरमाण इव भवनमणिकुट्टिमेषु प्रतिमानिभेन विभाव्यते भानुमाली । यस्यां च नीरन्ध्रकालागुरुधूपतिमिरितायां वासरेऽप्यभिसारमनोरथाः फलन्ति पक्ष्मलदृशाम् । यत्र च नितम्बिनीव - दन चन्द्रमण्डलेषु न निवसति कदाचिदभ्यर्णकर्णपाशजनितनहनशङ्क इव कलङ्करूपः कुरङ्गः । यस्याश्च सालः परिखासलिलसिक्तमूलतया कुसुमितमित्र वहति मिलदुडुनिकरमनोहरं शिखरम् । यस्याश्च प्रतापविनतपरनरपतिकरदीकृतकरिकरटनिर्यदविरलमदजलजम्बालिताः प्रविश
दनेकराजन्यजनितमिथः संघट्टविघटितहारनिपतितमुक्ताफलशकलवालुकापूरैराश्यानतामनीयन्तादृष्टशिखरगोपुरद्वारभुवः । या च शिखरकलि - तमुक्ताफलमरीचिवीचिच्छलादपहसतीत्र धर्मधनजननिवासजनितगर्वदुर्विनीतदशवदनचरितकलङ्काम् लङ्काम् । यस्यां च भक्तिपरवशभव्यजनवदनविगलदविरलस्तव नकलकलमांसलैः प्रतिक्षणप्रहतपटहपटुरवपरिरम्भमेदुरैः पूर्यमाणा संख्यातशङ्खघोषपरिष्वङ्गकरालैर्धारालकाहलकलरसितमांसलीभवदारम्भैर्जूम्भमाणजन कोलाहलपल्लवितैरुल्लसद्वीणावेणुरणि
तरमणीयैराटितढक्काझल्लरीझंकारकृताहंकारैरभङ्गरकरणबन्धबन्धुरलास्य - लासिविलासिनीमणिभूषणशिञ्जितमञ्जुलै : किसलयितभरतमार्गमनोहारिसं
Page #21
--------------------------------------------------------------------------
________________
गद्यचिन्तामणौ .
गीतसंगतैः संभृतमहोदधिमथनघोषमत्सरैर्जिनमहोत्सवतुमुलरवैः परिभूत इव नावकर्ण्यते कदापि कल्याणेतरपिशुनशब्दः । यत्र च स्त्रीणामधरपल्लवेष्वधरता कुचतटेषु कठिनता कुन्तलेषु कुटिलता मध्येषु दरिद्रता कटाक्षेषु कातरता रतेषु विनयातिक्रमो मानग्रहेषु निग्रहः प्रणयकलहेषु प्रार्थनाप्रणामः पञ्चबाणलीलासु वञ्चनावतारः परमभूत् ।
- तस्यां चैवंविधायां विधेयीकृतप्रकृतिः , प्रतापविनमदवनीपतिमकुटमणिवलभीविटङ्कसंचारितचरणनखकान्तिचन्द्रातपः, करतलकलितकरालकरवालमयूखतिमिराभिसरदाहवाविजयलक्ष्मीलक्षितसौभाग्यः , समरसागरमथनसंभृतेन सुधारसेनेव प्रतापदहनदन्दह्यमानप्रतिभटविपिनजनितभसितराशिनेव निजभुजविटपिविनिर्गतकुसुमस्तबकेनेव परिपन्थिपार्थिवपङ्कजाकरसंकोचकौतुकसंचितेन चन्द्रमरीचिनिचयेनेव खड्गकालिन्दीसजातेन फेनपटलेनेव पाण्डुरेण यशसा प्रकाशितदिगन्तः, मन्दीकृतमन्दरमहीभृति निजांसपीठे बहुनरपतिबाहुशिखरसमारोहणावरोहणपरिखेदिनी मेदिनीं चिराय विश्रामयन् , अश्रान्तपरिचीयमानेन वनीपकचातकपरिषद्विषादविघटनघनारम्भेण कर्णकीर्तिकैरविणीनिमलिनबालातपेन कविकुलकलहंसकलस्वनश्रवणशरदवतारेण वितरणगुणेन मन्द. यन्मन्दारगरिमाणम् , रणजलवितरणपोतपात्रेण कृपाणविषधरविहारचन्दनविटपिवनेन क्षत्रधर्मदिनकृदुदयपर्वतेन पराक्रमेण क्रीतार्णवाम्बरः, प्रयाणसमयचलदलबुचमूभारविनमितेन महीनिवेशेन फणाचक्रं फणाभृतां चक्रवर्तिनो जर्जरयन्दिशिदिशि निहितजयस्तम्भः , कुमार इव शक्तिकलितभूभृद्विग्रहः, शतमख इव सुमनसामेकान्तसेव्यः, सुमेरुरिव राजहंसलालितपादः, दुर्योधन इव कर्णानुकूलचरितः, चन्द्र इव कुत्रलयानन्दिकरप्रचारः , चण्डदीधितिरिव कमलाकरसुखायमानपादः, पा
Page #22
--------------------------------------------------------------------------
________________
प्रथमो लम्बः ।
"
रिजात इव परिपूर्णार्थिजनमनोरथ राजा राज्याश्रमगुरुः कुरुकुलधुरंधरः सत्यंधरो नामाभूत् ।
११
यस्य प्रसरदविरलकीर्तिचन्द्रातपशीतलामंसवलभीमधिशयाना मेदिनी शेषफणा विष्टर निवासानुबन्धिनीं विषोष्मवेदनामत्यजत् । यस्मिन्परिपालयति पयोधिरशनावच्छेदिनीं मेदिनीं कुसुमपरिमलचौर्येण चाकित्यमुद्वहन्त इव मातरिश्वानो न क्वापि लभन्ते स्थितिम् । यस्य च निहितहारोपधानमधरितकनकगिरिशिलातलविशालं वक्षःस्थलमधिशयाना स्वभावसंकटकमलकोटरकुटीरदुरासिकादुःखमत्याक्षी लक्ष्मीः । यस्य च प्रलयसमयविलसदनेकदिनकरकिरणदुःसहे प्रसर्पति प्रतापानले जलनिधिजलमध्यघटितां प्राक्तनीं स्थिति बह्वमन्यत मधुसूदनः । यस्य च दुःसहप्रतापेऽपि सुखोपसेव्यता सौकुमार्येऽप्यार्यवृत्तिरतिसाहसेऽप्यखिलजनविश्वास्यता विश्वंभरात्रहनेऽप्यखिन्नता सततवितरणेऽप्यक्षीणकोशता परपरिभवाभिलाषेऽपि परमकारुणिकता पञ्चशरपारतन्त्र्येऽपि पाकशालिता परमदृश्यत । यस्य चारम्भमभिमतावाप्तिः प्रज्ञां विद्याधिगमः पराक्रमं परिपन्थिपरिक्षयः परहितनितिं जनानुरागः प्रतापं दुराक्रमता त्यागं भोगावली काव्यरसाभिज्ञतां कविसंग्रहः कल्यसंघतां कल्याणसंपत्तिर्न्यायनेतृतां निजकृत्यानुल्लङ्घिलोकता तत्त्वज्ञानितां धर्मशास्त्र शुश्रूषा दुरभि - मानहीनतां मनिजनपदप्रहृता माननीयतां दानजलार्दीकृतकरः परमधा, र्मिकतां परमेश्वरसपर्या नीतिनिपुणतां निष्कण्टकता निरक्षरं निरन्तरं निवेदयति
तस्य चाभवदद्भुताचाररूपा रूपसंपदिव विग्रहिणी गृहिणीधर्मस्थितिरिव साक्षात्क्रियमाणा, समरविजयलक्ष्मीरिव पुष्पधनुषः, संकोचितसपत्ननारीवदनकमला कौमुदीव विधुंतुदकबलनभयादपहाय रजनीकरमवनिमवतीर्णा, रामणीयक चन्द्रोदयपिशुनेन संध्यारागेणेव मनसि -
Page #23
--------------------------------------------------------------------------
________________
गद्यचिन्तामणौ
जमदकरिकुम्भमण्डनसंमृतेन गैरिकपङ्काङ्गरागेणेव नवनलिननिपतितेन तरुणतरणिकिरणकलापेनेव स्वभावपाटलेन प्रभापटलेन विनाप्यलक्तकरसानुलेपनमुपपादिततलाकल्पशोभमनवरतविनमदवनीपतियोषिदलकापीडनिपतितैः सुमनोभिरिव मनोहराङ्गुलिपर्यायशुक्तिपुटवमितैर्मुक्ताफलैरिव प्रकृतिचतुरचङमकलाशिक्षणकुतूहलनिषेवमाणैः कलहंसशाबकैरिव सततमुद्गच्छता स्तनमण्डलेन मा पीडय वदनतुहिनमहसमिति कृतप्रणामैस्तारकागणैरिव तारुण्योष्मकठिनीभवत्कान्तिसलिलबिन्दुसंदोहसंदेहदायिभिर्नखमाणिभिरवतंसितमनुपजातपङ्कपरिचयमज्ञातमधुपपरिषदुपसर्पणमालिन्यमहर्निशविभागविधुरविकासमननुभूतपूर्वमम्भोरुहयमलमिव चरणयुगलं दधाना, मदनतूणीवैगुण्यजल्पाकेन कान्तिजलधिजलवेणिकानुकारिणा जङ्घाद्वयेन प्रतिपादिताधोमुखकमलनालशोभा, सुनासीरदन्तावलशुण्डागारमलुण्टाकेन कुसुमशरनिवासनितम्बप्रासादमण्डनमणितोरणरामणीयकधुरीणेन मदनमातङ्गनहनालानस्तम्भसविभ्रमेण स्वभावपीवरेणोरुकाण्डव्येन कामपि कमनीयतां कथयन्ती, कंदर्पसाम्राज्यसिंहासनेन कठिनविशालेन प्रतिक्षणमुच्छ्रसता श्रोणिमण्डलेन शिथिलीकृतनीवीनहनाभ्यासखेदितकरा, मणिकिङ्किणीरणितच्छलेन भङ्ग भयान्नितम्बविष्टरमिवाभिष्टुवता चिरपरिचयपल्लवितप्रेमतया पतनशीलस्य मध्यस्य मन्देतरमरीचिवीचिसमुद्गमव्याजेन हस्तदानमिव प्रयच्छता प्रतप्तकाञ्चनकल्पितेन काञ्चीवलयेन परिवेष्टितनितम्बचन्द्रबिम्बा, विडम्बितरशनालंकारमरकतमणिमयूखलेखया त्रिभुवनविजयसंनादनङ्गसुभटकरकलितकृपाणलतालावण्यापहासिन्या रोमराजिकया विराजन्ती , रामणीयकसरिदावर्तमण्डलेन मदनमतङ्गजनिगलकटकेन.कान्तनयनशफरविहरणतडागेन सौन्दर्यमहानिधिगर्तसनाभिना नाभिचक्रेण चरितार्थीकृतलोकलोचना, नितान्तपीवरनितम्बनिष्पादनजनितपरिखेदपरिणततन्द्रालुभा
Page #24
--------------------------------------------------------------------------
________________
प्रथमो लम्बः ।
वेन कमलसद्मना कृशतरमुपपादितेनेव दुर्वहपयोधरयुगलवहनकातरतया नाभिह्रदनिमग्नेनेवानुपलक्षितरूपेणातितनीयस्तया घटितपटबन्धेनेव त्रिवलीव्याजेन मध्यदेशेन दर्शितसौभाग्या, सौकुमार्यसरश्चक्रवाकमिथुनेन मीनकेतनकरिकुम्भसहचरेण शृङ्गारनटरङ्गपीठेन विलाससरसीसमुत्पन्नसरसिजमुकुलकोमलेन कुचद्वयेन किंचिदवनतपूर्वकाया , कदर्थितकमलमृणालसौकुमार्येण माणिक्यपारिहार्यमरीचिपटलकवचितेन स्तबरकनिचुलितकुसुमशरविलासोपधानसौभाग्येन प्रवालकोमलाङ्गुलिना सुरभिशरीरपर्यायपटीरविटपिसङ्गिभुजंगेन भुजद्वयेन भूषिता, दूषितकम्बुसंपदाडम्बरेण वदननलिननालकाण्डेन कण्ठेन खण्डिततरुणपूगकंधराहंकारा, प्रतिभटतुहिनकिरणविजयकौतुकेन कार्मुकमिव भ्रूलतानिभेन बिभ्रता सहजशशधरशङ्कागतं कौस्तुभमिव स्निग्धपाटलमनोहरमधरं दधता सुधाकरकलत्रमिति कौमुदीमिव बन्दीकृत्य मन्दहसितच्छलेन दर्शयता युवतिवदनसाम्राज्यचिह्नमिव धवलातपत्रमलकलतानिपतितमिव कुसुममाभि' रूप्यदर्शनदोहलधृतमिव दर्पणं चन्दनतिलकमुद्वहता ललाटार्धचन्द्रबि
म्बविगलदमृतधारासंदेहदायिन्या नासिकया सीमन्तितेन सुरासुरपरिषदपहृतसारः समुद्गतकालकूटगरलदूषितः क्षीरजलनिधिरिति जलजसद्मना सादरमुपपादितमनपहार्य कटाक्षशृङ्गाररत्नरमणीयमाभिरूप्यलक्ष्मीजन्ममहितमसितभ्रूलतातमालवनलेखापरिष्कृतपक्ष्मवेलं विलोचनमयं दुग्धसागरयुगलमुपदर्शयता मुखेन मदनमपि मदयन्ती, मन्मथविलासदोलायमानेन प्रकृतितरलनयनहरिणनहनपाशसवर्णेन कर्णपाशेन बद्धशोभा , निशामुखेन कुसुमतारकास्फुरणानामभिनवजलधरेण विलासविद्युदुन्मेषाणामुन्मिषदन्धकारमेचकरुचा मुखशशिसंभोगकौतुकसंनिहितशर्वरीशङ्कावहेन केशहस्तेनापहसितबर्हिबर्हाडम्बरा , प्रतिनिधिरिव लक्ष्म्याः , प्रतापपूर्तिरिव सौभाग्यस्य , समाप्तिभूमिरिव सौन्दर्यपरमाणूनाम् , मनो
Page #25
--------------------------------------------------------------------------
________________
गद्यचिन्तामणौ
रथसिद्धिरिव पातिव्रत्यस्य , प्रकर्षरेखेव स्त्रीत्वस्य , मूर्तिरिव दाक्षिण्यस्य, कीर्तिरिव चारित्रस्य , विजयपताकेव पञ्चशरस्य , विजया नाम महिषी ।
तस्यां सौन्दर्यपुनरुक्ताभरणानामबलानां वर्गे सत्यपि निसर्गत एव नरपतेररमतान्तःकरणम् । अथ स राजा रजनीकराकरणकन्दलविपक्षैः क्षीरजलधिजठरलुठितफेनपटलविशदैर्यशःपल्लवैरापादितदिशाविलासिनीकर्णपूरः पूरितमनीषिजनमनोरथः प्रतिबलजलधिमथनमन्दरेण वसुंधरामयूरीनिवासविटपेन वीरलक्ष्मीकरेणुकालानेन भुजस्तम्भदम्भोलिना खण्डितभूभृन्मण्डलः कर्तव्यमपरमपश्यन्नवश्येन्द्रियः कुसुमचापचापलानि सफलयितुं सर्वाकाराभिरामया रामया सहाभिलषन्स्वभावनिशितधिषणावधीरितपुरुहूतपुरोधसि यथावदवगतराजनीतिवर्मनि फलितचतुरुपायविजृम्भितयशसि पराक्रममृगपतिनिवासजङ्गमजगतीभृति गभीरिमगुणगर्हितोदन्वति स्थैर्यपरिहसितकुलशिखरिणि कुलिशकठिनमनसि संकटेऽप्यखेदिनि निखिलारिचक्राक्रमणनिष्ठे काष्ठाङ्गारनामनि निरस्ततन्द्रे मन्त्रिणि निवेशयितुं राज्यभारमारभत ।।
____ तथा प्रारभमाणे च राजनि राजनीतिकुशलाः कुटिलेतरबुद्धयः कुलक्रमागतिभाजः कुत्सितकर्मपराचीनचेतोवृत्तयः शमिनि वयसि वर्तमानाः कतिचन सचिवाः समेत्य कृतप्रणामाः सप्रणयं व्यजिज्ञपन्– " देव , देवेनाविदितं किंचिदस्तीति न प्रस्तुमहे कथयितुम् । तदपि देवपादयोरनितरसाधारणी भक्तिरस्मान्मुखरयति । तदुचितमनुचितं वा प्रणयपरवशैरस्माभिरभिधीयमानमाकर्णयितुमर्हति स्वामी । देव , स्वहृदयमपि राज्ञा न विस्रम्भणीयम् । किमुतापरे । इयं हि स्वभावसरलनिजहृदयजनिता सर्वविश्वासिता विश्वानर्थकन्दः । क्षमापतयः शैलषा इव मन्त्रिषु नाटयन्ति विस्रम्भं न तु बध्नन्ति मनसा । यतश्चिरपरिचयसमुपचितेन विस्रम्भेण मन्त्रिषु निवेशितराज्यभारा राजानस्तैरेव व्यापादिता
Page #26
--------------------------------------------------------------------------
________________
प्रथमो लम्बः ।
इति लोकप्रवादा मुखरयन्ति नः श्रोत्रपथम् । अपि च सर्वथायमनर्थानुबन्धी परिहृतनिखिलेतरव्यापारः पक्ष्मललोचनायामत्यासङ्गः । यतः सुरासुरसमरकण्डू लदोर्दण्डमण्डली हेलोल्लासित कैलासकण्ठेोक्तपराक्रमः प्रतापभयविनमदनेकविद्याधरमकुटमणिपादपीठविलुठितचरणोऽपि रावणः प्रणयभरेण जनकदुहितरि जनितपारवश्यः समरशिरसि दशरथतनयनिधनाय निजकरविमुक्तेन रणलक्ष्मीमुखकमलविकास दिवस करसहचरेण चक्रेण यशः शेषतामनीयत । अपि च तपश्चरन्नतिदुश्चरमरविन्दसद्मा शङ्कितबलमथनप्रेषितवरयोषिद्विरचितविलासविलोकनविगलितधृतिरनुभवन्नात्मभुवश्चापलमभजदपहास्यताम् । तथा तथागतोऽपि कदाचित्कामशरपतनपरवशकरभपरिषदहमहमिकया परिग्रहपर्याकुलां कामपि बालेबीमालोकयन्करुणारसतरलितमतिराविर्भवदनेकशतभगशबलितकरभीवे - षः क्षणमस्थादिति नास्तिकचूडामणेर्महीयान्ननु कलङ्कस्तस्य । तदित्थमयशः पङ्कपयोधरागमे धर्मकमलाकरनिमीलननिशामुखे द्वितीयपुरुषार्थपरुपराजयक्ष्मणि जडजनजनितसंबाधे विवेकिलोकनिन्दिते कंदर्पवर्त्मनि न निर्भरं निदधति कृतधियः पदम् । तदविरोधेन धर्मार्थयोरनुभवन्कामसुखमजहदवनीपतिधर्मे पन्नगपरिवृढपरिभावुकेन बाहुना पालय पयोनिधिरशनालंकारिणीं धरणीम् " इति प्रणयस्वरूपसाक्षात्करणमणिदर्पणाभानि बहुविधनिदर्शनसंवाहितार्थानि प्रेक्षावदेकान्तहृद्यानि तदात्वककान्यप्युदर्कमधुराणि मन्त्रिवचनानि वनितोपभोगकुतूहलजालजटिलिते जननाथचेतसि निरवकाशतयेव न पदमलभन्त ।
१५
अथ भाविपरिभवचकितस्त्रान्तेषु सामन्तेषु कर्तव्याभावेन मूकीभवत्सु, शोककृशानुपरामर्शमर्मरितमनसि सीदति चिरंतने राजपरिजने, पर्यश्रुनयनेषु प्रवृत्तवनगमनश्रद्धेषु पौरवृद्धेषु पार्थिवस्तावन्मात्रतया धरित्रीराज्योपभोगादृष्टानां तथाभावितया तस्य वस्तुनो दुर्निवारतया मकर
"
Page #27
--------------------------------------------------------------------------
________________
गद्यचिन्तामणौ
ध्वजस्य दुरतिक्रमतया च नियतेनिरन्तरनिपतदनङ्गशरशकलीकरणभयादिव पलायितविवेकः प्रकृतिनिष्ठुरे काष्ठाङ्गारे निजभुजादवतार्य राज्यभारं राजीवदृशा सह रन्तुमारभत ।
कदाचित्प्रहतमृदुमृदङ्गं रङ्गमधिवसन्विलासिनीनामतिचतुरकरणबन्धबन्धुरमनङ्गतन्त्रशिक्षाविचक्षणविटविदूषकपरिषदुपास्यं लास्यमवालोकिष्ट । कदाचिदनुगतवीणावेणुरणितरमणीयं रमणीनां गीतमाकर्णयन्कर्णपारणामकार्षीत् । कदाचिद्विकचकुसुमपरिमलतरलमधुकरकलरवमुखरिते लतामण्डपे विरचितनवकिसलयशयने कृशोदरीमरीरमत् । कदाचिद्वनकरीब करिणीसखः सह दीर्घदृशा विहरन्विहारदीर्घिकां बलवदास्फालनभयादिव समुत्तरत्तरङ्गलचितमणिसोपानपथां परस्परलीलाप्रहारदोहलावचितनलिनशयनसमुड्डीनकलहंसधवलपक्षपटलमुहूर्तघटितवियद्विता - नामतानीत् । कदाचिच्चन्द्रशालातलप्रसारितशयनमध्यं तनुमध्यया सहाधिवसन्वसन्तयामिनीषु निरन्तरमाविर्भवद्भिरमृतकरकिरणकन्दलैः कंदर्पदन्तावलकर्णतालावचूलचामरैर्नयनचकोरयोरातिथेयीमनल्पामकल्पिष्ट।
- तदेवं मनोरथपथातिवर्तिष्वमर्त्यलोकसुलभेषु विषमेषुविलाससाफल्यसंपादितविषयसुखेषु निमज्जति निकामविजृम्भितरजसि राजनि , कदाचित्कस्यांचन निशीथिन्यामनेन सह सौधशिखरभाजि पर्यङ्के पञ्चशरकेलीपरिचयपौनःपुन्यजन्मना परिश्रमेण परवशा महिषी सुष्वाप ।
ततश्चटुलचकोरचञ्चुपुटकबलनादिव विरलमहसि चन्द्रमसि निखिलनिशाजागरणजातया सुषुप्सयेव प्रविशति चरमगिरिगुहागह्वरमवतरदनूरुसारथिसपर्यापर्याकुलेन सप्तर्षिलोकेन विकचकुसुमकुतूहलादवचित इव विचेयतामुपेयुषि ज्योतिषां गणे गतप्राये रजन्यास्तुर्यप्रहरे राज्ञी स्वप्नत्रयमद्राक्षीत् । अत्याक्षाच्च तत्क्षण एव सा संजातशोकप्रसादविद्रावितां निद्राम् । अश्रौषीच्च प्रबुध्यमानभवनकलहंसरवमांसलं वचो मङ्ग
Page #28
--------------------------------------------------------------------------
________________
प्रथमो लम्बः ।
लपाठकानाम् । समुदस्थाच्च सत्वरसमुपसृतयामिकयुवतिजनप्रसारितहस्तावलम्बना प्रलम्बमानकेशहस्तविन्यस्तवामहस्ता शनैःशनैः शयनतलात् । उदमीमिलच्च विकचोत्पलविभ्रममुषी चक्षुषी सकलदोषपरिहारिणि भगवदर्हत्परमेश्वरस्य श्रीमुखाम्भोजे । प्राणसीच्च प्रचुरभक्तया बद्धाञ्जलिः प्रशिथिलितकबरीचुम्बितमहीतला निखिलभवक्लेशहरं भगवन्तम् । व्यचीचरच्च विगलितनिद्राकृतालस्या किमस्य फलं स्वप्नस्येति। व्यधाच्च मनो भर्तुर्मुखादस्य फलश्रुतौ ।
अथ रजनीविरहजनितमसहमान इव परितापमपरजलनिधिजलमवगाहमाने यामिनीप्रणयिनि, तरणिरथतुरगखरखुरपुटपरिपतनभयेन क्कापि गत इवानुपलक्ष्यमाणे तारागणे , गगनपयोनिधिजठररूढविद्रुमलतावितानविडम्बिनि प्रथमगिरिपरिसरवनदावविभ्रममुषि प्रत्यग्रजनितप्रत्यूषगर्भरुधिरपटलपाटलिमद्रुहि पल्लवयति बलमथनदिशामुखमरुणकिरणकलापेतपनदर्शनरसादिव विकसिततामरसदृशि विकचितदलनिचयकवचितककुभि कमलाकरे , प्रबुध्यमानपङ्कजिनीनिःश्वाससब्रह्मचारिणि प्रसृमरतुहिनसीललकणनिकरपरिचयसमुपचितजडिमनि घटमानरथाङ्गमिथुनविहिताशिषि विरहिनयनजलवर्षिणि विसृमरकुसुमपरिमलवासितहरिति वातुमारब्धवति मरुति वैभातिके , निजसुहृदभिभावुकदिनकृदुदयदर्शनपरिजिहीर्षयेव घटितदलकवाटमुद्रे निद्रामभिलषति कैरवाकरे, वाराकरचिरनिवासजनितजडिमविघटनविधृतारुणकम्बल इव विभाव्यमाने दिवसभुजंगफणारत्ने गगनमुरभिदाभरणकौस्तुभे गभस्तिमालिनि महःस्तोमैः स्तबकयति पूर्वमचलम् , अनुष्ठितदिवसमुखविधेया विजया विहितवैभातिककृत्यं कृतजिनचरणसपर्यं पर्यङ्किकानिषण्णं सविनयमभ्येत्य राजानमर्धासनमध्यासिष्ट । पुनरभाषिष्ट च मुखाकृतिसूचिताकूता जिज्ञासापरखशपार्थिवकृतानुयोगा पङ्कजाक्षी– “ आर्यपुत्र , स्वप्ने विकसितकु
Page #29
--------------------------------------------------------------------------
________________
१८
गद्यचिन्तामणी
सुमसौरभसंभ्रमदलिकुलमुखरितहरिदवकाशमहिमकररथमार्गलङ्घनजङ्घालविटपनिबिडितवियदाभोगमभिनवधनपरिषदभिभावुकपलाशपटलकवाच - तवपुषमरुणकिरणशोणकिसलयप्रसूनदर्शिताकालसंध्यं कमप्यशोकशा - खिनमवालोकिषि । स च क्षणेन क्षोणीरुहः कुलधरणीधर इव कुलिशपतनेन शतधा शकलीकृततनुरपतदवनीपृष्ठे । समुदतिष्ठच्च तस्य तरोर्मूलादकठोरदलपुटलुठितेन लोहितिम्ना लिम्पॅल्लोचनपथमधरितदिवसकरबिम्बेन जाम्बूनदघटितेन किरीटेन शोभितशिखरभागस्तुङ्गविशालविटपकबलितवियदन्तरालः कोऽपि कङ्केलिः । तत्र च प्रालम्बिष्ट प्रथमानपरिमलतरलमधुकरमालं मालाष्टकम् । तथाविधं तमनुभूय स्वप्नवृत्तान्तं प्रवृत्तहर्षविषादा च तत्क्षण एव निद्राममुञ्चम् । आचक्ष्व फलममुष्य" इति । . तदनु नरपतिरवनीरुहपतनदर्शनादकुशलमात्मनि शङ्कमानोऽपि चामीकरकिरीटनिरीक्षणनिवेदितेन तनयलाभेन मुदमुद्रहन्नधिकविकसितवदनतामरससरसीरुहासनविलासिनीचरणनखमणिचन्द्रिकामिव दशनकिरणकन्दली दर्शयन्स चतुरमवोचत्-“देवि , पक्कमद्य नश्चिरविरचितेन जिनपादपङ्केरुहसपर्याप्रबन्धेन । फलन्ति च सकलभुवनमहनीयतपसामवितथवचसामत्रभवतामृषीणामाशिषः । तथाहि—कथयति कनकमकुटः कल्याणि , ते तनयम् । तस्योदयमावेदयति पतितपादपमूलरूढः कठोरेतरः स कङ्केलिः । अमुष्य च वधू : सूचयन्ति ताः पुप्पस्रजः” इति । दयितवचनामृतपरितोषितस्वान्ता सीमन्तिनी 'महीरुहपातः किमभिधत्ते' इति महीक्षितमप्राक्षीत् । 'तदपि किमपि मे निवेदयत्यमङ्गलमवनिरुहपतनम्' इति कथयति जगतीपतावपतदनिलरयहता वनलतेव महीतले महिषी । ततः क्षितितलविलुठितवपुषं विगलदविरलबाष्पजलपूरतरत्तरलतारकदृशं शिथिलितनहनविसृमरकेशम
Page #30
--------------------------------------------------------------------------
________________
प्रथमो लम्बः ।
१९
सृणित भुवमविरत निःश्वसितमरुदूष्ममर्मरितदशनच्छद किसलयं विधुंतुदकबलितमित्र तुहिन किरणबिम्बमन्तर्गतविषादविषवेगश्याममाननमुद्वहन्तीं दवदहनशिखापरामर्शपरिम्लानामित्र वनलतां वनकारीसमुत्पाटितां दिनकरमरीचिपरिचयपचेलिमामिव मृणालिनीं मानिनीं मन्युभरपरवशः पृथ्वीपतिरवतीर्य पर्यङ्कादधारतभुजङ्गपतिभोगसौभाग्येन भुजद्वयेन समुत्क्षिप्य स्वाङ्कमारोपयन्नतित्वरित परिजनोपनीतैर्मलयजमृणालघनसारतुषारप्रमुखैः शिशिरोपचारपरिकरप्रकरैः प्रत्युत्पन्नसंज्ञामकार्षीद्याहाच्चि - “ भीरु, केयमाकस्मिककातरता तरलयति भवतीम् । केन जगति स्वप्नानामवितथफलतान्वभावि । भावि वा वस्तु कथमस्तु प्रतिबद्धम् । पुराकृतसुकृतेतरकर्मपरिपाकपराधीनायां विपदि विषादस्य कोऽवसरः । विषादः किं नु विपदमपनुदति । प्रत्युत विपदामेव भवेभवे प्रबन्धमनुबध्नाति । तदेवमुभयलोकविरोधी विषादः किमित्याद्रियते । यश्च समुपस्थितायां विपदि विषादस्य परिग्रहः सोऽयं चण्डातपचकितस्य दावहुतभुजि पातः । ततो हि कृतधियस्तत्त्वचिन्तया विपदामेव विपदं वितI न्वन्ति । किंचावयोरनन्ताः खल्वतीता भवा: । न तेषु संगतिस्तथैव भाविन्यपि भवप्रबन्धे । ततस्तदन्तरालगतकतिपयदिवसपर्यवसायिनि संगमेऽस्मिन्कस्तवायमाग्रहः । संसृतौ हि वियोगः संयोगिनां नियोगेन भविता । त्वमपि किमेतन्न जानासि । किमवगाहितजिनशासनः कृती जनो विपदि संपदि वा बाह्य इव मोमुह्यते । कः स्यादेवकृते कृतिनामविशेषज्ञाद्विशेषः । किंतु विशेषतस्त्वमशेषदोषहरं भगवन्तमतः परमाराधयेः । कुर्वीथाश्च पात्रदानादिना पवित्रमात्मानम् । किमन्यदात्मनामस्ति शरणम् । अस्ति चेदायुषः शेषः शेषैव जिनपादाम्भोजलब्धा भवाब्धौ भव्यानामुपप्लवमुपशमयेत् । तस्माद्विवेकविधुरजनविषयाद्विषादान्निवर्तयितुमात्मानमर्हसि " इति । ततः प्रियतमवदनतुहिनकिरणमण्डलविनिर्यद
Page #31
--------------------------------------------------------------------------
________________
गद्यचिन्तामों
मलवचनामृतनिर्वापितविषादविषानला विलासिनी शरदि सरसीव शनैःशनैः प्रसादं प्रत्यपद्यत । प्रावर्तत च यथापुरमवनिपुरंदरमनुवर्तितुम् । .. अथ कतिपयदिवसापगमे परिणतशरकाण्डपाण्डुना कपोलयोः कान्तिमण्डलेन तुहिनमहसमिव वासवी दिशा शंसति स्म गर्भे गर्भरूपस्य परिणामं हरिणाक्षी । काष्ठाङ्गारकाननदिधक्षया ज्वलिष्यतः सुतप्रतापानलस्य धूमकन्दल इव कालिमा कुचचूचुकयोरदृश्यत । तनयमनसः प्रसाद इव बहिः प्रसृतश्चक्षुषोरलक्ष्यत धवालमा । निखिलजनदौर्गत्यदुःखद्रुहि गतवति गर्भमर्भके बिभ्रतीव भीतिमुदरादतिदूरं दरिद्रता प्राद्रवत् । बुवेव भाविन स्नुषाभावमभवदवनौ पदन्यासपराङ्मुखी । गरिम्णा गर्भे समुपेयुषि दुर्धरतां क्लेशिताधरपल्लवाश्चामरपवना इव दौहृदश्रियः प्रतिक्षणं निःश्वासाः प्रासरन् । निखिलभुवनवास्तव्यानां वस्तूनां भोक्तारमात्मजमावेदयन्तीव विविधरसास्वादलालसा समजनि राज्ञी । परिजनवनिताकरपल्लवात्पादयुगलमाकृष्य पार्थिवमकुटमणिशिलाशयनेषु शाययितुमचकमत कमलाक्षी । अपि भूषणानामुद्वहने क्लाम्यदङ्गयष्टिस्त्रयाणामपि विष्टपानां भारमंसशिखरे निवेशयितुमुदकण्ठत कम्बुकण्ठी।
तदेवमुपचितदौहृदलक्षणामेणाक्षीमालोक्य कदाचिदतनुत नरपतिरन्तश्चिन्ताम् – 'आपन्नसत्त्वेयमावेदयति फलमभ्युदयशंसिनः स्वप्नस्य । किमेवमपरोऽप्यशिवशंसी फलिष्यति । केन वा विनिश्चेतुं पार्यते । भवितव्यता फलतु वा कामम् । का तत्र प्रतिक्रिया । न हि पुराकृतानि पुरुषैः पौरुषेण शक्यन्ते निवारयितुम् । किंतु दुष्कृतपरिपाकभाविना दुर्निवारेण दुःखेन यद्यपि वयमभिभूयेमहि तदपि कुरुकुलनिरन्वयविनाशपरिहाराय परिरक्षणीया प्रयत्नेन पत्नीयमन्तर्वनी' इति । ततश्च विश्रुतविश्वशिल्पकौशलं विश्वकर्माणमिव प्रत्यक्षं तक्षकमाहृय गर्भदोहलजनितकेलीवनविहरणमनोरथां मनोरमां विनोदयितुमभिमतदेशगमनको
Page #32
--------------------------------------------------------------------------
________________
प्रथमो लम्बः ।
२१
शलशालिनं कमपि यन्त्रकलापिनं कल्पयति महीक्षिदादिक्षत् । अद्राक्षीच सत्वरशिल्पिकल्पितमकल्पितनिर्विशेषमशेषजननयनहर्षदायिनं शिखिनम् । अदाच्च तस्मै विस्मयमानमना मानवेश्वरो मनोरथपथातिवर्ति कार्तस्वरादिकम् । व्यहरच्च मनोहरेषु विहारोपवनेषु वनितामारोप्य मयूरयन्त्रे नरेन्द्रः ।
इत्थं गमयति कालं कामसुखसेवारसेन राजनि राजीवदृशश्च क्रमादभिवृद्धे गर्भ निर्भरराज्योपभोगनिष्ठः काष्ठाङ्गारोऽप्याकृतिमिव कृतघ्नतायाः साक्षात्कारयन्नयशःशरीरमिवाकल्पमवस्थापयन्सज्जनसरणिमिव खिलीकुर्वन्सर्वजननिग्राह्यतामिव प्रतिगृह्णन्प्रकृतिमिव तुच्छतायाः प्रदर्शयन्पृथिवीपतावुचितेतरमुपरचयितुमुपाक्रस्त प्राक्रस्त च प्रतिदिनमेवं चिन्तयितुम् —" विहरदश्वीयखुरपुटविघटितधरणीतलोत्थितधारालरजःपटलघटितरिपुमण्डलोत्पातपांसुवर्षेण समरहर्षलमदवदिभकपोलतटविगलितमदजलदर्शितापरकालिन्दीप्रवाहेण विलसदसिमरीचिजालमेचकितदशदिशामुखेन युद्धोन्मुखसुभटभुजदण्डकुण्डलितकोदण्डविडम्बितपितृपतिवऋकुहरेण भुवनविवरव्यापिना बलेन शशरिरे शत्रवः । आ महेन्द्रमदावलकलभकर्णतालपवनविधुतपादपकुसुमधूलीधूसरितपरिसरवनादुदय - गिरेरा खेलद्वरुणरमणीचरणन्यासमिलदविरलपावकपल्लवितप्रस्तरादस्त - गिरेरा शैलराजदुहितृकरनखेलूनपल्लवभरकृतावनीरुहशिखरोल्लासात्कलासादा निशिचरकुलप्रलयधूमकेतोः सेतोरवनतमकुटमणितटलुठितैमर्माणिक्यमहःपल्लवैरर्चयन्ति नश्चरणौ धरणीभुजः । एवं फलितसकलमनोरथस्य सर्वो:पालमौलिविनिवेशितचरणस्य शौर्यशालिनो मादृशस्य परनिदेशकरणमयश:कारणम् । न हि चेतयमाना मानिनः परशासनं शिरसा धारयन्तो वहन्ति जीवितम् । सकलभुवनाधिपत्योपभोगमुखितमपि दुःखयति हि पारतन्त्र्यम् । तत्केनापि व्याजेन व्यापाद्य
Page #33
--------------------------------------------------------------------------
________________
२२
गद्यचिन्तामणौ
राजानं व्यपगतपारतन्त्र्यशोकशङ्कनिःशङ्क एव महीं मदेकशासनां विधास्यामि " इति ।
इत्थमनुवर्तमानमनोरथम् , कदाचित्कनकगिरिशिलातलविशालस्य विमलदुकूलवितानविराजिनः प्रलम्बमानकदलिकाकलापस्य काञ्चनशिलास्तम्भशुम्भतो महतो मण्डपस्य मध्यभागनिवेशिनि निष्टप्ताष्टापदनिमितवपुषि विचित्रास्तरणशोभिनि सिंहासने समासीनम्,पृष्ठतः स्थापितेन राजलक्ष्मीनिवासपुण्डरीकपाण्डरेण धवलातपत्रेण तिलकितमूर्धानम् ,उभयतः स्थिताभिरनुक्षणरणितमणिपारिहार्यमुखरबाहुलतिकाभिर्वारवामनयनाभि : सविलासविधूयमानविमलचामरमरुदान्दोलितकुसुमदामसुरभितवक्षःस्थल - म् , मूर्तिमन्तमिव शौर्यगुणम् , विग्रहवन्तमिवावलेपम् , आत्मदेहप्रभाकवचितकाष्ठं काष्ठाङ्गार परिवार्य प्रकटितप्रश्रयाः समन्तादासिषत सामन्ताः ।
अथ तानालोक्य कपटकर्मपटिष्ठः काष्ठाङ्गारः स्वहृदयविपरिवर्तमानार्थसमर्थनचतुरं किमपि वचनमचीकथत् -" किमपि विवक्षतामेव नः क्षीणतामयासिषुरनेके दिवसाः। अद्यापि लज्जमानमिव मानसमन्तराकर्षति रसनाम् । परिवादपविपतनभीतेव गलकुहरान्न निःसरति सरस्वती। पातकपङ्कपतनातङ्कादिव कम्पते कायः । किमेतत्स्वन्तं दुरन्तं वेति स्वान्तं न मुञ्चति चिन्ता । तदपि दैवादेशलङ्घनभयोत्खातशङ्काशङ्कनिर
शेन मनसा समावेद्यते । स्वप्ने केनापि पार्थिवपरिपन्थिना दैवतेन 'निहत्य राजानमात्मानं रक्ष' इति निरनुक्रोशेन समावेद्यते । कात्र प्रतिक्रिया । किं वात्र प्रयुज्यते । यदिहास्माभिर्विधीयेत तदभिधीयताम्" इति पापिष्ठेन काष्ठाङ्गारवचनेन कुपितकण्ठीरवकण्ठनिःसृतेन स्वनेन वनकरिण इव कांदिशीका निष्कृपनिषादनिर्दयाकृष्टिनिष्ठयूतेन चापटङ्कारेण रका इव धृतातङ्काः प्रमादप्रवृत्तेन प्राणिवधेन तपोधना इव सद्यःसं जात
Page #34
--------------------------------------------------------------------------
________________
. प्रथमो लम्बः ।
भयाः सर्वकषशोकपावकपच्यमानतनवः संतापकृशानुधूममिव श्यामलिमानमाननेन दर्शयन्तः पातालतलप्रवेशाय दातुमवकाशमर्चयन्त इव विकचकमलदलनिचयेन मेदिनीमवनमितदृशः प्रसृमरनिःश्वासनिर्भरोष्णमर्मरिताधराः करनखरशिखरविलिखितास्थानभूमयः स्वान्तचिन्त्यमाननरपतिदुश्चारतदूयमाना दुःखभरभज्यमानमनोवृत्तयः कर्तव्यमपरमपश्यन्तः पश्यन्तश्च परस्परमुखानि मूकीभावेन दर्शितदुरवस्थमवास्थिषत मत्रिणः । ___ततस्तूष्णीभावविवृतविसंवादेषु स्वेदसलिलनिवेदितवेदनानुबन्धेषु चित्रगतेष्विव निष्कम्पनिखिलाङ्गेषु मन्त्रप्रभावनिरुद्धवीर्येष्विव विषधरेषु विंगतप्रतीकारतया हुत्कुर्वाणेषु सचिवेषु धर्मदत्तो नाम धर्मंकतानबुद्धिरमात्यमुख्यः प्रज्ञाप्रदीपदृष्टकाष्ठाङ्गारहृदयगतार्थोऽपि पार्थिवपक्षपातादनपेक्षितप्राणः सधीरमभाणीत्—" आयुष्मन् , नैकदोषतिमिरविहरणरजनीमुखं राजद्रोहं दौरात्म्यादुपदिशति दैवतेऽस्मिन्नाकस्मिकः कोऽयमादरः। पश्य विश्वंभरापतयो ह्यतिशयितविश्वदेवताशक्तयः । तथाहि-यस्त्वपकरोति देवताभ्यः स पुनः परत्र विपद्येत वा न वा । मनसापि वैपरीत्यं राजनि चिकीर्षतां चिन्तासमसमयभाविनी विपदिति नैतदाश्चर्यम् । यदेकपद एव सह सकलसंपदा संपनीपद्यते प्रलयः स्वकुलस्यापि । परत्रापि पापीयसस्तस्याधोगतिरपि भवितेति शंसन्ति शास्त्राणि । तद्विवेकविधुरजनगतागतक्षुण्णमयशःपङ्कपटलपिच्छिलमभितःप्रसरदपायकण्टककोटिसंकटमशेषजनविद्वेषविषधरविहारभीषणमपर्यवसायिपारवादपर्यायदावपावकपरीतं पार्थिवविरुद्धमध्वानं सुधियः के नाम वगाहन्ते । प्रकृतिमूढमतयः प्रेक्षाविहीना हि मुञ्चन्तः सौजन्यं संचिन्वन्तः सर्वदोषानुत्सारयन्तः कीर्तिमुररीकुर्वाणा अवर्णवादं विनाशयन्तः कृतं व्याक्रोशयन्तः कृतघ्नतां परिहृत्य प्रभुतामनुप्रविश्य बालिश्यमनारोप्य गरिमाणमारोप्य लघिमान
Page #35
--------------------------------------------------------------------------
________________
गद्यचिन्तामणी
मनर्थमप्यभ्युदयममङ्गलमपि कल्याणमकृत्यमपि कृत्यमाकलयन्ति । भवादृशां पुनरीदृशेषु विषयेषु कः प्रसङ्गः" इति । पृथिवीपतिसङ्गपिशुनं धर्मदत्तवचनं काष्ठाङ्गारस्य मदपरिणतवारणस्येव निवारणार्थे निष्ठुरनिशितसृणिपतनं परवादिवर्गस्येव निसर्गनिर्दोषाने कान्तसमर्थनं प्रकृष्टकुल जातस्येव प्रमादसंभवदनिवार्यात्मस्खलितमरुन्तुदमभूत् ।
२४
तद्वचनमधिक्षिप्य क्षेपीयः क्षितितलादुत्तिष्ठन्काष्टाङ्गारस्य स्याल : सालप्रांशुकाः कन्द इव हेयतायाः काष्ठेव काठिन्यस्य काङ्क्षिन्तकाश्यपीपतिनिधनो मथनः (6 कथयन्तु कामं काका इव वराकाः । न कदाचि-दपि देवेन देवतादेशलाङ्घना भवितव्यम् । भवितव्यताबलं तु पश्चात्पश्येम । किंच किंकराः खलु नरा देवतानाम् । यदीह देवताः परिभूयन्ते नरापचारचाकित्येन सोऽयं पाशदर्शनभयपलायितस्य फणिनि पदन्यासः करिकलभभीतस्य कण्ठीरवकण्ठारोहः " इति रोषपरुषमभाषिष्ट । तद्वचनं तु तस्य हृदयं तस्करस्येव कर्णीसुतमतप्रदर्शनं सौगतस्येव शून्यवादस्थापनं परिणतकरिण इवाधोरणानुगुण्यमतितरां प्रीणयामास ।
1
ततः समीहितसाधनाय काष्ठाङ्गारः सचिवेषु प्रतीपगामिषु कतिचिदवधीदपधीः । कतिचन कालायसनिगलचुम्बितचरणांश्चकार चोरवकारागृहे । जगृहे च राजगृहमपि तत्क्षण एव क्षोणीं क्षोभयता बलेन प्रबलेन ।
अनन्तरमष्टापदनिर्मिते महति पर्यङ्के पाकशासनमिव सुमेरुशिरसि निषण्णम्, अपरवियदाशङ्काकृतावताराभिस्तारकापङ्किभिरिव व्याकोशकुसुमनिचयविरचिताभिः प्रालम्बमालिकाभिः सुरभितवक्षःस्थलम्, अधरितशारदपयोधरकुलेन दुकूलेन मन्दरमिव मथनसमय मिलितेन फेनपटलेन पाण्डुरितनितम्बम्, परिचुम्बितदशदिशावकाशेन पद्मिनीसहचरमरीचिवीचिपरिभावुकेन सहजेन तेजःप्रसरेण प्रतप्तचामीकरपरिकल्पि -
Page #36
--------------------------------------------------------------------------
________________
प्रथमो लम्बः ।
तेन प्राकारेणेव परिवृतम्, शेखर कुसुमपरिमलतरलमधुकरकलापपुनरुदीरितकुन्तलकालिमकवचितमूर्धानम्, उभयसविधगतवारयुवतिकरतलविधुतधवलचमरवालपवननर्तितचेलाञ्चलम् अन्तिकमणिदर्पणप्रतिबिम्बनिभेनानङ्गसुखानुभवाय नालमेकेनेति देहान्तरमिव धारयन्तम्, अनवरतताम्बूल सेवाद्विगुणितेन स्फुटितबन्धुजीवलोहितिम सुच्छायेन दशनच्छदालोकेन प्रभूततया मनस्यमान्तं रागसंभारमिव बहिरुद्वमन्तम्, निजमुखलक्ष्मीदिदृक्षोपनतेन क्षीरजलराशिनेव स्निग्धधवलगम्भीरेण कटाक्षेण विकसितपुण्डरीकदलनिवहधवलितमिव तं प्रदेश दर्शयन्तम्, नृत्तरङ्गमिव शृङ्गारनटस्य निवासप्रासादमिव विलासस्य साम्राज्यमिव सौभाग्यस्य संकल्पसिद्धिक्षेत्रमिव कंदर्पस्य सारमिव संसारस्य दृश्यमानं मानवेश्वरं विश्वंभरातलविनमितमौलिरभिप्रणम्य प्रतीहारः सप्रश्रयमब्रवीत्' देव कुरुकुलकमलमार्तण्ड महीपालबलपयोधिमथनमन्दरायमाणदोर्दण्ड दुःसहशौर्यबाधितपरचक्र विक्रमाक्रान्तसकलदिगन्त, समन्तादागतेन सरभसचलिततुरगखरखुशिखरदारितधरापरागपां सुलनभोमण्डलेन मण्डलाग्रमरीचितिमिरितहरिदन्तरालेन सिन्धुरवरकरटवहदविरलमद जलजम्बालितजगतीतलेन गगननीलोत्पलविपिनविडम्बिकुन्तदन्तुरेण वीरलक्ष्मीभ्रू
२५
विरचितभ्रुकुटिकुटिलकार्मुकतरङ्गितेन प्रलयवेलाविशृङ्खलजलधिजलपूरभयंकरेण निखिलजगदाक्रमणचतुरेण चतुरङ्गबलेन प्रत्यवतिष्ठते काष्ठाङ्गार:' इति ।
अथ तेनाश्रुतपूर्वेण वचनेन ' कथं कथं कथय कथय ' इति पृच्छन्प्रतीहारं झटिति घटितकोपग्रन्थिरन्धीभवन् पर्यङ्कपरिसरनिहितमहितकुलप्रलयधूमकेतुकरालं करवालं करे कुर्वन्, अखर्वगर्वसमुत्क्षिप्तदक्षिणचरणाधिष्ठितवामोरुकाण्डः चण्डराषाट्टहास विसरदमलदशनकिरणधवलितवदनशाशिमण्डलः, स्फुटितगुञ्जाफल पुञ्जपिञ्जरेण क्रोधरागरूषितेन
3
Page #37
--------------------------------------------------------------------------
________________
२६
गद्यचिन्तामणौ
चक्षुषः प्रभापटलेन परितः प्रसर्पता प्रतिभटपलायनमनोरथरोधिनमनलप्राकारमिव प्रवर्तयन् , प्रस्विन्नदेहप्रतिबिम्बिताभिर्भवनभित्तिचित्रयुवतिभिः ‘अतिसाहसं मा कृथाः' इति गृहदेवताभिरिव प्रणयपर्याकुलाभिः परिरभ्यमाणः , क्षुद्रनरेन्द्राक्रमणकोपवर्मितविष इव विषधरस्तत्क्षणमन्यादृश इवादृश्यत काश्यपीपतिः । आदिशच्च प्रतीहारम् 'आनय त्वरितमहितचमूसमूहनिवारणान्वारणानप्रतिहतजवविराजिनो वाजिनोऽसमसमरसाहसलम्पटान्भटान्भग्नरिपुनृपतिमनोरथान्रथानपिः' इति । अथ निजभुजदम्भोलिविस्रम्भादनपेक्षितसहायः सरभसमुत्तिष्ठन्नर्धासनभ्र - ष्टामुत्कम्पमानकायां समुच्छिन्नमूलामुर्वीतलपतितामिव लतामुत्क्रान्त - जीवितामिव निःस्पन्दकरणग्रामां धरणीतलशायिनी शातोदरीमालोक्य बहुविधनिदर्शनसहितवस्तुस्वभावोपन्यासप्रयासैरप्यनासादितस्वा - स्थ्याम् ‘अस्थाने केयं कातरता । क्षत्रिये, मद्विरहकातरापि कुरुकुल. मूलकन्दगर्भरक्षणाय क्षणादितो गन्तुमर्हसि । शपामि जिनपादपङ्केरुहस्पर्शेन' इत्यभिदधान एव विधाय तां मयूरयन्त्रे नरेन्द्रः स्वयमेव तद्भमयांचकार । चकोरेक्षणामादाय क्षणेन गगनमुड्डीने यन्त्रशिखण्डिनि खण्डयितुं प्रतिभटान्करकलितकरवालः काश्यपीपतिः कण्ठीरव इव गिरिकन्दरान्मन्दिरान्निरगात् । निर्गते च तस्मिन्विस्मयनीयविक्रमे विघूर्णितकृपाणविराजिनि राजनि मृगराजदर्शन इव करिकलभयूथमन्धकारमिव च दिनकृदुदये तदनीकमनेकसंख्यमतिदूरं पलायत । पलायमानं बलं बलात्प्रतिनिवर्त्य स्वयमेव प्रार्थयमाने पार्थिवं कार्तघ्न्यकाष्ठां गते काष्ठाङ्गारे राजा तु दारितमत्तकारकुम्भकूटः, पाटितरथकड्यः , खण्डितसुभटभुजदण्डसंहतिः, संहृततुरगचमूसमूहः, ससंभ्रमं समरशिरसि विहरन् , विविधकरिरथतुरगखण्डनरभसकुण्ठितमण्डलायः, किमनेन कृपाविकलजनसमुचितेन सकलप्राणिमारणविहरणरसेनेति
Page #38
--------------------------------------------------------------------------
________________
प्रथमो लम्बः।
२७
जनितवैराग्यभरः,
' विषयासङ्गदोषोऽयं त्वयैव विषयीकृतः । सांप्रतं वा विषप्रख्ये मुञ्चात्मन्विषये स्पृहाम् ' ॥
इति भावयन् , परित्यक्तसकलपरिग्रहः, स्क्हृदयमणिपीठप्रतिष्ठापितजिनचरणसरोजः, काष्टाङ्गाराय काश्यपीमतिसृज्य त्रिदशसौख्यमनुभवितुममरलोकमारुरोह ।
आरूढवति भूभृति भुवनमनिमिषाणामुन्मिषद्विषादविषविधुराणां पौराणां पङ्किलयति बाष्पजलप्रवाहे महीम् , मुखरयति दश दिशां मुखानि निर्दयोरःस्थलताडनजन्मनि वे निरवधिकवेपथूनां पुरवधूनाम् , अवधूतकलत्रपुत्राद्यनुवर्तनेषु निवृत्तिसुखरसाविष्टेषु विशिष्टेषु, काष्ठाङ्गारस्य काठिन्यं कथयति मिथः सुजने जने , निरूपयति दुरन्ततां कन्दर्पपारतन्त्र्यस्य पदार्थपारमार्थ्यपरिज्ञानशालिनि विवेकिवर्गे, व्यप्रगतिर्गगनपथेन गतः स कृत्रिमशिखण्डी निजनगरोपकण्ठभाजि परेतवासे पार्थिवप्रेयसीमपातयत् ।
___अत्रान्तरे वृत्तान्तमिममतिदारुणमम्बरमणिरनुसंधातुमक्षममाण इव ममज्ज मध्येसागरम् । साक्षात्कृतनरपतिमरणाया वरुणदिशः शोकानल . इव जज्वाल संध्यारागः । न लोकयतु लोकः प्रेयसी पृथिवीपतेरितीव कालः काण्डपटिकामिव घटयंति स्म दिङ्मुखेषु निरन्तरमन्धकारम् ।
अथ नरपतिसमरधरणीसमुद्गतपरागपटलपरिष्वङ्गपांसुलमङ्गमिव क्षालयितुमपरसागरसलिलमवतीर्णे किरणमालिनि, महीपत्यनुमरणमण्डनसंभृतरक्तचन्दनाङ्गराग इव वसुंधरायाः क्षरितजननयनाश्रुनिझरक्षालनादिव क्षयमुपेयुषि ज्योतिषि सांध्ये , सार्वभौमविरहविषादवेगविधूयमानदिशावधूकेशकलाप इव मेचके कवचयति भुवनमभिनवे तमसि, नरेशविनाशशोकादिव संचरत्सायंतनसमीरनिभेन निःश्वसन्त्यां निशायाम् ,
Page #39
--------------------------------------------------------------------------
________________
गद्यचिन्तामण
तनुतर बिसलता भङ्गिनी संसारभङ्गीमुपहसतीव विकसति विकचदलनिचयधवलितदशदिशि कुमुदाकरे, कुमारोदयसमयसमुन्मेषिहर्षपरवश सुरसंतानिते संतान कुसुमप्रकर इव तारकानिकरे निरन्तरयत्यम्बरम् आविभवनिपतनयातपत्र इव पाकशासनादिशि दृश्यमाने यामिनीप्रणयिनि, प्राप्तवैजननमासा महिषी सा प्राणनाथविरहदुःखभारान्तरितप्रसववेदना तस्मिन्नेव पितृनिवासे बालचन्द्रमसमित्र पश्चिमाशा विपश्चिल्लोकनयनहारिणं हरिताश्वमिव पूर्वकाष्ठा काष्ठाङ्गारपर्यायतिमिरध्वंसिनं सूनुमसूत ।
"
सुतसुधासूतिदर्शनसमासादितजीवितवहनवात्सल्या तज्जन्ममहोत्सवसंभ्रमाभावपुनरुक्तविषादा पुत्रमङ्के निधाय प्रलपितुमारभत —– 'यस्य जन्मवार्तानिवेदनमुखरा हरिष्यन्ति पूर्णपात्रं धात्रीजना जननाथेभ्यः, यस्मिंश्च कृतावतारे काराध्यक्षकरत्रोटितशृङ्खला विशृङ्खलगतयश्चिरकालकतधरणीशयनमलिनितवपुषो बन्दीपुरुषाः पलायमाना इव कलिसैन्याः समन्ततो धावेयुः यस्मिंश्च जातवति जातपिष्टातकमुष्टिवर्षपिञ्जरित हरिन्मुखमुन्मुखकुब्जवामनहठाकृष्यमाणनरेन्द्राभरणं प्रणयभरप्रवृत्तवारयुवतिवर्गवल्गनरणितमणिभूषणनिनदभरितहरिदवकाशं निर्मर्यादमदपरवशपण्ययोषिदाश्लेषलज्जमानराजवल्लभं वर्धमानमानस परितोषपरस्परपरिरब्धपार्थिवभुजान्तरसंघट्टविघटितहारपतितमौक्तिकस्थपुटितास्थानमणिकुट्टिमतटं कुलितसौविदल्लनिरोधसंलापनिरङ्कशप्रविष्टाशेषजानपदजनितसंबाधं सादरदीयमानकनकमणिमैक्तिकोत्पीडमुद्घाटितकवाटरत्नकोशप्रविशदच कितलोक लुप्यमानवस्तुसार्थमार्थंगणगवेषणादेश निर्गतानेकशतप्रतीहारानीतवनीपकलोकमुल्लोकहर्षविहितमहार्ह जिनमहामहमहमहमिकाप्रविष्टविशिष्ट - जनप्रस्तूयमानस्त्रस्तिवादं सौवस्तिकविधीयमानमङ्गलाचारमाचारचतुरपुराणपुरंध्रीपरिषदभ्यर्च्यमानगृहदैवतं दैवज्ञगणगृह्यमाणलग्नगुणविशेषमशेषजनहर्षतुमुलरवसंकुलं राजकुलमवलोक्येत, स त्वमारसदशिवशिवाव
२८
Page #40
--------------------------------------------------------------------------
________________
प्रथमो लम्बः ।
२९
ऋकुहरविस्फुरदनलकणजर्जरिततमसि समीरपूरितविवरवाचाटनकरोटिकर्परकलिलभुवि डामरडाकिनीगणसंपातचकितपुरुषपरिहृतपरिसरे प
च्यमानशवपिशितविस्रगन्धकटुके कल्याणेतरचिताभस्मसंकटे प्रेतवा.टे जात, कथमपि जातः कथमनुपलक्षितरक्षाप्रकारे प्रणयिजनशून्ये
प्रतिभटनगरपरिसरपरेतवासे वसन्वर्धिष्यसे वा। इत्थमपगतकरुणमतिदारुणमाकस्मिकमप्रतिक्रियमननुभूतपूर्वमतिदुःसहं विधिविलसितं विलोकयन्त्या न मे प्राणाः प्रयान्ति । किमिह करोमि । किं वा व्याहरामि । यदि त्यजामि जीवितं जीवितेश्वरवचनलङ्घनजन्मा महान्दोषः' इत्येवं चान्यथा विलपन्ती विगतपरिकरां परितापविह्वलामबलाम् ‘अलमलमतिप्रलापेन' इति कथयन्ती कापि देवता सुतसुकृतपरिपाकप्रेरिता परिचारिकायाश्चम्पकमालाया वेषमास्थाय संन्यधात् । तिरोऽधाच्च तदर्शनेन जाताश्वासायास्तस्याः पुनस्तन्मुखाकर्णितभर्तृवियोगविनिश्चयेन चैतन्यम् । देवताशक्तिस्तु प्राणप्रयाणं न्यरौत्सीत् । अरोदीच्चातिदुःसहं लब्धचेतना । प्रालापीच्च बहुप्रकारम् । एवमवचनगोचरमापदमनुभवन्तीमात्मजपरिरक्षणपराङ्मुखीमात्मत्यागाभिमुखां च तामालोक्य चम्पकमाला 'किमेवं देवि, खिद्यसे । पश्य तव तनयस्य तरुणतामरससोदरयोश्चरणयोररुणरेखारूपाणि रथकलशपताकादीनि साम्राज्यचिह्नानि । इयं च बिभ्रती स्पष्टतरतामष्टमीचन्द्रसौन्दर्यहासिनि ललाटपट्टे मुक्तकण्ठमूर्णा वर्णयत्यर्णवाम्बराधिपत्यम् । अयमभिनवजलधरनिनदगम्भीररुदितध्वनिः स्वराज्यस्वीकारमङ्गलशङ्खघोषश्रियमभिव्यनक्ति । तद्भविष्यति भगीरथादीनपि महारथानधरयन्धरायाः पतिरयम् । परित्यज्यतां च परित्राणचिन्ता। चिन्तामणिकल्पः कोऽपि वणिजामधिपतिरधुनवागत्य तव तनयं ग्रहीष्यति वर्धयिष्यति च महाराजसुतोऽयमिति' इति चतुरतरवचोभिश्चिरपरिचयजनितविश्वासां महिषीमाश्वासयामास । तत्क्षण एव क्षणदान्धकारम
Page #41
--------------------------------------------------------------------------
________________
३०
गद्यचिन्तामणो ।
भिनवधौतधाराधारालकिरणेन कृपाणेन दारयन्दारकमादाय मृतं सूनृतवचसां मुनिवराणां वचसि विश्वासादेकाकी समागच्छन्नतुच्छतेजाः प्रत्यदृश्यत कोऽपि वैश्यः । पश्यन्ती च तं चम्पकमाला ‘पश्य देवि, मदुक्तोऽयमागतः । विश्वस्यतामेवमन्यदपि मद्वचनम् । यावदयमेनमादाय कुमारमपसरति तावदन्तरितया त्वया स्थातव्यम्' इत्यभ्यधात् । तदुक्तमुत्तमाङ्गना सापि विश्वसन्ती निःश्वसन्ती च विषादेन विगतरक्षणाभ्युपायतया तथाभावितया च तस्य वस्तुनः प्रस्नुतस्तनी स्तन्यं पाययित्वा शाययित्वा च भूतले भूपलाञ्छनमहितं महार्हमङ्गुलीयकमस्य करे न्यस्य सप्रणामम् ‘रक्षन्तु जिनशासनदेवताः' इत्याचक्षाणा क्षोणीपतिपत्नी परिचारिकाप्रयत्नेन तनयपरिसरादपसरन्ती समीपतरवर्तिनः कस्यचन तरोर्मूले तिरोधाय तस्थौ । तावता समुपेत्य स वणिक्पतिरपगतासुमात्मसुतं प्रेतावासे परित्यज्य पार्थिवतनयमन्वेषमाणः क्षोणीतलशायिनम् , नैशान्धकारपटलभेदिना देहप्रभाप्रतानेन प्रदर्शयन्तमात्मानम् , राहुग्रहणभयेन धरण्यामुद्यन्तमिव मार्तण्डम् , मन्द्रतारेण रुदितरवेण मुखरयन्तमाशामुखम् , सहजप्रतापविस्फुलिङ्गशङ्काकरेण रत्नाङ्गुलीयकमरीचिंजालेन किसलयितकरम् , अविरलगर्भरागपाटलवपुषमङ्गारकमिव भूगर्भान्निर्गतम् , दुर्गत इव दुर्लभं धनं धरापतितनयमालोक्य हर्षकण्टकिताभ्यां कराभ्यामत्यादरमादत्त । आदीयमान एव स कुमारः क्षुतमकरोत् । अश्रावि च तत्क्षणमन्तरिक्ष 'जीव' इति जातजीवितदैर्घ्यशंसी शब्दः । तेन च दिव्यवचनेन नितरां प्रीतः स वैश्यः काश्यपीपतितनयस्य तदेव नाम संकल्पयन्ननल्पविभवमात्मभवनमासाद्य ' कथमनुपरतं सुतमुपरत इति कथितवती' इति कृतकरोषेण पत्नीं भर्सयमानो वत्समस्याः करे समार्पिपत् ।
सा च गन्धोत्कटभार्या सुनन्दा चन्द्रमसमिव हृदयानन्दनमानन्दबाष्पवारिमुचा चक्षुषा क्षालयन्तीव क्षितितलमिलितधूलीधूसरं तदङ्गमन
Page #42
--------------------------------------------------------------------------
________________
प्रथमो लम्बः ।
ङ्गमिव रतिरचितचिरसमाराधनमुदितपुरमथनपुनःप्रतिपादितशरीरं कुमारमादरादाददे । सा च धात्रीवेषधारिणी देवता दयितमरणेन तनयवियोगेन च विजृम्भमाणदारुणशोकदहनदह्यमानहृदयामनभिमतजीवितां विजयां निजानुभावादाश्वास्य तामनभिनन्दितसनाभिगृहगमनामविदितकर्तव्यां विश्वसत्त्वविनम्भवितरणशौण्डदण्डकारण्यान्तःपातिनं पत्रलपारसरपादपनिर्वासितपथिकपरिश्रमं तापसाश्रममनैषीत् । सा च तत्र संतापकृशानुकृशतरा कृशोदरी करेणुरिव कलभेन धेनुरिव दम्येन श्रद्धेव धर्मेण श्रीरिव प्रश्रयेण प्रज्ञेव विवेकेन तनुजेन विप्रयुक्ता विगतशोभा सती विमुक्त भूषणा तापसवेषधारिणी करुणाभिरिव मूर्तिमतीभिर्मुनिपत्नीभिरुपलाल्यमाना मनसि जिनचरणसरोजमात्मवृद्धिं च ध्यायन्ती समुचितव्रतशीलपरित्राणपरायणा पाणितलविलूनाभिर्मरकतहरिताभिर्दूर्वामुष्टिभिर्मोदयन्ती नन्दनाभिवर्धनमनोरथविनोदनाय मुनिहोमधेनुवत्सानवात्सीत् । सा च साधितसमीहिता देवता तत्रैव तपोवने तामवस्थाप्य 'सुतावस्थामवगम्यागमिष्यामि' इत्यभिधाय तिरोऽधात् ।।
__ गन्धोत्कटश्च हर्षोत्कटेन मनसा समसमयप्रहतभेरीमृदङ्गमर्दलकाहलकांस्यतालशङ्खघोषणमुषितेतरशब्दसमुन्मेषम् , तोषपरवशवंश्यजनजन्यमानसमर्दविकीर्यमाणपिष्टातकपांसुधूसरीभवदहस्करालोकम् , उल्लोकवितीर्यमाणवित्तमुदितार्थिवर्गविधीयमानाशीर्वादम् , वचनावचनविवेकविधुरपरिजनप्रवर्त्यमानलीलालापकलकलसंकुलम् , समन्तादावय॑मानतैलधारापिच्छिलधरातलस्खलितलोकम् , प्रमोदमयमिव प्रदानमयमिव प्रसूनमयमिव सत्कारमयमिव संगीतमयमिव संमर्दमयमिव लास्यमयमिव लावण्यमयमिव लक्ष्मीमयमिव लक्ष्यमाणमात्मजजन्ममहोत्सवमन्वभूत् । अज्ञः . स तु काष्ठाङ्गारः स्वराज्यलाभजन्मना हर्षेण विहितोऽयमुत्सव इति मन्वानस्तस्मै सगौरवं कुरुकुलमहीपालपरम्परापरिपालितमखिलमपि राज
Page #43
--------------------------------------------------------------------------
________________
गद्यचिन्तामण
कोशमदिशत् । आदिशच्च तदपेक्षया तत्क्षणे तन्नगरजांश्च जातान्गन्धोकटगृह एव तत्सुतेन सह संवर्धयितुम् । तदेवं स्वापतेयेनैव स्वकीयेन सहितस्याह्नि सप्तमे सप्तसप्तिसमतेजसस्तनयस्य जीवंधर इति प्रथमसंकल्पितं नाम चकार चक्रवर्ती वणिजाम् । ततश्च क्रमेण तैश्च समानवयोभिर्वयस्यैरनुजेन सुनन्दानन्दनेन नन्दादयेन सममाढ्यपरिवृढस्य गन्धोत्कटस्य सद्मनि वर्त्मनि दिविषदामोषधीनाथ इव नक्षत्रैः पाकशासनवेश्मनि पारिजात इव कल्पद्रुमैः, उदन्वति कौस्तुभ इव मणिभिरनुवासरं वर्धमानलावण्यः पुण्येन प्रजानामवर्धत जीवंधरः । तेन च प्रतिदिवसमुदयमासादयता जलनिधिरिव चन्द्रेण कमलाकर इत्र दिवसकरेण नितरामैधिष्ट गन्धोत्कटः ।
"
प्रमदोत्कटे गच्छति काले कलहंसपोत इव कमलात्कमलं दर्पणमिव करात्करं धात्रीणामुपसर्पन्, प्रसर्पता निर्हेतुकहसित चन्द्रालोकेन बन्धुजनहृदय कुमुदाकरमुल्लासयन्, उन्मीलितनिखिलभुवनव्यापिनि निजतेजसि किमनेनेति गृहप्रदीपान्निर्वापयितुमिव स्प्रष्टुमिच्छन्, अतुच्छरत्नशिलाघटितभवनभित्तिसंनिवेशदृश्यमानमात्मप्रतिबिम्बमद्वितीयताभिनिवेशेन नाशयितुमिव परिमृशन्, भाविभर्तृभावावबोधिन्या मेदिन्येव विहारधूलीव्याजेनालिङ्गितशरीरः, समीरतरलिताग्रैरलिकतटविलुलितैरलिनिचयमेचकैः कचपल्लवैर्बालभाव एव वल्लभत्वमभिलषन्त्याः श्रियः क्रीडाभिसरणमनोरथपूरणाय निशामित्र दिवसेऽपि निष्पादयन्, कलमधुरगम्भीरेण कर्णामृतवर्षिणा स्वरेण सरस्वतीप्रवेशमङ्गलशङ्खध्वनिमित्र सूत्रयन्, लोकनेत्रचकोरपीयमानलावण्यामृतनिः स्यन्दश्चन्द्र इव दिनेदिने दशितरूपातिशयः, शनैः शनैः शैशवमत्यक्रमीत् । आक्रमीच्च पञ्चमं वयः । ततः पुण्येऽहनि महनीयमुहूर्ते राजपुरीमध्यमध्यासितस्य निष्टप्ताष्टापदध टितेष्टकानिर्मितमूलभित्तेः, उत्तमप्रमाणोज्ज्वलस्य, निखिलावयवशिखर
३२
·
Page #44
--------------------------------------------------------------------------
________________
प्रथमो लम्बः ।
निहितमणिमौक्तिकनिकरेण तारागणेनेव सततसंचारजातश्रमच्छेदाय यथेष्टं निवसता दिवापि दर्शितरजनीशङ्कस्य, पाटितजलधरक्रोडाप्रविन्यस्त चूडामणिमयस्तूपिकाखमणिना शङ्कितसदातनमध्यंदिनस्य, मरकतमणिमयाजिरपृष्ठप्रसारितैर्मौक्तिकबालकाजालैः प्रतिफलितमिव सतारं तारापथं दर्शयतः, स्फाटिकशिलाघटितबलिपीठोपकण्ठप्रतिष्ठित महार्हमणिमयमानस्तम्भस्य, संस्तवव्याजेन शब्दमयमिव सर्वजगत्कुर्वता मस्तक - न्यस्तहस्ताञ्जलिनिवहनिभेन भगवन्तमर्चयितुमाकाशेऽपि कमलवनमापादयतेत्र भव्यलोकेन भासितोद्देशस्य, हाटकघटितसालपक्षपुटेन वीक्षितुमन्तरिक्षपर्यवसानमुड्डयनमिव कर्तुमुद्यतेन रजतघटितकवाटपुटविनिर्गच्छन्त्या निसर्गशुचिशुक्लध्यानदेश्यया रश्मिनिकरखेत्रलतया ध्यानपरयमधनसविधविनिर्गच्छदेनोनिकरमिवान्धकारमतिदूरमुत्सारयता शिखरखचितपद्मरागप्रभया प्रसर्पन्त्या बहिर्गच्छदतुच्छभव्यभक्तिरागमिव प्रदर्शयता सतत संभवदहमहमिकाप्रवेशनिबिडधरणिपमकुटकोटिकर्षणमसृणितमणिभित्त्युदरभासुरेण गोपुरचतुष्टयेनाधिष्ठितस्य, कोमलप्रवालदण्डाग्रग्रथितानामविरतयथार्हसपर्याप्रमोद सततसंनिहितसर्वदेवतानिःश्वासनिभेन मातरिश्वना सलीलं कम्पितानां पताकानां किंचित्कुञ्चितैरग्रहस्तैरास्तिकलोकमिव समर्पयितुं धर्मामृतमाहृयतः प्रतिप्रदेशव्यवस्थापित समस्तदेवताप्रतिमाप्रकरेण प्रचुरभक्तिचोदितशतमखमुखाखिलमखभुगागमनमिवादर्शयतः, प्रकृतिशान्तैर्मन्त्रमय भूतवाङ्मय सर्वस्त्रैः संसारकान्तारदावदहनज्ञानध्यानपरैः परहितनिरतस्वान्तैरेकान्तमताभिषङ्गभुजङ्गदंशनिरंशक्षीणजगदनेकान्तसंजीवनसमर्पणपरं परमागममुपदिशद्भिर्मुनिवरैरलंकृतमुनिनिकायविराजितस्य, राजपुरीपर्यायपारिजातभूरुहप्ररोहबीजभूतस्य
३३
7
कुरुकुलक्षत्रियपुत्रार्हाध्ययनाभिषेकाद्यारम्भभूमेर्महतः श्रीजिनालयस्य हारताश्वोदयहरिद्भाजि भासुरमणिमौक्तिकमालाञ्चिते काञ्चनसजलकलशभृङ्गार
Page #45
--------------------------------------------------------------------------
________________
गद्यचिन्तामणौ
प्रमुखबहलपरिच्छदलाञ्छितवेदिकोपशोभिनि प्रलम्बमाननानाविधप्रसूनदामसुरभितककुभि दामशङ्काश्रितस्फाटिकस्तम्भादुत्पतदलिकुलझंकारसूचितमङ्गलपाठकवचसि भित्तिलिखितचित्रदर्शितसुकृतेतरपरिपाकफलभवप्रबन्धप्रचुरभक्तिप्रेरितभव्यसार्थप्रस्तूयमानसंस्तवकलकलमुखारतवियति प्रान्तप्रलम्बमानवन्दनादामनि प्रत्यप्रगोमयोपलेपहरितभुवि विप्रकीर्णमङ्गललाजकुसुमहसितहरिति हरहसितधवलवितानवाससि पसुधासुरप्रवर्तितपुण्याहकर्मणि कालागुरुधूपधूमपटलनिमीलितातपसंपदि सत्क्रियमाणसकलमनीषिणि प्रहतपटहपटुरवभरितदशदिशि संख्यातीतशङ्खकाहलतालोत्तालरबबधिरितश्रवसि संगीतारम्भपुनरुक्तस्फुरितसौन्दर्ययुवतिलोकोद्योतिनि महति विद्यामण्डपे महेन्द्रमकुटपादपीठलुठितचरणसरोरुहस्य स्याद्वादामृतवर्षिदिव्यागमपयोदनिर्वापितसंसारदावानलस्य भगवतो जिनेश्वरस्य यथाविधि विधीयमाने महार्हे महामहे स्वतःप्रकाशितनिरतिशयसारस्वतेन निखिलशास्त्रशाणोपलकषणनिशितशेमुषीमुषितपुरुहृतपुरोहितगण दुर्वारवादिपरिषदवलेपपर्वतपाटनपाटवप्रकटितस्याद्वादवज्रेणार्यनन्द्याचार्येणगलिततुषखण्डेष्वखण्डेषु तण्डुलेषु पत्रेषु च भर्मनिर्मितेष्ववतार्य सप्रणयं प्रतिपादितां सिद्धपरमेश्वरदिव्यसंनिधौ ‘सिद्धं नमः' इति पूर्वपदप्रशस्तां सिद्धमातृकारूपिणी वाणी जीवंधरः सप्रणामं प्रत्यग्रहीत् ।
इति श्रीमद्वादीभसिंहसूरिविरचिते गद्यचिन्तामणौ
सरस्वतीलम्भो नाम प्रथमो लम्बः ।
Page #46
--------------------------------------------------------------------------
________________
द्वितीयो लम्बः ।
अथ महार्हे रत्नशिलाघटिततले स्फटिकदृषदुपरचितभित्तिभासुरे वासरालेकपरिभाविमहेन्द्रनीलनिर्मिताङ्गणभुवि दुग्धजलधिफेनधवलवितानविभ्राजिनि विराजमानसरस्वतीप्रतिमाञ्चितचित्रपटे संचितसकलग्रन्थकोशे कोशनिहितनैकशतनिस्त्रिंशनिरन्तरे स्तबरकनिचोलचुम्बितचारुचापदण्डे कुण्डलितशिखरमनोहरचण्डयष्टिनि निष्टप्तहाटकघटितदण्डकान्तकुन्ते प्रान्तपुञ्जितनिशतशरप्रकरे प्रासतोमरभिण्डिपालप्रमुखनिखिलायुधनिरवकाशितखलरिकोद्देशे कुशेशयासनकुटुम्बिनीकोशगृह इव दृश्यमाने महति विद्यामण्डपे पाण्डित्यपयोधिपारदृश्वना विश्रुतप्रभावेण विश्वव्यवहारशिक्षाविचक्षणेन प्रत्यक्षिताचार्यरूपेणार्यनन्द्याचार्येण समस्तमपि विद्यास्थलं सानुजमित्राय तस्मै सस्नेहमुपादेशि । ततः सप्रश्रयशुश्रूषाप्रहृष्टमनसः प्रकृतिशीतलशीलादाचार्यात्प्रचुरप्रतापोष्मले तस्मिंश्चन्द्रमस इव चण्डतेजसि कलाकलापः क्रमेण समक्रमीत् । अत्युल्बणजराजर्जरितमनवरतजनितकम्पमम्बुजासनमुखचतुष्टयमाविष्टेव पतनभिया विहाय भारती तरुणतामरससोदरं तदाननमास्पदीचकार । तथाहि-अपरिमितार्थोपलब्धिमूलभूतपदरत्नराशिरोहणं व्याकरणम् , दुर्गमदुर्मतमहाकर्दमशोषणप्रवणार्के तर्कशास्त्रम् , याथात्म्याञ्चितप्रपञ्चपञ्चास्तिकायवस्तुवास्तवावबोधसिद्ध्युपायमपि सिद्धान्तं यथावदध्यैष्ट । अधिष्ठाय पृष्ठपीठमतिकठोरकुम्भतटनिवेशितनिशिताङ्कुशनखरः कुर्वन्नुर्वीधरमिव जङ्गमं मातगमपगतमदचापलमात्मवशगामिनमनन्यसुलभपराक्रमपरिशङ्कितां प्रकटीचकार राजसिंहतां राजकुमारः । अतिरभसचटुलखुरपुटविदलितधरणी
Page #47
--------------------------------------------------------------------------
________________
गद्यचिन्तामणौ
रङ्गेण तुरङ्गेण युगपदाक्रमन्दिशां चक्रमक्रमेण निखिलनिजराज्यहरणदक्षमात्मानमनक्षरमभाषिष्ट । अनवरतयोग्यापरेण कुमारेणारूढः प्रतिभटमनोरथानपि धरामिव दारयिष्याम्यचिरादिति कथयन्निव रथश्चक्रचीत्कारव्याजेन व्यराजिष्ट । आकर्णाकृष्टः कर्णे सपुपदिशन्निव मौर्वीस्वनेन समरविजयकलामविरलशरासारवर्षी राजसूनोरलक्ष्यत लक्ष्यभेदचतुरस्य चापदण्डः । आरम्भसमय एव गुणनिकायाः केशानप्यतिसूक्ष्मान्पाटयितुं पटुः पार्थिवसुतेन पाणौ कृतः कृपाणः कृशेतरनखमरीचिसंपर्कादासन्नविनिपातपरिज्ञानविधुरमहसदिव काष्ठाङ्गारम् ।
एवं क्रमादभ्यस्तसाहित्यं साधितशब्दशासनं समालोकितवाक्यविस्तरं विजृम्भितप्रमाणनैपुणं नितिनीतिशास्त्रहृदयं शिक्षितलक्ष्यभेदं विधेयीकृतविविधायुधव्यापारं पारदृश्वानमश्वारोहणविद्याया विश्रुतवारणारो- - हणवैयात्यं वीणावेणुप्रमुखवादनप्रथमोपाध्यायं विदितभक्तमार्ग नैसर्गिकनित्यविज्ञानवैशारद्यविस्मापितशैलूषलोकमुल्लोकनिखिलनिजचरित्रविराज - मानं राजकुमारं कुसुममिव गन्धः क्रीडावनमिव वसन्तश्चन्द्रमसमिव शरदागमः कुमुदाकरमिव कौमुदीप्रवेशः करिकलभमिव मदोद्गमो यौवनावतारः परं दर्शनीयतामनैषीत् । तथाहि ----प्रविविक्षन्त्याः प्रतिभटराजलक्ष्म्याः सुखासिकादानमिव विधातुं वितस्तार वक्षःस्थलम् । दिशिदिशि चलितस्निग्धधवलदीर्घवपुषः कटाक्षाः कान्तिलक्ष्मीजन्मदुग्धजलधिविभ्रम बिभ्रति स्म । अंसवलभीसमर्पणाय धरणीमादातुमिव जानुलम्बिनौ बभूवतुर्भुजौ । स्पर्धयेव परस्परं वर्धमानाभ्यां प्रतापकान्तिभ्यामशिशिरशिशिरकिरणयोरद्वैतमिव राजसूनुरदीदृशत् ।
एकदा तु तमेकान्ते प्रान्ते निवसन्तमन्तेवासिनमालोक्याचार्यः प्रज्ञाप्रश्रयबलेन हेलया संजातां विद्यापरिणतिं विमृशन्करतलसंस्पर्शेन सादरं संभाव्य निरवसानव्यसनप्रसूनदायिसंसृतिलताच्छेदकुठारं निरति
Page #48
--------------------------------------------------------------------------
________________
द्वितीयो लम्बः
शयपरमानन्दपदप्राप्तिसाधनं सम्यक्त्वधनं समर्पयितुमस्मै कालोऽयमित्याकलय्य गुरुशुद्धिप्रदर्शनेन सविस्रम्भमस्य मनः कर्तुं स्ववृत्तान्तमन्यकथाव्यावर्णनव्याजेन व्याजहार — " वत्स, वन्दमानविद्याधरमकुटताडितपादपीठकण्ठेोक्तमहिमा महीपतिरभूदभूतपूर्वः सर्वविद्यासाम्राज्यसंपदुन्मेषविभ्राजिनि विद्याधरलोके लोकपालो नाम । स तु कदाचिदागमे पयोमुचामम्बराभोगमलिम्लुचं महेन्द्रनीलमणिवातायनतिलकितं सौधवलभीमघ्यं सुमध्याभिः सहाधिवसन्घनसमयलक्ष्मीकुन्तलविभ्रमं किमपि नवाभ्रमपश्यत् । पश्यत्येव तस्मिन्विस्मयस्तिमितचक्षुषि तत्क्षण एव ननाश नैशान्धकारसोदरः स पयोधरः । तदवलोकनजनितनिर्वेद : ' सर्वथा सलिलबुद्बुदसहचरा न सन्ति चिरावस्थायिनः संसारविभ्रमाः । तरुतलपुञ्जिताः पर्णराशय इव प्रबलपवन परिस्पन्देन सुकृतपरिक्षयेण तत्क्षण एव नश्यन्ति संगताः संपदः । पाकशासनशरासनमिव विश-रारु नानारागपल्लवोल्लासविलासोपवनं यौवनम् । जीवितं तु किमिदानीमुद्भाविन्यपि समये स्थायीति जगति न केनापि निश्चेतुं पार्यते । कथमपि कालं कंचिदवस्थितिभाजोऽप्यायुषः क्षय एव नियतः । तदेतत्सर्वं स्वयमेव यास्यति । वयमेव निरस्यामः' इति विचार्य विनश्वरश्रीविलासपराङ्मुखः परनिरपेक्षं निरवधिकमनुपाधिकं च सुखमनुभवितुमिच्छन्पुत्रशिरसि निवेश्य राज्यभारं भवसंज्वरपरिहरणविचक्षणां जिनदीक्षां प्राविक्षत् । प्राप्तजिनदीक्षः प्रणष्टतमांसि तपांसि चरन्प्राग्जन्मार्जितदुर्जरपापपरिपाकपरिणतेन भक्षितमखिलं तत्क्षण एव भस्मसात्कुर्वता च भस्मकेन पर्यभूयत । परिभूतश्च तेनाविच्छिन्नचरितोऽप्यशक्यतया दुर्गत इव दुर्लभं धनं परमं तपः पर्यत्यजत् । अवर्तिष्ट च यथेष्टं स्वैरविहरणावकाशप्रदानपण्डितेन पाषण्डिवेषेण । स पुनरङ्गार इव भस्मना भस्मकमहारोगेण तिरोहितदीप्तिः सम्यक्त्वपूतमतिस्तत इतो विहरन्ननव
1
Page #49
--------------------------------------------------------------------------
________________
गद्यचिन्तामणौ
रतजृम्भमाणदारुणबुभुक्षाक्षोभितमतिः कदाचिदधरितकुबेरवैभवस्य गन्धोत्कटस्य सततविघटितकवाटपुटमुत्तम्भितमणिस्तम्भशुम्भिताभ्यन्तर निरन्तरविप्रकीर्णमणिगणशरिलभूतलमगस्त्यकबलितजलपूरमिव रत्नाकरमाखण्डलकुलिशपुनःपतनभयपरिवृत्तवेषमिव रोहणशिखरिणमभिनवशष्पशङ्कातरलितगृहहरिणपोतलिह्यमानगरुत्मदुपलघटिततलमयूखपटलमतिचटुलपरिचारकचरणपुटरटितरत्नसोपानमवलम्बितमुक्तादामपुलकितवलभीनिवेशमितस्ततोदृश्यमानचामीकरपर्यङ्कपरिहसितमेरुशिलातलमाभि - नवसुधालेपधवलितोपरिभागरम्यं हर्म्यमविशत्। तत्र च प्रसार्यमाणसौवमित्रविडम्बितमित्रमण्डले त्वरमाणपरिजनवनिताकरप्रमृज्यमानमणिचषकशुक्तिसंचये संमूर्च्छदतुच्छपाटलपरिमलसुरभिपानीयभारततपनीयभृङ्गारके लिख्यमानमङ्गलचूर्ण रेखानिवेद्यमानभोजनभुवि समुद्घाटितपञ्जरकवाटविनिर्गतक्रीडाशुकशारिकाहूयमानपौरोगवे प्रवेश्यमानबुभुक्षितजने प्रदीयमानपतिभोजनामत्रकदलीपत्रे प्रत्यग्रपाकजनितसौरभ्यलुभ्यदाणे समन्ततश्चलिततालवृन्तग्राहिणीचरणनूपुररणितभरितदिशि भोजनस्थानमण्डपे जैनजनसर्वस्वतया निःशङ्क प्रविशन्नातिदूरनिविष्टैनिबिडभूषणमणिप्रभातरङ्गिततनुभिरतनुकायकान्तिभिरात्मनः प्रतिबिम्बैरिव समानवयोरूपलावण्यैर्वयस्यैरुपास्यमानमुडुगणपरिवृतमिव बालचन्द्रमसमायुष्मन्तमपश्यत् । भवानपि बाल्येऽप्याकृतिज्ञतया प्रकृतिसुलभकृपाप्रेरितहृदयतया च तस्य तादृशीं बुभुक्षामालक्ष्य ‘भोज्यतामयमभिमतै ज्यैः' इति पुरः स्थितं पौरोगवाध्यक्षमादिक्षत्। भिक्षुरपि कटाक्षपातक्षणसंनिहितसलिलकौन्तिककरावर्जितकनकभृङ्गारगर्भगलितधारालसलिलक्षालितचरणः प्रसारितवेत्रासने मणिकुट्टिमे समुपविश्य पुरोनिहितपृथुतरामत्रपातितममलदुग्धजलधिफेनपटलधवलं संपन्नमन्नराशिमविरलघृतसितासंपातद्विगुणितमाधुर्येण मौद्गकद्रवेण कबलीकृत्य मधुररसभरितोदरेण विडम्बितकनक
Page #50
--------------------------------------------------------------------------
________________
द्वितीयो लम्बः
३९
पालिकेन पचेलिमेन पनसफलेन पाकपाटलितत्वचा मोचाफलेन शातकुम्भकुम्भसदृशाकारेण सहकारफलेन च प्राज्याज्यप्रचुरमरीचानुगुणलवणमधुरनालिकेरपयःपल्लवितरसेन बृहद्वृहतीप्रमुखेनाञ्जनशिखरिदेशीयेन व्यञ्जनजातेनाप्यभिव्यञ्जितरसं निमेषमात्रेण निरवशेषमभ्यवाहृत । पुनरप्यहृष्टमनसे प्रचुरमन्नमह्नाय भोक्तुमभिलषते तस्मै विस्मयस्तिमितमनसा त्वया समादिष्टाः पौरोगवाः पूर्वनिष्पन्नं तद्भवनवासिनिखिलजनभोक्तव्यं विविधमन्धः संभारं समर्पयामासुः । स भिक्षुरक्षीणबुभुक्षुस्तदशेषमशनमम्भोधिपयःसंभारमिव कल्पान्तकालानल: कबलयन्न कदाचि - दतासीत् । एवं पूर्वनिष्पन्नैस्तदात्वसंपादितैरपरिमितैश्च पायसदाधिकसार्पिष्काद्यमृतपिण्डैरपूपैरप्यपूर्णजठरमाशार्णवमिव वर्णिनमालोक्य चित्रीया - विष्टस्त्वमनासादिताहारो निवसन्भिक्षोर्व्याधेः परिक्षयकालतया वा कुमारकारुण्यवैभवेन वा तथाभवितव्यतया वा तस्य वस्तुनः स्वहस्तावलम्बि - तं कलमकबलमत्यादराददिथाः । तदास्वादनमात्रेण तृष्णापयोधिरिव भगवत्या परमनिवृत्या क्षण एव तस्मिन्पूर्ण वर्णिनो जठरमभूत् । आसीज्च्चास्य सौहित्यम् । अत्रपच्चायमतितराम् । नितरां व्यस्मेष्ट प्रकृष्टतपसां सुलभेन भवन्माहात्म्येन । निरणैत्रीच्च भवलक्षणेन भवन्तमन्यादृशम् । अतर्कयच्च पुनरमान्तं स्वान्तसंकटकुटीरे बहिरपि विहारयन्नित्र रोमाञ्च - निभेन हर्षभरम् – ' आसीदयमपहसितमारः कुमारो मारकोऽस्मद्भस्मकव्याधेः । कात्र कर्तव्या प्रत्युपकृतिः । नहि प्रतिकृतिसव्यपेक्षाः प्रेक्षात्रतामुपकृतयः । तथापि किमप्युपकृत्य प्रतिकृतिमता मया भवितव्यम् ' इति सुचिरं विचिन्त्याप्यन्यां प्रतिकृतिमनालोकयन्नुभयलोक हितहेतुभूतमभूतपूर्वमहिमानमनत्रद्याभिर्विद्याभिरेवमलमकुरुत भवन्तम् " इति ।
एवं विदितगुरुवृत्तान्ततया मुदितमानसं प्रलयाभिमुखीभवदेनसं चरमदेहधारिणं कुमारं सूरिः श्रीरत्नत्रयविशुद्धिसंपादनाय तत्त्वमबूबुधत्
Page #51
--------------------------------------------------------------------------
________________
४०
गद्यचिन्तामण
"
-" वत्स, तवाधिगतगृहमेधिधर्मयाथात्म्यप्रतिपादनप्रकारविलसदुपासकाध्ययनपरमागमस्य नोपदेष्टव्यमस्ति । तथाप्युपदेशमूलाया एव सकलकर्मप्रवृत्तेः सफलत्वात्संगृह्य किंचिदुपदिश्यते । श्रवणग्रहणधारणानुस्मरणप्रमुखविविधप्रयाससाध्यस्य शास्त्रावगमस्य प्रयोजनं पुंसां हेयोपादेयपरिज्ञानस्वरूपपुरुषार्थसिद्धिस्तन्मूलत्वादपवर्गप्राप्तेः । सा चेन्न स्याद्वीहिखण्डनायास इव तण्डुलत्यागिनः, कूपखननप्रयास इव नीरनिरपेक्षिणः, कणादोक्तिरिव शास्त्रशुश्रूषापराङ्मुखस्य द्रविणार्जनक्लेश इव वितरणगुणानभिज्ञस्य, तपस्याश्रम इव नैरात्म्मवादिनः, शिरोभारधारणःश्रान्तिरिव जिनेश्वरचरणप्रणामबहुमतिबहिष्कृतस्य प्रव्रज्याप्रारम्भ इवेन्द्रियदासस्य विफलः सकलोऽप्ययं प्रयासः स्यात् । इह केचन कोमलप्रज्ञाः प्राज्ञजनगर्हितं क्षयैकशरणशरीरजीविकामात्रमास्थानवशीकरणचतुरचतुर्विधपाण्डित्यलाभं च शास्त्रावगतेः प्रयोजनमाकलयन्तः केवलं विक्रीणानां : प्रकृष्टमूल्यानि मुष्टयन्धसे मुक्ताफलानि नाफला इव विफल प्रयासाः प्रेक्षावदुपेक्ष्यतां कक्षीकुर्वन्ति । दुर्लभाः खलु हेयोपादेयपरिज्ञानफलाः शास्त्रावगतीर्निश्चिन्वाना विपश्चितः । ततः प्रत्यासन्नभव्यो भवान्भवान्धकारविहरणरजनीमुखं रागद्वेषादिरूपं हेयं विलयविरहित निरवधिकानन्दमूलकन्दं श्रीरत्नत्रयाभिधानं धनमुपादेयं च यथावदवगम्य गार्हस्थ्यधर्मार्हमनुष्ठेयमनुष्ठातुमर्हति " इति ।
एवं गुरूपदेशपरिगृहीतसमुचित सम्यग्दर्शनज्ञान चारित्रस्य सकलरहस्योपदेशनिक्षेपक्षेत्रस्य तस्य राजकुमारतामावेद्य राज्ञां चरितमभिधित्सन्नादितः प्रभृति कार्त्स्न्येन तदुदन्तमिदन्तया सस्नेहमुपहरे सूरिरुपन्यास्थत् । उदस्थाच्च महीपृष्ठाद्गुरुमुखावगतनिजचरितप्रपञ्चः, पञ्चाननपोत इव मदबदरण्यदन्ताबलदर्पपरिभूतः प्रभूतकोपपावककपिलकपोलमण्डलव्याजेन प्रत्यर्थिविनाश सूचिनमुत्पाततरणिबिम्बमिव दर्शयन् प्रतिभ
,
"
Page #52
--------------------------------------------------------------------------
________________
द्वितीयो लम्बः ।
टविपिनदिधक्षया रोषरूषितस्य चक्षुषः प्रभाजालेन प्रतिदिशं प्रसप्ता प्रेषयन्निवाशुशुक्षणिम् , अविरलघर्मोदबिन्दुपुलकिते क्रोधलक्ष्मीकटाक्षकुटिलभृकुटिभीषणे भालपट्टे प्रथीयसि प्रतिबिम्बितमाचार्यमाहवविजयाय मूर्धनि कुर्वन् , समरदेवताराधनाय कुसुमनिचयमिव कोपाट्टहासमरीचिचन्द्रिकाच्छलेन संचिन्वन् , दशनच्छदेन मुहुर्मुहुः स्फुरता वैरियशःक्षीरपानकौतुकमिव प्रकटयन् , प्रकटितात्मवैभवः कुमारः, ततो निकटवर्तिनं कोदण्डदण्डमकाण्डकोपघटितकृतान्तभ्रूभङ्गविडम्बिनमविलम्बेन गृह्णन्गृहीतकतिपयकाण्डः काष्ठाङ्गारवधे विधाय संरम्भं ससंभ्रममुदतिष्ठत । तथोत्तिष्ठमानं च तमुत्पाततपनमिव दुःसहतेजसमुल्बणविषमिव भुजङ्गराजमशेषभुवनभयंकरं राजकुमारम् ' अलमलमकाण्डसंरम्भेण' इति निवारयन्नाचार्यः , प्रज्वलत्प्रकोपदहनजनितदाहभय इव शिष्यहृदयमनुपसर्पति निजवचसि , 'वत्स , वत्सरमात्रं क्षमस्व । गुरुदक्षिणेयम् ' इति सप्रणयमयाचिष्ट । स च कोपाविष्टमतिरपि गुरुणा गुरुप्रणयेन तादृशमाचार्यवचनमतिलङ्घयितुमक्षमः प्रतिषिद्धप्रसरेण रोषहुतभुजा भुजङ्गम इव नरेन्द्रप्रभावप्रतिबद्धपराक्रमः प्रकाममदह्यत ।
अथ शिक्षावचनतीक्ष्णाङ्कशनिपातनिवृत्तसंरम्भमेनं समदमिव मातङ्गं प्रियवचनेन प्रकृतिमानीय विनयविरोधियौवनवित्तमत्तजनानर्थप्रदर्शनपटीयसीं वाचमाचार्यः स चतुरमभिधातुमारेभे- "वत्स, बलनिषूदनपुरोधसमपि स्वभावतीक्ष्णया धिषणया धिक्कुर्वति सर्वपथीनपाण्डिये भवति पश्यामि नावकाशमुपदेशानाम् । तदपि कलशभवसहस्रेणापि कबलयितुमशक्यः प्रलयतरणिपरिषदाप्यशोष्यो यौवनजन्मा मोहमहोदधिः । अशेषभेषजप्रयोगवैफल्यनिष्पादनदक्षो लक्ष्मीकटाक्षविक्षेपविसी दर्पज्वरः । पुरोवर्त्यपि वस्तु न विलोकयितुं प्रभवतः प्रभूतैश्वर्यमदकाचकञ्चुकितरोचि
Page #53
--------------------------------------------------------------------------
________________
४२
गद्यचिन्तामण
पी चक्षुषी । मन्दीकृतमणिमन्त्रौषधिप्रभावः प्रभावनाटकनटनसूत्रधारः स्मयापस्मारः । पातालविवरपतितविश्वंभरा समुद्धरणधीरो मुरारिरपि वराहरूपी नालमुद्वर्तुमुदर्कविषमविषयाभिलाषबहलजम्बालजालमग्नं मनः । सकलसागरसलिलपूरेणापि न पार्यते क्षालयितुमुत्तालरागपर। गपटलपरिष्वसङ्गि मालिन्यम् । अवस्थाविषमविषमोक्षभीषणा राजलक्ष्मीभुजङ्गी । इति किंचिदिह शिक्ष्यसे । अविनयविहंगलीलावनं यौवनमनङ्गभुजङ्गनिवासरसातलं सौन्दर्यं स्वैरविहारशैलूषनृत्तास्थानमैश्वर्य पूज्यपूजाविलङ्घनलघिमजननी महासत्त्वता च प्रत्येकमपि प्रभवति जनानामनर्थाय । चतुर्णा पुनरेतेषामेकत्र संनिपातः सद्म सर्वानर्थानामित्यर्थेऽस्मिन्कः संशयः । स्फटिकोपलबिमलमपि मनो मानवानां यौवनलक्ष्मीपाद पल्लवन्यासेनेव समुद्वहति रागम् । शास्त्रशाणोपलकषणमुषितमासृण्यापि मतिरवतरदभिनवयौवनं वनिताचरणसमुत्थापितेनेव रजसा धूसरीभवति । हितमहितं च नावगच्छत्यतुच्छधियामपि यौवने निर्व्याजमदमधुपानमत्तेव चित्तवृत्तिः । कतिचिदेव कथमपि कर्णधारीकृत्य विवेकमुपभोगरणरणिकातरङ्गमनङ्गावर्तदुस्तरं तरन्ति तारुण्यजलनिधिम् | यौवनशरदागममत्तानां विघटित - विवेकनिगलानां विषयवनविहारिणामिन्द्रियकरिणामङ्कुशीभवन्ति गुरूपदेशाः । भवद्विधा एव भव्यास्तादृशगुरूपदेश बीजप्ररोह भूमयः । नवसुधालेपधवलिमभासि सौधतले किरणकन्दला इव चन्द्रमसः स्वभावसुलभविवेकविद्राविततमसि मनसि विलसन्ति गुरूणां गिरः । प्रबलतमतमः - कालायसकङ्कटिनि जडधियां हृदि प्रवेश्यमानाः शकली भवन्ति हितानुशासनवचनपर्यायाः पत्रिणः । उपदेशवचनं नाम मर्त्यानाममन्दरमथनपरिश्रमसाध्यममृतपानम्, हृदय गुहागर्भनिर्भरमूर्च्छद नच्छतमश्छटाविघटनचण्डमचण्डभानवीयमंशुजालम्, अविवेकविपिनभस्मीकरणपाण्डित्यपात्रमचित्रभानवीयं चेष्टितम्, परिपाकपयोधिविजृम्भणैककारणमशिशि
Page #54
--------------------------------------------------------------------------
________________
द्वितीयो लम्बः ।
रकिरणीयमभीशुजातम्, अरत्नशिलाभरणभारधारणायासमाकल्पान्तरम्। विश्वंभराभर्तॄणां तु विशेषत इदं दुरासदम् । तेषां हिताहितमुपदिशन्तः सन्तो हि सुदुर्लभाः । खलजनकण्टकखिलीकृताः खलु महीभृतामास्थानमण्डपोद्देशाः । सुजनास्तत्र कथमत्रस्ताः पदं निधातुं पारयन्ति । पारयन्तोऽपि स्वकार्यपारवश्यनश्यद्विवेकाः काश्यपीभुजां पार्श्व कथमप्याश्रयितुमाश्रयाशा तिशायिशक्तिप्रज्वलदस्थान रोषभीषणां तेषां वाचं वाचस्प तिदेश्या अपि शुका इव स्वयमनुवदन्ति । वदन्ति चेदपि तेजस्विनः परितः परहितपरतया विरसीकृत्य निरसनैकतानं वचनं वचनीयधुराधरणक्षमाः क्षमापतयः क्षितितलप्राप्तिक्षणसमारोपितप्रतापज्वररयबधिरितकर्णा इव तनावकर्णयन्ति । कथंचिदाकर्णयन्तोऽपि मधुमदमत्तमत्तकाशिनीवदनशीधुसंपर्कशिथिलितचित्तवृत्तय इव नूनमदत्तावधानाः खेदयन्तः स्वहितोपदेशकारिणः सूरींस्तदुक्तं नानुतिष्ठन्ति । अनुतिष्ठन्तोऽपि न फलपर्यन्तं कुर्वन्ति कार्यम् । किमन्यदुदीर्यते स्वाभाविकाहंकारस्फारश्वयथु जातवेपथुविला हि महीभृतां प्रकृतिः । प्रकृत्या तथाभूतानियं दुराचारप्रिया हरिप्रिया तु सुतरां खलयति । इयं हि पारिजातेन सह जातापि लोभिनां धौरेयी, शिशिरकरसोदरापि परसंतापविधिपरा, कौस्तुभमणिसाधारणप्रभवापि पुरुषोत्तमद्वेषिणी, पापर्धिरियं पापर्धी, वेश्येयं पारवश्यकृतौ द्यूतानुसंधिरियमतिसंधाने, मृगतृष्णिकेयं तृष्णायाम् । तथा चेयं शर्वरीव तमोधिष्ठिता परप्रकाशासहिष्णुस्वभावा च, कुलदेव प्राप्तप्रद्वेषिणी परान्वेषिणी च, जलबुद्बुदाकृतिरिव जडप्रभावा क्षणमात्रदर्शितोन्नतिश्च, किंपाकमूर्तिरिव भोगकाङ्क्षाप्रवर्तनी कटुकपाका च । एवं परगतिविरोधिन्या फलदव्ययवहिर्भूतया भूतचतुष्टयमयकायमात्रपुष्टिपरया परार्ध्यचरित्रचर्वण्या चार्वाकमतसब्रह्मचारिण्या राज्यश्रिया परिगृहीताः क्षितिपतिसुताः क्षण एव तस्मिन्नैय्यायिकनिर्दिष्टनिर्वाणपदप्रति
"
४३
Page #55
--------------------------------------------------------------------------
________________
गद्यचिन्तामणौ
ष्ठिता इव प्राक्तनमपि गुणप्रतानं वितानीकृत्य जडात्मतामेवात्मसात्कुर्वन्ति , कापिलकल्पितपुरुषा इव जडबुद्धेरेवात्मानं घटयन्ति , सदाहंकारसंगतप्रकृतयः प्रकृतिविकारपरं वचनं प्रतिपादयन्ति च । स्वरूपव्यावर्णने ह्यर्णवनेमिस्वामिनाममरस्वामिनाप्यसंख्यवदनेन भवितव्यम् । ते हि सत्यपि राजभावे सद्भिर्न सेव्यन्ते,जीवत्यपि गोपतित्वे वृषशब्दं न शृण्वन्ति, नादितेऽपि नरेन्द्रत्वे मन्त्रिकृत्यं न सहन्ते । तथा महाबलान्वेषिणोऽप्यबलान्वेषिणः, प्रतापार्थिनोऽप्यसोढप्रतापिनः, सश्रुतयोऽप्यश्रुतयः, अङ्गस्पृहा अप्यनङ्गस्पृहाः, अभिषिक्ता अप्यनार्द्रभावा जडसंसक्ता अप्यूष्मलस्वभावाः , सुलोचना अप्यदूरदर्शिनः , सुपादा अपि स्खलितगतयः, सुगोत्रा अपि गोत्रोन्मूलिनः, सुदण्डा अपि कुटिलदण्डाः, सिंहासनस्थिता अपि पतिताः, हिंसाप्रधानविधयोऽपि मीमांसाबहिष्कृताः, ऐश्वर्यतत्परा अपि न्यायपराङ्मुखाश्च जायन्ते । एवं क्षोदीयसः क्षुद्रतरनैकपुरुषपरिषदुपभुक्तोच्छिष्टक्षितिलवलाभानुबन्धिपट्टबन्धान्धीकृतान्विषयान्धकारसंचारिणः शरणशीलं शरीरं विनश्वरमैश्वर्यं दावगर्भारण्यमिव तारुण्यं विचार्यमाणे विशीर्यमाणं वीर्यमैन्द्रधनुरिव सौन्दर्य प्रख्यापिततृणाग्रबिन्दुसख्यं सौख्यं च व्यवस्थितमाकलयतस्तानाढ्यताजातमौढ्यादधः स्वयं पतत इव यष्टिभिर्घातयन्तो निकृष्टाः केचन सदस्याः स्वदास्यममीषां संपाद्य संपदाकर्षणलम्पटतया घटितकापटिकवृत्तयः सन्तः सन्त इव नटन्तश्वरलक्ष्यभेददक्षतायै मृगयेति संकटपतितकार्यविचारपाटवाय द्यूतक्रीडेति प्रतीकस्थैर्याय पिशिताशनमिति मनःप्रसादाय मधुपानमिति रतिनैपुण्याय पण्ययुवतिपरिष्वङ्ग इत्यभिनवरतिरसास्थानिरस्तये परस्त्रीपरिग्रह इति शौर्यस्फूर्तये चौर्यमिति केलिरसाय तरलवृत्तिरिति महासत्त्वतेति मा. ननीयावधीरणं महानुभावतेति वन्द्यानभिवन्दनं महातेजस्वितेति तेजस्वितिरस्करणमित्युपदिश्य स्ववझ्यान्कल्पयन्ति । वित्तमदाचान्तविवेकः स ज
Page #56
--------------------------------------------------------------------------
________________
द्वितीयो लम्बः ।
न्तुरपि तथोपदिशन्तमधिकपापिनमपथदर्शिनमपथ्यशंसिनमकृत्यकारिणमुतानुवादिनमुत्कोचोपजीविनं परपीडामुदितमानसं पराभ्युदयखिन्नहृदयं पैशुन्यवार्त धूर्तधुराशिक्षणविचक्षणं विटलोकमेव विदग्धमतिस्निग्धं च विभाव्य स्वगात्रं स्वकलत्रं स्ववित्तं स्ववृत्तं च तदधीनं विदधाति पिदधाति च सुजनसमागमनद्वारम् । एवंविधदुःशिक्षाबलेन स्वचापलेन च राजसूनवः प्रायेण प्रागेवाविनयं पश्चात्तारुण्यं पुरस्तादेव जाड्यं तदनन्तरमभिषेकं पूर्वमेवाहंकारं तदनु सिंहासनाध्यासनं पुर एव कौटिल्यं ततः किरीटं च भजन्ते । भव्योत्तम , भवांस्तु तथा यततां यथा विबुधसेवाप्रशस्तामस्तमितामनस्यामभिवर्धितसौमनस्यामप्रार्थितागतजागरामचलामतुलां च वृत्तिमञ्जसा कल्पयितुं प्रगल्भेत , सौजन्यसागरप्रभवेण प्रत्युपकारनिरपेक्षवृत्तिना मर्त्यमात्रसुदुर्लभेन पुरोपार्जितसुकृतफलेन सुजनवचनामृतलाभेन सुचिरं तुष्टः पुष्टश्च भविता" इति ।
एवंविधैर्गुरुवदनतुहिनसानुमत्संभूतैरम्बरसारदम्भःसंभारैरिव सारैरतिगम्भीरैरुदारैर्मधुरैर्विचित्रैरतिपवित्रैर्वचोभिः कुरुकुलकुशेशयाकरभानोः सूनोः स्वान्ते नितान्तनिपुणवाणक्प्रवेकविहितवेकटकर्मणा मणाविव निसर्गनिर्मले निर्मलतरीभवति ' भवत्ययमस्माकं परगतिसाधनानुकूलः कालः' इति विचार्यार्यनन्द्याचार्यः स्वहृदयगतं हृदयविदां प्राग्रहराय जीवकस्वामिने सानुनयं समभ्यधत्त । पुनरयमपुनरावृत्तिप्रयाणपिशुनवचनपविपतनेन पन्नगपतेरिव विपन्नस्य जीवककुमारस्य निष्प्रतिक्रियतया बाष्पायमाणवदनजुषः प्रेमान्धस्य गन्धोत्कटप्रमुखबन्धुसमाजस्य च सीदतः प्रव्रज्याप्रेरितमतिः प्रसभं व्रजन्पञ्चानन इव पञ्जरपरिभ्रष्टः प्रहृष्टमनास्तपोवनमवगाहापोह्य बाह्येतरपरिग्रहान्स्वाविग्रहेऽपि निरस्ताग्रहः समस्तदुरितध्वंसनदक्षां जिनदीक्षां भजन्भगवतः पश्चिमतीर्थनायकस्यापश्चिमसौख्यसंपादनशील श्रीपादमूलं मूलबलीकृत्य मूलोत्तरभेदप्रभेदविशिष्टचारित्रभृ
Page #57
--------------------------------------------------------------------------
________________
गद्यचिन्तामणौ
तकबलपुष्टः कर्माष्टकरिपुराजसमष्टिं समूलकाषं कषन्कर्मारिनिर्मूलनप्रलयविधानातिशयमिलितपर्जन्यप्रमुखनिर्जरपरिषत्परिकल्पितपरनिर्वृतिमहोत्सवपुरःसरं सारगुणोत्कर्षपक्षपातिपरमशुक्लध्यानाभिवानध्यानोत्तमप्रदत्तां लयपराचीनपरमानन्दवितरणविदग्धामविदग्धमुक्तां मुक्तिश्रियं शिश्रिये ।
ततश्च तस्मिन्प्रसववेदनानभिज्ञमातरि निरर्थकाव्यक्तवचःश्रवणचरितार्थश्रोत्रदूरोज्ज्ञितपितरि निमेपोन्मेषनिरपेक्षनेत्रे लोकद्वयहितोपदेशिमित्रे बहिश्चरापरजीविते गुरौ तपस्योद्यते गते सति जातमपि शोकजातवेदसं तत्त्वज्ञानजलैर्निर्वाप्य गुणगणगरीयसा कनीयसानन्योपास्यैर्वयस्यैश्च समं वसुंधरायां सौन्दर्यवीर्याभ्यां मार इव कुमार इव च जीवककुमारे वारयुवतीनां पौरवृद्धानां च हृदि स्वाङ्गारोहणोपलम्भसंभावनाहृष्टानां करिरथतुरगप्रष्ठानां पृष्ठेषु च सदा निवसति तदवसरे प्रस्तुतमुच्यते । -
. अथ कदाचिदचलमचरममारूढवति भानुमति विधाय विधेयमहर्मुखसमुचितमहमहमिकापतदवनिपतिकिरीटरत्नकिरणनीराजितं राजविजयवर्णनचतुरचारणमुखरितहरितमनिलचलितकदलिकाकलापममलदु - कूलवितानविलसदुपरिभागमुद्गच्छदतुच्छमरीचिनिचयनिचुलितमणिस्तम्भमास्थानमण्डपमधिवसन्तं समीपगतवारवामलोचनाचालितचामरमरुदान्दोलितकुन्तलकलापमुलुसदाभरणमणिमहःप्रसरकञ्चकितसकलकाष्ठं काष्ठाङ्गारं धरणीपतिमकुटतटप्रहारजर्जरितशिखरेण निजाधिकारलक्ष्मीलताधिरोहणविटपेन वेत्रदण्डेन चण्डिमानमुद्वहन्प्रदर्शितमुख विकारः प्रतीहारः प्रविश्य सप्रश्रयं प्रणम्येदं व्यजिज्ञपत् - "देव, देवभुजपरिघपरिपालितपर्यन्तेषु कान्तारेषु तरुणतृणचरणरसाकुलं गोकुलमापत्य कुतोऽपि दिगन्तरालादविरलशरासारशकलितगोवपुषः परुषवचसो नाफला बलादाहृत्य गता इति प्रतीहारस्थाने स्थिताः, प्रोतोद्धृतोभयपाणितलप्रणयिपलत्रवशदण्डाः कुञ्चिताग्रचरणस्पृष्टमहीपृष्ठा द्विगुणतरदीर्धीकरणतनुतरशरीराः
Page #58
--------------------------------------------------------------------------
________________
द्वितीयो लम्बः ।
परनिवेदनभयचकितशबरैः शाखासु बद्धकराः प्रलम्बिता इवानुकम्प्यमानाः प्रम्लानवदनसूचितान्तःशोकप्राग्भाराः , प्रजृम्भमाणोत्थितस्थूलसिराजालजटिलितवपुषः , प्रकामविवृतास्यक्षरल्लालाजलापदेशेन पीतमपि पयःपूरममन्दस्वान्तसंतापादुद्रुमन्त इव जुगुप्स्यमानाः केचन गोदुहः क्रोशन्ति" इति । तथा शंसत्येव तस्मिन्नश्रुतपूर्वेण श्रवणकटुकतद्वचनेन धरणीपतिः फणिपतिरिव फणामण्डलप्रहारेण प्रज्वलितकोपाग्निः , सत्वरोन्नमितपूर्वशरीरः, सुदूरोक्षिप्तवैकक्ष्यताडितोरःकवाटः, सोष्मस्थूलनिःश्वासतरलितवक्षःस्थलः संधुक्षयन्निव हृदयगतरोषाशुशुक्षणिम् , अतिमात्रगात्रभञ्जनत्रुटितोरःस्थलहारविनिर्गलदविरलमुक्ताफलप्रकरण प्रयच्छन्निव समरदेवतायै प्रसूनाञ्जलिम् , ललाटघटितभयावह कुटिश्चापमिव स्वयं समराय दधत् , तीक्ष्णनिपातेन निरीक्षणपुङ्खिना पुरोऽवस्थितपुलिन्दसंदेहादिव प्रहितेन वित्रस्तपरिजनेन परिहृतपुरोभागः, प्रसर्पतः परितः प्रचुररोषलोहितलोचनरोचिषो मध्यमध्यासीनः क्षीबक्षीदियोचितनिजप्रतापक्षयमक्षमः सोढुमग्नौ निमग्न इव लक्ष्यमाणः, श्रमजलबिन्दुदन्तुरशरीरयष्टिरन्तस्तापशमनाय स्नातोत्थित इव भासमानः, क्षणादतिपरिचितैरपि पावचरैस्तदानीमन्य इवामन्यत । नातिचिराच्च नर्तिताधरपल्लवनिर्यातारुणकिरणव्याजेन प्रजानुरागमिव प्रदर्शयन् ‘प्रहीयतां तत्र दण्डः ' इति भाविपरिभवपिशुनाशनिपतनसंदेहदायिना धीरतरेण स्वरेणादिश्य सौविदलं प्राहिणोत् । प्रतिलब्धप्राणेनेव भीतिकम्पितवपुषा प्रस्खलद्वचसा त्वरिततरमुपसरता दौवारिकेण निर्वेदितकाष्ठाङ्गारनिदेशैश्चमूपतिभिश्चोदिता चमूश्चटुलतरचरणन्यासभारेण निबिडोच्छ्रितनिशितकुन्ताग्रेण परितःप्रसपदसिमुखेन च नमयन्ती भुवमुन्नमयन्ती दिवं विस्तारयन्ती च दिशं प्रतस्थे । प्रस्थाय च प्रसभं प्रयान्ती च वाहिनी गोधनावस्कन्दितस्करां. स्तिरोधायोपसृत्य ग्रहीतुमिव खरतुरगखुरशिखरोत्थितपरागपटलपटेन,
Page #59
--------------------------------------------------------------------------
________________
गद्यचिन्तामण
कृतावगुण्ठनासीत् । निरयासीच्च पुरः पुलिन्देभ्यः प्रकटयितुमिवास्याः कापटिकवृत्तिं निर्जितपर्जन्यगर्जितगाम्भीर्यः कलकलध्वनिः । तदुपदेशवशविदितवृत्तान्तस्य शबर सैन्यस्य संनाहः संभविष्यतीत्याशङ्कया शुतरपिशुनशकुन समुदीरितभाविपरिभवभीत्या च वरूथिनी रथकड्यावलनवजनितचीत्काररवेण करिकरटतटनिर्यन्मदधारास्त्रपिहितस्थालिका प्रतिकूलवातकम्पितध्वजभुजलताताडितकेतुयष्टिवक्षःस्थलप्रदेशा भृशमिवारोदीत् । ततः क्षणादेवाभ्येत्य काष्ठाङ्गारचमूः काकपङ्किः शृगालमित्र स्वीकृतामिषमपहृतगोधनं व्याधसाथै रुरोध । तदवलोकनजात क्रुधश्चमरवालरोमरचितरज्जूकथित केशपाशाः केकिपिञ्छांरचितमुण्डमाला व्याघ्रचर्मनिर्मितार्धोरुका वराटिकाभरणभूषितवपुषः परिगृहीतपादुकाः समारोपितकार्मुका: पुरस्कृताभ्यर्थितचण्डिकाः कण्ठदघ्नपीतमधुमदलालसाः शबरीजनप्रयुक्ताशिषः प्राप्तानुगुणनिमित्तप्रशंसिनः प्रकामव्यात्तास्यभीषभाषणस्वनस्त्यानडिण्डिमशृङ्गवप्रकटितप्रस्थाना: काष्टाङ्गारबलमपरकाष्ठागतदिनकरमित्र तिमिरनिकराः प्रतिगृह्य शिततरभलैः फुलैरिव पुलिन्दाः समरदेवतामाराधयितुमारेभिरे ।
४८
अथ सुभटनटनाटयितव्यरणनाट्यरङ्गपटहपटुतररटितसदृक्षपक्षद्वयतुमुलसमाहूतविलोकनकौतूहलिनि निर्दयाकृष्टिप्रभववेपथुसहनाक्षमधनुराक्रन्दितानुकारिभीषणज्याघेोषणश्रवणमात्रत्रस्त मृगयूथ सब्रह्मचारिंभटब्रुवमृग्यमाणप्रयाणाध्वनि ज्याकर्षणबलभावितश्रवणमूलाभ्यागमसंपादितसंदेशहर संदेह हृदयभेदन चतुरशरनिवहविहितगमागमे मुषितजीवितसायकगवेषणमनीषा च्छलानुपतत्पदातिप्रचयप्रच्छादिताहवभुवि प्राक्तनहननसंधाभिपतदुपरतकरधृत करवालदारितप्रत्यर्थिनि परुषतररोषदष्टोष्ठप्रेत मुखरौक्ष्यवीक्षणभयापकामत्क्रव्यादिपर्यायप्रवृत्तोभयबलविजयघोषहर्षितप्रहर्तृके करिघटापाटनस्फुटितमुक्ताफलतुलितास्तोकश्रमजलकलित हस्तवति भूरि
-
Page #60
--------------------------------------------------------------------------
________________
द्वितीयो लम्बः ।
४९
तिरीफलधृतयथावस्थितवाजिनि शिलीमुखविद्धमुखविनियंदविरलरुधिरधारापुनरुक्तसिन्दूरितद्विरदवपुषि निहतनियन्तृकतुरगोपनीतरथहरणलोलुपप्रतिबलकलकलरवमनोहारिणि काकपेयशोणितापगाप्रवाहप्रशमितरणरजसि परिभवनिरसनपरसमरदैवताभिमुखप्रतिशयितदेशीयशरशयनशायियोधके युद्धे केशाकेशितया प्रसजति तद्दशायाम् ' स्वदेशगतः शशः कुअरातिशायी ' इति किंवदन्ती यथार्थो कर्तुमिच्छया वा तुच्छेतरजीवककुमारपराक्रमविषयस्य भावितया वा नाफलबलनिष्ठुरहुंकारभीतः काष्ठाङ्गारवाहिनीनिवहस्तिमिरपरिभूतः पश्चिमदिगङ्गनासंगतपतङ्ग इव प्रतापपरामखः प्रतिसंहृतकरव्यापृतिरपसर्तुमारभत ।
अथ गोधनेन समं यशोधनमपि व्याधेभ्यो विधाय निष्क्रयं निजनारीनयनाभिरामं तिरीफलमूरीकृत्य प्रतिनिवृत्य यथेष्टं काष्ठाङ्गारचमूर्टढतरकरमुष्टिव्याजेन वनचरभीत्या प्रयाणाभिमुखान्प्राणानिव पाणौ कुर्वती प्रविधूतमानभरतया लब्धलङ्घनलाघवेव सत्वरं धावन्ती तपस्येव कुपथगामिनी सामप्रयुक्तिरिव शठजनगोचरा परिश्रममात्रफला सती स्वगृहानतिसंभृतमाससाद । प्रससार च राजपुर्या राजबलचापल्यविषयः संलापः । ततः शबरप्रार्थितं पार्थिवबलमाघ्रातव्याघ्रगन्धमिव गोकुलममन्दावर्तमन्थेन दधीव मध्यमानं शिथिलीबभूव ' इत्यभिषङ्गविधुरैराभीरैरुदीरितमाकर्ण्य घोषवर्तिनि च महाघोषपरिपूरितहरिति वेपथुभरविह्वलकरतलताडितवक्षसि तारदारुणरोदनकर्शितानुधावत्तुकि वात्सल्याश्लिष्टवत्समुखाकृष्यमाणनिजकुचनिशामनपुनरुक्तशुच्यूधस्योत्सुकवत्स - गलविगलदर्धग्रस्तस्वनश्रवणासहिष्णुतापिहितश्रवासि विवेकविकलबालोप. लालनक्लेशताम्यददम्यदशाप्रेक्षणाक्षमताप्रच्छादितचक्षुषि मातृविरंहविघूर्णमानतर्णकप्रेमप्राग्भारप्रस्नवितनिभमथितदधिबिन्दुदन्तुरपयोधरे पारवश्यविलोठितस्थालीमुखनिर्यदूधस्योदश्विदाज्यदधिपङ्किलस्थलपरिस्खलत्पदे
Page #61
--------------------------------------------------------------------------
________________
५०
गद्यचिन्तामणौ
हृदयपरिस्फुरत्परितापविस्फूर्जितप्रशमनाभिप्रायप्रयुक्तमुक्तासंदेहदायिबाष्पबिन्दुसंदोहसंकलितवक्षसि शोकधूमध्वजधूमदेशीयशिथिलितोद्गतशिरोरुहशिरसि धूलीधूसरितवाससि कारुण्यावहवचसि प्रार्थ्यमानगभस्तिमालिनि प्रणम्यमानगृहदैवते पृच्छयमानदैवज्ञजने गोधनाजीविनि गोकुलापायेन पर्याकुलीभवति गोपालयुवतिजने, घोषवृद्धेष्वपि कर्तव्यमुग्धेषु महाराजसत्यंधरस्य स्मरत्सु — पुरा खलु पुरस्क्रिया)पायनपरिबर्हपुरःसरोपस्थितमुखप्रसादार्थिपार्थिवमकुटचूडामणिमरीचिवारिधारोन्मार्जितचरणराजीवरजसि राजनि राजति राजन्वती वसुधेयमकुतोभया वर्तेत । तस्मिन्नस्माकं गर्भभरवहनक्लेशानभिज्ञमातार जन्महेतुतामात्ररहितपितरि प्रतिषिद्धसिद्धमातृकोपदेशक्लेशगुरौ लोकद्वयहितनिर्वर्तननियतबन्धौ विद्रावितनिद्रोपद्रवनेत्रे शरीरान्तरसंचारिजीवित उदन्वदजातपारिजाते चिन्तानपेक्षितचिन्तामणौ विदितास्मत्कुलक्रमागतौ भक्तावबोधिनि भृत्यजनप्रिये व्रजप्रजारक्षणदीक्षिते शिक्षाप्रयोजनदण्डविधौ दण्डितारातिमण्डले मण्डलेश्वरे विनश्वरविषयाभिलाषविषवेगाददीर्घदर्शिनि दीर्घनिद्रामुपेयुषि पुनरप्यसुभिरवियुक्तैरस्माभिः किमेतावदनुभवनीयम् ' इत्याधिक्षीणेष्वाचक्षाणेषु , शाकुनिके च प्रवयसि जने वदति ‘वायसोऽयं सुस्वरः शबरा-- वस्कन्दितमधुनैवास्मदर्धानं भविता गोकुलमिति निराकुलमाचष्टे । मा भैष्ट यूयम् ' इति कष्टां दशामासेदुषः कारुणिकदुरुत्सहालापान्गोपानापदो गोपायिता गोपालग्रामणीनन्दगोपो नाम नन्दितकोविदः संतापमयकायः कोऽयमिह गोधनप्रत्यानयनकर्मण्युपायः । प्रायेण प्राणभृतां भागधेयविधेये सत्यप्यशुभोदये सहायतां तत्र प्रतिपद्यत एव प्रयत्नोऽपि । तस्मिन्नपि दुष्कृतबलेन फलेन बहिष्कृते प्राप्तेऽनुद्वेग आत्मवताम् ' इत्यमोघमतर्कयत् । अताडयच्च कटके - विजित्य विपिनचरान्गोधनमस्मभ्यं प्रतिपादयितुं प्रभवते कृतहस्ताय दीयेत मे कल्याणिनी कन्या क
Page #62
--------------------------------------------------------------------------
________________
द्वितीयो लम्बः ।
ल्याणमयसप्तपुत्रिकाभिः साकम् ' इति गोसंख्यप्रकाण्डो डिण्डिमम् । ततस्तथाविधमेतमुदन्तमुपश्रुत्य ' शबरविजये कः शक्तः शस्त्रोपजीविषु । किमस्ति मस्तकमणिं फणिपतेरपहर्तुं समर्थो जनः । को नाम पञ्चजनः पञ्चाननस्य वदनादामिषमाप्तुमभिलषति । अस्ति चेदमुष्मिकर्मण्यलंकर्मीणः कामं लभेत कन्यामन्यच्च ' इत्यब्रुवन्भटब्रुवाः । ' हा कष्टम् । निकृष्टमिदं गार्हस्थ्यं कृत्यम् । तथाहि-दारियादपि धनार्जने तस्मादपि तद्रक्षणे ततोऽपि तत्परिक्षये परिक्लेशः सहस्रगुणः प्राणिनाम् । ततो हि सुधियः संसारमुपेक्षन्ते' इत्यनुप्रेक्षामातेनुरात्मविदः । पराजितराजन्यसैन्यं वन्यं जनमन्यः को भवेदभिभवितुम् । अभियुक्तो नास्तीति वा निर्णेतुं कथं पार्यते । विस्तीर्णेयमर्णवनेमिः । अस्तोकशक्तिरस्तु वा यः कश्चन हस्तवतामग्रेसरः । पाटितानेकभटां कारघटां हरिरेक एव किं न विघटयति ' इति विचारचतुरमाचचक्षिरे विचक्षणाः।
जीवकस्वामी तु स्वामित्वेन वा भुवनस्य स्वभावत्वेन स्वकलत्रमिवामित्राधीनं गोधनं मेने । वितेने च संगरम् ' न चेदहमशरणानां शरण्योऽस्मि स्वामिद्रोहिणां धौरेयोऽस्मि' इति । आसीच्चास्य योगपद्येन श्रवास तदुदन्तश्रुतिर्मनसि रोषाग्निर्वचसि डिण्डिमनिरोधो ललाटे भ्रूकुटिश्चक्षुषोस्ताम्रता वपुषि स्वेदबिन्दुः सारथौ कटाक्षपातश्चरणयोः प्रयाणतूर्तिर्धनुषि निषङ्गेऽपि करयुगं चेति । प्रतस्थे च सात्यंधरिर्जात्यनुगुणगुणकण्ठोक्तराजकण्ठीरवभावः सदा संगतैरसंकटखेदिभिरवस्थावेदिभिरनारोपितवैयात्यैराफलोदयकृत्यैरतिदूरप्रेक्षिभिरपथोपेक्षिभिरखिलगुणसनाथैरात्मीयमनोरथैरिव वयस्यैरमा रथमारुह्य पल्लिमभि प्रतिमलजिगीषया । ततश्च तस्मिन्पवनेनेव पवनसखे सखिजनवृन्देन भूभृन्नन्दने विपिनेचरविपिनदिधक्षया तीक्ष्णतेजसि प्रस्थाय तरसा प्रयाति, भाविविजयविवरणचतु
Page #63
--------------------------------------------------------------------------
________________
गद्यचिन्तामणी
रेण सहचरेण समीरेण समर्पितरंहसीव रथे मनोरथादपि जविनि व्रजति, तथाविधरयधावत्स्यन्दनचक्रस्य वक्राभिघातेन भूभृतां चक्रे शक्रातिशायिशक्तिप्राग्भारकुमारनिरीक्षणभीत्येव प्रसभं प्रकम्पमाने , प्रह्वीभावविमुखेषु शाखिषु शत्रुष्विव सद्यः समुद्धृतेषु , समुत्पाटितविटपिविलोकनभयचकितचेतसि चलितशिरसि प्रसूनापीडं सनीडभवदितरभूरुहनिकरे वितीर्य किसलयाञ्जलिबन्धेन प्रकामं प्रणमतीव प्रेक्ष्यमाणे, क्षीणप्रायप्राणानां निषादानां विषादं वितन्वदशुभचिह्नमहाय मुहुर्मुहुराविरभूत् । प्रादुरभूच्च भूरितरवल्लीवितानां पल्लीमभ्येत्य पल्लविततेजाः पर्याकुलितपाकसत्त्वः सत्वरसारथिचोदितरथधुर्यतुरगप्रष्टः काष्टाङ्गारबलाविक्षेपक्षीबाणां क्षेपीयः प्रतिसरतां वनौकसां पुरः खमणिरिव वीरचूडामणिः कुमारः। पुनरकरोच्च तेषामयमधिज्यधन्वा श्रवसि ज्याघोषमुरसि शरासारं मनस्यावेगं चक्षुषि वेगविक्रमविजितालातचक्रेडयां रथकड्यां च । एवमस्मिन्वीरदिनकरे व्यापारितकरे युगपदेव व्योमव्यापिभिर्वलक्षीकृतदिङ्मुखैः शिलीमुखैर्मयूखैरिव खण्डितैरन्धकारपिण्डैरिव गोधनलुण्टाकानां शिरोभिरधोऽवतीर्णैरास्तीर्णायामरण्यभुवि , बालातपौव इव कूलंकषे प्रवहति शोणितसार प्रवाहे, तमःस्तोम इव निहतध्वस्तावशिष्टे पापिष्ठजने निजशौर्यधनेन गोधनमुत्सृज्य गिरिगह्वरमाश्रिते , विश्रुतवीरः कुमारोऽपि — मारितैः किमेतैर्मुधा कार्ये सिद्धे सति । कामं यान्तु काका इव वराकाः' इति विचार्य निजशौर्यानुकूलं पलायमानविपिनेचरविशसनाद्विगतसंरम्भ आसीत् । पुनरशरणशरण्योऽयमरण्यान्याः प्रतिनिवृत्य प्रतिलब्धजीवितानां गोधनाजीविनामुच्चावचां प्रीतिवाचमुपशृण्वन् , विदारितद्विरदनखरायुधनखरादात्तैरवशिष्टासुप्रणयिशबरदत्तैर्मुक्ताप्रकरिव रणलक्ष्मीसंभोगसंभवामन्दस्वेदबिन्दुभिरलंकृतवक्षःस्थलः, मरुदान्दोलितककेलिकोमलप्रवालैर्विपिनदाहिविपिनेचरजीवितहरणतृप्तवनलक्ष्मीवितीर्णैः
Page #64
--------------------------------------------------------------------------
________________
द्वितीयो लम्बः
"
प्रकीर्णकैरिव वीज्यमानः, खरतररथतुरगखुरपुटखननसमुद्भवदविरलधवलधूलीमण्डलेन चण्डांशोरंशुमभिभावकेन भाविपतिवत्सलधात्री समर्पितधवलातपत्रेणेव समेतः, प्रथमतरोदयसंरम्भसाफल्यपल्लवितरागैरनारतमजहद्वृत्तिभिरंशैरित्र मित्रैर्मित्र इवांशुभिर्मुषितदोषास्पदराजदीप्तिः, निष्प्रत्यूहसमीहितसिद्धेरध्वानमन्तरालबहुलं लङ्कयन्नप्यविदितपरिश्रमः क्रमेण पराक्रमकराकृष्ट्याभ्युद्गच्छतां पुरौकसामतुच्छरभसाङ्घिसंघट्टकैः काश्यपी - पृष्ठे काष्ठाङ्गारं च कम्पयन्कटकनिकटमाटीकते स्म । पुनः पराक्रमपुनरुक्तप्रेक्षणीयं पुराभ्यन्तरमाश्रयन्तं वीरश्रियाभिनवपरमादरादा लोकयितुमागतम्, आगमनपारवश्येन त्रस्त केशहस्तविन्यस्तवामहस्तम्, हस्ताङ्गुलिनखमयूख पुनरुदीरितचिकुरपल्लवापीडम्, शिथिलित नीवीप्रदेश निहितापरपाणिपल्लवं पल्लवितरागादागतं कामिजनहृदयमित्र करेण गृह्णत्, ईषदवगलितकुचांशुकं कुचकुम्भकुम्भिनो रतिरणसंरम्भाय विघटयदिव मुखपटम् विद्रावितविद्रुमच्छविना दन्तच्छदरागेण हृदयान्तर्गतरागप्राग्भारमिव प्रदर्शयत्, धवलितपुरोभागं सौभाग्यचन्द्रचन्द्रिकोदयमिव मन्दहसितममन्दादरादाचारलाजनिकरमित्र विकिरत्, समारोपितचारुतरथूलताचापं लक्ष्यभेददक्ष तीक्ष्णकटाक्षशरमोक्ष चतुरमबलारूपमनङ्गबलमसंख्यं प्रतिप्रदेशं प्रत्यदृश्यत । तदपि दर्शनप्रसादेन परितोषयन्नु लोकहर्षलोकलोचनमनोभिरनुगम्यमानः परार्ध्यजन्मायं परिकल्पितानल्पमङ्गलार्हपरिबर्हविराजितं निजभवनमासाद्य सद्यः समुपसृतपद्ममुखप्रमुखदत्तपाणिः पाणौ कुर्वन्निव प्रभावश्रियं शिलोच्चयादिव केसरिकिशोरः स्यन्दनादवरुरोह | प्रणनाम च सविनयं पितरं मातरं च प्रेमसंभारेण । संभावयामास संमुखमागतं गाढालिङ्गितेन प्रौढवचसा मुग्धहसितेन स्निग्धनिरीक्षणेन शिरःकम्पनेन करप्रसारेण च यथाप्रधानं प्रथमानहृदयबन्धं बन्धुवर्गम् । पुनर्निसर्गचतुरप्रणामाञ्जलिं पुरः पुञ्जितं नियुञ्जानः स्यन्दनयुग्यांश्च विश्र -
५.३
"
Page #65
--------------------------------------------------------------------------
________________
गद्यचिन्तामणौ
माय प्रश्रयशालि परिजनं विशन्वेश्मोदरमादरकातर्यादुदश्रुमख्या प्रस्नविन्या जनन्या निर्तितनीराजनविधिरारुरोह हृच्छल्यविधानेन विद्विषां प्रेमबन्धेन बन्धूनां लावण्यातिशयेन पण्यनारीणां गुणगरिम्णा गुणलुब्धानां हृदयं सविलासनिवासेनासनस्य मध्यं च । ___ अथ प्रथितयशसा तेजसां निधिना पुत्रेण पवित्रतपसां योग्यादहं कुतो भाग्यात्पुत्रवानस्मीति विस्मयस्नेहमुखरे पितार, वितर्कयति कथमुदर्कः स्यान्निसर्गवीरकुमारवीर्यस्येति विचारनिष्ठे काष्ठाङ्गारे , प्रतिदिशं प्रतिदेशं प्रत्यगारं च कुरुकुलशिखामणेः कुवलयकुटीरसंकटनिवासनिबिडिताभोगां भोगावलीमपलालयति बाले जरति यूनि च जने , रामभद्रमिव भ्रात्रा प्रलयसमयमिव मित्रमण्डलेन महीध्रमिव वंशजातेन चन्द्रमसमिव सद्भिः सकलगुणनिकरपरिपूरितैर्वयस्यैः परिवृतं कुमारमभिवन्द्य नन्दगोपः स्वसंतानस्य पुरातनतां राजकुलकुलभृत्यतां च पुरातनषण्मुखमुखविशिष्टानामविशिष्टजातिजाताङ्गनासंगमसंकथां च कथयन् ‘भवद्विहितनिर्हेतुकोपकारस्य प्रत्युपकारमपश्यता मया दिश्यमानां परिणयतु मे कन्याम् । न मन्येतान्यत्' इति सदैन्यमयाचत । स च कुरुवंशनभोंशुमाली नीचकुलललनासंपर्कमविवेकिवर्गसुलभमाकलयन् ' अलमत्यर्थमर्थितया । माम, यथाभिमतम् ' इति स्वमतानुरूपमुदीरयामास । स च तावता तुष्टो गोपप्रष्ठस्तद्वचनमाकर्ण्य सुखार्णवे निमज्जस्तर्णककुलचर्विताग्रदूर्वागुच्छशबलितोपशल्यं निःशल्यः प्रविश्य गृहं गृहिण्या अप्यनया वार्तया प्रवर्तयञ्श्रवणोत्सवं दुहितृकल्याणमहोत्सवे महान्तमकुरुत संरम्भम् । अथ प्रथमानवीयधनकुमारसंबन्धेन गोधनोपलम्भादपि शंभरसंभ्रमैर्गोसंख्यानां मुख्यस्य गुणैः प्रवृद्धे द्विगुणितीत्सुक्यजनविहितविवाहोत्सवकर्मणि प
वितरागवल्लुवरामाकरपल्लवसर्पकपुनरुक्तरागरक्तमृदुपलिप्तभित्तौ रम्भास्तम्भशुम्भितद्वारि समर्दविघटितघटघटाप्रवहदूधस्याज्यदधिकर्दीमतभुवि
Page #66
--------------------------------------------------------------------------
________________
द्वितीयो लम्बः ।
हरितगोमयोपलिप्तस्थलनिष्पादितदम्यशष्पाङ्करतृषि कोलाहलक्षुभितवत्सवात्सल्याकुलकुण्डोनीकुण्डलितविषाणकोटिविघटितजनविमर्दै गोसंख्यमुख्यावासे स्नातानुलिप्तामलंकृतविस्मितामालोक्य विस्मयस्मेरमुखाभिर्वल्लववल्लभाभिः 'अस्या वल्लभ एनां केन सुकृतेन क्षीरमधुरामपनीतनवनीतमार्दवाडम्बरां तदात्वद्रुतसर्पिःसंकाशकायकान्ति मुकुलितयूथिकामुकुलधवलिमसौकुमार्यदन्तपङ्क्षि निर्वासितवायसकालिमकचपल्लवामुद्भिद्यमानवृषककुदोपहासिकुचयुगलामनुभोक्तुं लब्धवान् ' इति व्यक्तमुपलाल्यमानां गोदावरीदुहितरं गोविन्दामानीय नन्दगोपः कुमारकरकमले वारि समावर्जयत् । कुमारोऽपि ' अमुं मामेव गात्रमात्रभिन्नं मन्यस्व' इति वदन् ‘पद्ममुखाय' इति पयोधारां पर्यग्रहीत् । पद्ममुखस्तदनु गोविन्दां प्रदक्षिणभ्रमणपिशुनितशुभोदर्कार्चिषः सप्तार्चिषः संनिधौ तदीयपाणिपल्लवस्पर्शपल्लवितरागस्तां पर्यणैषीत् ॥
इति श्रीमद्वादीभसिंहसूरिविरचिते गद्यचिन्तामणौ
गोविन्दालम्भो नाम द्वितीयो लम्बः ।
Page #67
--------------------------------------------------------------------------
________________
गद्यचिन्तामणौ
तृ ती यो ल म्ब :।
___ अथ परिस्फुरत्पङ्केरुहभङ्गिभासुरमुखे पद्ममुखे पवनसखसाक्षिक सानन्देन नन्दगोपेन दत्तामिन्दुमुखीं गोविन्दां परिणीय निजावर्जननैपुणपरिहृतपङ्कजशशाङ्कपरस्परविरोधपुनरावृत्तिशङ्कयेव तया सह सदा संगते रममाणे गोविन्दारमणे, वीरश्रीजीवितेश्वरे जीवककुमारेऽप्यनुदिनम् 'अनु जीवककुमारं वीर्यवन्तः शौर्यशालिनो मान्या वदान्याः प्राप्तरूपा अभिरूपाश्च' इति गुणलुब्धैरभिष्ट्रयमानगुणराशौ राजति , राजपुरीवास्तव्यः समस्तगुणशेवधिरनवाधिकश्रीः श्रीदत्तो नाम वैश्योत्तमो वित्तोपचये व्यासक्तमतिरेवं व्यचीचरत् – 'अस्मपितृपितामहादिभिरर्जितमस्तो. कमस्ति चेदपि वस्तु स्वहस्तार्जितमिवोन्नतचित्तस्य न चित्तप्रसादमावहति । आवहतु वा । कथं तदायरहितं धनमव्ययं स्यात् । शश्वदुपभोगे गिरिरपि नश्यतीति जनवादश्रुतेः । वीतवित्ततायाश्च किमपरमरुन्तुदम् । असुभृतां हि दारिद्र्यमसुभिर्युक्तं मरणमशस्त्रसंपाद्यं हृच्छल्यमनात्मप्रशंसनं हास्यतानिदानमनाचारपरिक्षय उपेक्षाहेतुरापत्तोद्रेकजमुन्मादान्ध्यमक्षपास्फुरणममित्रतानिमित्तम् । किमपरमुदीर्यते । रिक्तस्य न वचो जीवति , नाभिजात्यं जागर्ति, न पौरुषं परिस्फुरति , न विद्या विद्योतते, न शीलमुन्मीलति , न शेमुषी समुन्मिषति , न धार्मिकता संभाव्यते, नाभिरूप्यं निरूप्यते , न प्रश्रयः प्रशस्यते , न कारुण्यं गण्यते , पाक: पलायते , विवेको विनश्यति , किमन्यन्न भ्रश्यति । धनोपचये तु लोकद्वयोचितपुरुषार्थोऽप्यप्रार्थित एव स्वयमायाति । ततो यतितव्यं वित्ताय' इति विचारानन्तरमखिलान्तरायध्वंसनकृते कृतजिनसपर्याविधिविहितवि
Page #68
--------------------------------------------------------------------------
________________
तृतीयो लम्बः ।
५७
विधपात्रदानो यानपात्रमारुह्य रत्नाकरमगाहिष्ट , न्यवर्तिष्ट च निखिलद्वीपोपचितनिःसीमवसुराशिः , अशिश्रियच्च पारावारस्यावारपर्यन्तम् । '
अत्रान्तरे नितान्तजवनपवनपथप्रापितपयोधिपयःसंभारस्थलावशेषितरत्नाकररत्ननिकरैस्तारकितमिव तारापथमधः प्रकटयन्स्फाटिकदण्डाकारनीरधारावलिधारासंपातः समाविरासीत् । पुनरुपर्युपरि प्रचुरतरीभवदासारेण स्फाररयेण समीरेण समुल्लासितसलिलनिधिकल्लोलकरास्फालनबलदलितदिनकृतीव तिमिरनिचये सूचीमुखनिर्भेद्ये सति , मन्देतरपरिभ्रमणमन्दरमन्थमथनेनेव पूर्णमाने भृशमर्णवार्णसि , प्रपञ्चतरीभवप्रभञ्जनभञ्जनजनितजलनिधिकल्लोलनूतनशोणितकणपुञ्ज इव रञ्जितसनीडे पाटलविद्रुमलतापटले प्लवमाने , चटुलाचलपाटनपाटवस्फुटितपयोधिस्फीतास्थिसंघ इवासंख्यशङ्खनिवहे प्रेवति , विशृङ्खलतोयाशयशोकफूत्कार इव श्रूयमाणे भीकरलहरीप्रहाररवे , निघृणसमीरणपीडितनीरधिरोषकृपीटयोनाविव बाडबानले परिस्फुरति , स्फीतबलान्धगन्धवहप्रतिग्रहणप्रवण इव जवनजलनिविजलवेणीप्रयाणे प्रेक्ष्यमाणे , प्रतिसरत्सलिलवेणीबलसमीपसंचारिणि चामरवितान इव बहलधवलफेनजाले प्रचलति , तुच्छेतरपयोराश्यावर्तगर्ते पयोदबृन्द इव पयःपूर्णे घूर्णमाने यानपात्रे , कर्णधारवदनग्लानिकण्ठोक्तपोतविनाशविनिश्चयेन निश्चेतनगावान्यानपात्रप्रध्वंसनात्प्रागेव प्राप्तशोकसागरान्नाविकानालोक्यायमीती जिनशासने स्वयमपगताविरपास्तसकलसङ्गश्च भवन्सांयात्रिकः श्रीदत्तो दत्तहस्तावलम्बन: 'किं बत , बालिशा इव भवन्तः क्लिश्यन्ते । किं वा क्लिश्यमानान्न दैवतं क्लिश्नाति । न वा क्लिश्नातु तथाप्यापदागामिनीति मनसिकृत्य शोकवशीभवञ्जनः स्वयमेवात्मानमास्तां भवान्तरे तदात्व एव विपदा घटयति । सर्वकषविषादादविषह्या विपदपरा का भवेत् । अतो न विापादः कार्यः । किंतु धैर्यमविलम्बितमवलम्ब्यताम् । धृतिमन्तो हि
Page #69
--------------------------------------------------------------------------
________________
गद्यचिन्तामणौ
निजोपान्तगतां पीडामेव पीडयन्तः परपीडामपि विभजेरन्' इति कारुण्यावर्जितमतिरभिदधे । तिरोदधे च तरणिः । संनिदधे च कोऽपि कूपखण्डः । ततश्चायमतर्कितागतिं तमधिरुह्य कमपि कमनीयोद्देशं द्वीपमविशत् ।
तत्र क्वचिदुपसागरं सिकतिले तले निषण्णः किंचिदिव विषण्णोऽयं पोतवणिग्वरः
'संसारासारभावोऽयमहो साक्षात्कृतोऽधुना ।
___ यस्मादन्यदुपक्रान्तमन्यदापतितं पुनः ॥' इति भावयन्पाकविघटितशुक्तिपुटमुक्तमुक्ताप्रकरं धारासंपातपतितकरकनिकरमिव कलयंश्चलतरङ्गतरङ्गिणीपतितरङ्गपरम्पराविलुठदकठोरकर्कटकावलोकनसकौतुकं कादम्बकदम्बकमप्यालोकयन्कांचन कालकलां गमयांबभूव । बभूव च तत्र परत्रेव गच्छन्नतुच्छतेजा मनुजः कोऽपि बणिजस्तस्य नयनगोचरः। तदवलोकनेन जातसंप्रीतिः प्रसभमनुधावन्नुदाधिवृत्तान्तमस्मै सविस्मयमुवाच । स च प्रत्युवाचैनमेतदीयदीनतावीक्षणप्रविजृम्भितकारुण्य इव 'वैश्यवरेण्यस्त्वमशरण्यः कथमरण्यानीमाधिवसेः । दिवसमात्रमस्मद्गृहे गृहाणासिकां न चेदसि पराङ्मुखः । परमतः पश्यामः कार्यम् ' इति । अर्यश्रेष्ठोऽपि तथेति हृष्टस्तनिर्दिष्टं क्रमेलकमधिरुह्य सहसा विहायसा ययौ । तावता च पुरः समीरणसंचार्यमाणगगनधुनीफेनसंचयेनेव कञ्चुकितं विशदशारदवारिदव्यूहेनेव संनाहितं नभवरतरुणीकुचाभोगच्युतक्षौमोतरीयनिचयेनेव निचुलितमाकालिकतुषार. वारिशीकरक्षोदवर्षेणेव वलक्षितमन्तरिक्षमलक्षयत् । तत्प्रेक्षणेन वैश्यप्रतीक्ष्योऽयं कौतुकाक्षिप्तचेताः ‘न चाय क्षीरवारांनिधिर्जललहरीशिखरवि. हारिडिण्डीरपिण्डः । न हि तत्र नरैर्गन्तुं पार्यते । न चेदमुदयारम्भसंभवदुदंशोः शिशिरांशोरच्छांशुभिर्विच्छुरितहरिन्मुखम् । न हि कौबेरककुभि
Page #70
--------------------------------------------------------------------------
________________
तृतीयो लम्बः ।
कुमुदबन्धोरुदयानुबन्धः । न च विकचविचकिल फुल्ललसद्वनवहरीप्रतानसवितानं गगनम् । न हि तस्यैवमुच्चैस्तलोपलम्भः संभवति । किमि - दम् ' इति चिन्तया किंचिदन्तरमतिक्रामन्पुण्डरीकपण्डमित्र पुञ्जीभूतं शीतगभस्तिमालिगभस्तिप्रतानामिव स्त्यानमपास्तसमस्ततमः स्तोमं प्रशस्तविविधविद्यापारगपरमपुरुषपरिषत्पक्षीकृतमक्षयानन्ददानदक्षमतिशुक्लशुक्ल - ध्यानमिव बहिः पिण्डीभूतं पाण्डुरितवनराजिं राजतगिरिमैक्षिष्ट, अभ्यमनायिष्ट च परमश्रुतप्रतिपादितं यथाश्रुतं तमुत्पश्यन्वैश्यपतिः, अप्राक्षीच प्रीतिविस्फारितेक्षणः सहचरं खचरम् ' खेचरगोचरेऽस्मिन्विजयार्धगिरौ किमर्थमस्मदागमनम् ' इति ।
स किंचिदिव स्थित्वा प्रत्यवोचत् -" अयि भोः, श्रूयताम् । इह विश्रुतायां विद्याधरधरायां विविधवृत्तिदानदक्षदक्षिणश्रेण्यां श्रेणीभूतपुरग्रामकान्ते गान्धारविषये योषाजनभूषा लोकतिरस्कृतदिन कृदुदयालोको नित्यालोक इत्याख्यया विख्यातः कोऽपि विराजते स्कन्धावारः । तस्य पतिर्गगनेचर किरीटाधिरूढशासनो गरुडवेगो नाम । तस्य च महिषी सकलगुणमनोहारिणी धारिणी नाम । तयोः सुता देहकान्तिव्यामोहितचित्तभूचित्ता गन्धर्वदत्ता । तस्या जन्ममुहूर्त एवं मौहूर्तिकाः 'कन्येयं मेदिन्यामनन्यसाधारणवीणावादननैपुण्यादेनामतिशयानस्य कस्यचित्कुमारस्य राजपुर्यां भार्या भविष्यति' इति व्याहार्षुः । अथ सा कल्याणी कदाचन पञ्चकल्याणोपबासपारणादिवसे परिवारेण सार्धं विजयार्धभूभृतः किरीटायमानं सिद्धकूटजिनचैत्यसदनं सपर्याविधानपुरःसरमधिकभक्तिरभिप्रणम्य समागत्य चतुर्गतिभ्रमणप्रशमनभेषजं जिनाङ्घ्रिपङ्केरुहस्पर्शनेन पावनं प्रसूनं सविनयं पित्रे समर्पयामास । राजापि सप्रश्रयं प्रतिगृह्यतां शेषामशेषदोषक्षयायेति शिरसा वहन्संप्राप्तयौवन साम्राज्यामिमां निर्वर्ण्य जातनिर्वेदो निवर्तयंश्चक्षुष्यमपि जनं महिष्या सममेकान्ते चिन्तयामास
५९
Page #71
--------------------------------------------------------------------------
________________
गद्यचिन्तामणौ
_____' आसीदियं तरुणी तारुण्यानेडितलावण्या । भवन्ति चास्याः पश्यन्तः पयोधरोन्नतिं पार्थिवजाताश्चातका इव जातास्थाः । इदं हि संसारिणां सांसारिकप्रसूतिजातेष्वरुन्तुदं दुर्जातं यदात्मसंभवानामात्माभिवर्धितानां च कन्यानामन्येन केनाप्यदृष्टपूर्वेण घटनं तस्मादप्यनुरूपवरान्वेषणं ततोऽपि सुखासिकाचिन्तनम् ' इति । चिन्तानन्तरममात्यान्तरं नाम्ना धरमाहूय माम् 'अस्माकमस्ति मित्रं धात्रीतलराजिनि राजपुरे कोऽप्यूरव्यपतिः । एनमधुनैवानय' इत्यभ्यधत्त । अहमपि कार्यपारतत्र्यादार्य प्रायैवमानीतवानस्मि” इति ।
अथ यथावदवगतपोतोपद्रवविरहेण विश्रुतबान्धववियच्चराधीशसकाशसंगमलाभेन च सांयात्रिकः समदपरवशो धरेण साकमुपसरन्दूरादेव बधिरितश्रवसा तुमुलरवेण सरभसमागच्छेत्यात्मानमिवाह्वयन्तम् , समन्तादुद्गच्छदतुच्छरत्नांशुप्रांशुतरगोपुरपक्षोपलक्षितमन्तरिक्षावसाननिरीक्षणकौ - तुकादुड्डयितुमिवेच्छन्तम् , अलङ्घनीयसालशृङ्खलावलयेन विशृङ्खलगतिनिरोधाय निगलितायमानम् , सदातनसलिलभरभरितपरिखाचक्रालवालपयःपरिवर्धितमूलतया स्वयमुत्पादितैरिव सकलर्तुकुसुमफलैः समृद्धम् , समृद्धिमयसौधशिखरपिनद्रपताकाग्रपाणिपल्लवेन शशाङ्कमपि कलङ्करहितं संपादयितुमिव संमार्जन्तम् , क्वचिद्भिद्यमानपद्मरागमणिमहःस्तबकितवियदन्तरालैराकालिकबालातपरेखामारचयन्तम् , क्वचित्कोकमिथुनविरहवितरणनिपुणकिरणापीडगारुडरत्नराशिशङ्कितशर्वरीसमागमसंरम्भम् , क्वचिजालकितगभस्तिजालस्थगितदिङमण्डलैराखण्डलनीलोपलघटिततलैरकाण्डप्रसारितभोजनशालास्थलकदलीपलाशसंशीतिसंपादिनम् , सर्वतश्च सविभ्रमं विहरन्तीनां विद्युल्लतानामिव विद्याधरीणामलक्तकरसाञ्चितचरणन्यासेन रञ्जितं स्वयमपि रागातुरमिव निरूप्यमाणम् , इन्दुभिरिव नन्दितोदयैरुदधिभिरिवोत्तालसत्त्वैमन्त्रिभिरिव मन्त्रसिद्धैः पा
Page #72
--------------------------------------------------------------------------
________________
तृतीयो लम्बः ।
६१
रिजातैरिव परिपूर्णितार्थिजालैः सुव्यक्तमुक्ताफलैरिव वृत्तोज्ज्वलशरीरैः कोदण्डदण्डैरिव गुणावननै राजमरालैरिव सुगतिसुन्दरैर्मधुकरैरिव सुमनोऽन्तरङ्गैर्वासरिवातमोऽभिभूतैर्जनरलंकृतम्, आत्मदुरासदमालोक्य नित्यालोकं नितरां व्यस्मेष्ट, व्यतनिष्ट च 'विशिष्टसुकृतोदयादागताप्यापन्मम संपदे जाता' इति सानन्दश्चिन्ताम् ।
तदनु प्रविशतां निष्पततां च निरवधिकतया तत्र तत्र स्थितैरिव सर्वद्वीपराष्ट्रभवैर्जनैः सृष्टिस्थानमिवाधिष्ठितमुपसृत्य राजद्वारं दौवारिकमहत्तरेण धरबोधितेन विज्ञापिताहूतः सकौतुकं राजगृहमवगाहमानस्तत इतोऽप्यदृष्टपूर्वतया दृष्टिं व्यापारयन्नपरिमितानि व्यतीत्य कक्ष्यान्तराणि नातिदवीयसि प्रदेशे शातकुम्भस्तम्भशुम्भिनश्चन्द्रातपच्छेदच्छविचन्द्रोपलचुम्बिताम्बरस्य निष्टप्ताष्टापदघटितकुट्टिमनिर्यत्तरुणतरतरणिकिरणायमा. नमरीचिमञ्जरीपिञ्जरितहरितः खेचरेन्द्रानुचरणधिषणोपसरत्सूर्येन्दुसंदेहमावहतो महतो मण्डपस्य मध्ये स्थितम् , अस्तोकस्नेहभयाक्रान्तस्वान्तैरुन्नयनपतिभिः पङ्किस्थितखचरेन्द्रैरञ्जलिकंजमुकुलपुञ्जेनेवाभ्यय॑मानम् ,
अष्टापदसुप्रतिष्ठकभृङ्गारकमुकुरचमरजतालवृन्तबृन्दग्राहिणीभिर्विग्रहिणीभिरिव तटिल्लताभिर्ललनाभिरभितोऽपि दिग्वधूभिरिव परिवृतम् , महति हरिविष्टरे समुपविष्टमपि विष्टरश्रवसश्चापकाण्डमकाण्डे दर्शयन्त्या मण्डनपुनरुक्तया कायकान्त्या मण्डपसर्वस्वतेजसा दिगन्तेषु स्वान्तेन स्वदुहितविवाहकर्मणि मन्दस्मितेन साधितसमीहितागतेषु सामन्तेषु कठाक्षपातेन प्रसादावर्जनदीनारसहस्रदानेषु श्रवणप्रदानेन नानाजनपदोपसर्पदपसर्पवचःश्रवणेषु प्रतिबिम्बनिभेन खेचरेन्द्रबृन्दारककिरीटेषु नेत्रेण मित्रगाने निवसन्तं तं नभश्चराधिपमधिकभक्तिः समुद्वीक्ष्य संमदभरदुर्भरं वपुः समुद्वोढुमपारयन्निव धरायां पतन्सप्रश्रयं प्राणसीत् । खेचरेन्द्रोऽपि रुचिरां दशनज्योत्स्नां निःसरन्त्याः सरस्वत्याः पुरःसरदीपिकामिव दर्शयन्नधरित
Page #73
--------------------------------------------------------------------------
________________
गद्यचिन्तामणौ
जलधररवगाम्भीर्येण कुशलपरिप्रश्नादिचतुरोपचारगर्भेण मधुरतरेण स्वरेण ‘सांयात्रिकं संभाव्य समुचितकशिपुभिः समग्रमेनं संपाद्य पुनरानय' इति धरमब्रवीत् ।
अथ धरस्य सद्मनि वर इवायमूरव्यचूडामणिरुपलाल्यमानः क्षपामपि तत्रैव क्षपयित्वा प्रभात एव प्रसरन्त्यां गन्धर्वदत्तायाः क्षितितलप्रयाणवार्तायाम् , तन्मुखकान्तिजिते कांदिशीक इव मन्दतेजसि गते चन्द्रमसि , उडुगणेऽप्युडुपतिपराजयादिव तिरोदधति, पूर्वोदधिवेलां विकसितकमलमुखे चन्द्रमुखीमुखावलोकनरागादिव सरागे रवौ समासीदति, सीदति दुहितृविरहकातर्येण धारिणीहृदये , हृदयज्ञे च राज्ञि ‘राजीवलोचने , सुलोचनानां जननस्थानमुत्सृज्य सरितामिवान्यत्र सरणं किमु सांप्रतिकम् । अतो न सांप्रतमेवं तव वैक्लब्यम्' इत्युदीर्य हरति धारिणीमनःखेदम् , खेचरेन्द्रान्तिकममन्दादरादुपसरन्नुत्तमाङ्गचुम्बिताम्बुराशिरशनः सविनयं तस्थौ । तावता च जातास्था: 'कन्यकायाः प्रस्थानलग्नः प्रत्यासन्नः' इति मुहुर्मुहुरूचुर्मीहूर्तिकाः ।
___अथ सत्वरपरिजनचरणसंघट्टनरणिते श्रवांसि बधिरयति , प्रतिदिशं समागच्छदतुच्छप्रयाणपरिच्छदे चढूंषि चरितार्थीकुर्वति , सर्वथाभवत्तरुणीविप्रयोगे विधुरयति प्रेमान्धबन्धुजनमनांसि, मांसलपटवासगन्धे घ्राणरन्ध्र नीरन्ध्रयति, समधिकधवलोष्णीषवारवाणधारिणा गृहीतकनककौक्षेयकवेत्रयष्टिना निष्ठुरहुंकारभयपलायितसत्त्वसार्थविभक्तपुरोभागेन प्रवयसा प्रतीहारलोकेनाधिष्ठिताग्रस्कन्धस्य बन्धुरभूषणमणिमहःप्रचयविद्युदुद्द्योतद्योतितवियतः स्फुटितमन्दारदामकामुकमधुकरनिकुरुम्बविलुलितालकस्य परस्परपरिहासकथाप्रसङ्गस्फुरितहसितकुसुमिताधररुचकस्य महतः स्त्रैणस्य मध्ये महीभृदाज्ञया समायान्ती , परिचयातिप्रसङ्गसंक्रान्तैर्विजयार्धशिखरिधातुरेणुभिरिव रञ्जितमलक्तकरसतानं तनुतररेखामयशुभलाञ्छनाञ्चितम
Page #74
--------------------------------------------------------------------------
________________
तृतीयो लम्बः।
तिसुकुमारमुदरं दधद्भ्यां पादपल्लवाभ्यां पल्लवयन्ती भुवम् , विषमबाणतूणीरंनिर्माणमातृकानुकाराभ्यामुद्यन्नूपुरविमलमुक्ताफलकरैः स्निग्धबन्धुमनोभिरिव गमनप्रतिबन्धाय गृह्यमाणाभ्यां क्रमवृत्तस्निग्धानतिप्रांशुभ्यां जवाभ्यां भासमाना , न्यकृतराजरम्भाकाण्डाभ्यामूरुस्तम्भाभ्यां घनजघननगराभोगभारमुद्वहन्ती, विलसदमलफेनपटलवलक्षण महता क्षौमेण प्रयाणानुसरणकृते समागतराजतगिरिकिरणजातेनेव कृतपरिष्कारा , तारुण्यसिन्धुपुलिनयोर्जवनयोः सारसविरावाञ्चितां काञ्चीमुदञ्चता करेण तनुतया पतनाभिमुखं मध्यमिव गृह्णतीं धारयन्ती, रोमावलीतमालवनराजीसंवर्धमानामृतसलिलकूपविभ्रमं नाभिमण्डलं बिभ्रती , कमनीयकायकल्पवल्लरीस्थूलस्तबकसंपदौ शौक्तेयहारधरौ पयोधरौ दधती, विलाससमीरसमुल्यापितलावण्यतरङ्गिणीतरङ्गरेखारमणीययोर्भुजलतयोर्विमलाङ्गुलीनखम - यूखमालां पितृपुरस्क्रियाहपुष्पाञ्जलिविधानायेव दधाना , कम्बुकान्तिकएठभूषणमाणिक्याखण्डालोकं बालातपमिव कुचचक्रवाकमिथुनाविश्लेषाय प्रकाशयन्ती , कालाञ्जनपुञ्ज नीलालकबन्धबन्धुरापरभागमपरान्तनिबिडनिविष्टतमःपटलमिवोडुपतिबिम्बं बिम्बारुणोष्ठसंपुटशुक्तिगर्भनिर्भासुरदशनमौक्तिकापीडं ललाटेन्दुनिर्यदमृतधारायमाणनासावंशं विमलांशुजाललऋितकपोलमण्डलमाणिक्यकुण्डलमण्डितश्रवणयुगलमलिचुम्बितविकचकुवलयदीर्घलोचनं बिभ्रमलास्यलासिकाविलासधूलतमाननं बिभ्राणा गन्धर्वदत्ता सत्वरं सादरं च तन्मुखवलितमुखैः सभाजनैर्ददृशे । ततश्च तामुत्तमाङ्गस्पृष्टविसृष्टमहीपृष्ठां तिष्ठन्तीं खेचरेन्द्रः सादरमाश्लिष्य 'पुत्रि , श्रीदत्तेनास्माकं कुलक्रमागता मैत्री । गात्रान्तरस्थं मामेव तावदमुं मन्येथाः । कन्ये , जनकस्तवायं जननी चास्य गृहिणी । गृहाणामुना प्रयाणे मतिम् । अलं कातर्येण । गगनेचराणां राजपुरी किं न भवनद्वारसमा' इति सानुनयं समभ्यधत्त । सापि 'यथाज्ञापयति' इति सबाष्पव
Page #75
--------------------------------------------------------------------------
________________
गद्यचिन्तामो
दना पितरौ बन्धुजनं च प्रणम्य परिष्वज्यापृच्छय तुच्छेतरशुकशारिकाचामरतालवृन्तकन्दुकाम्बरताम्बूलपरिवादिनीप्रमुखपरिबर्हपाणिभिस्तरुणीभिर्बर्हिणीभिरिव पयोदपतिरभिसंवृता निभृतेतरगगनेचरपृतनाभिरक्षिता क्षणादन्तरिक्षण विमानमारुह्य धरदर्शितपोतदर्शनोत्तालहर्षचित्तेन श्रीदत्तेन समं गत्वा राजपुरी शिश्रिये । ____ ततः श्रीदत्तोऽपि गन्धर्वदत्तायाः समागमननिमित्तावबोधेन दुर्ललितस्वान्तं विधाय बन्धुसमष्टिं काष्ठाङ्गारमप्युपहारपुरःसरमनुज्ञापयन्ननुगुणलग्ने प्रक्रम्य यथाक्रमं कर्तुं भर्मरत्नरजतजातनिर्माणं निन्दितनिलिम्पग्रामणीसभाशोभं भासुरानन्तरत्नस्तम्भजृम्भमाणप्रभाप्रतानवितानीकृतयामिनीप्रसङ्गं प्रान्तलम्बितबहुगुणहरितकम्बलयवनिकावरणं भ्रमराचान्तोद्वान्तमधुरसविसरवर्षिकुसुमदामोत्करमनोहरं रणितमणिकिङ्किणीमालिकालिङ्गितविकटविद्रुमयष्टिप्रतिष्टितपवनतरलधवलध्वजपटपङ्गिपरिहसितसुरसरित्तरङ्गजालं जालविवरविसर्पिमन्दसमीरसीमन्तायमानकालागुरुधूपपरिमलाञ्चितवियदन्तरालमचिन्त्याभोगरूपसंस्थानं नभस्ता समस्तलोकावगाहनावकाशदानदक्षम् , सागरमिव नैकरत्नसंपन्नम् ,बक्षिनिमिषसदनमिवानिमेषलोचनताविधानविदग्धम् , चन्द्रशेखरमिव शेखरीकृतशीतांशुमण्डलम् , विष्णुमिव विष्णुपदव्यापिनम् , शतानन्दमिव सदालोकसंपादिनम् , जिनेश्वरमिव जगत्त्रयश्लाघनीयम् , महनीयनिर्माणातिशयविशेषविस्मापितनिर्मातृहृदयं , कमपि वीणावादनमण्डपं निर्मापयामास । ततश्चायमाज्ञया राज्ञः समाहूय चण्डालम् 'चतुरुदधिमेखलायां मेदिन्यामनन्यसाधारणेन वीणावादननैपुणेन पल्लवितपरिवादिनीपाण्डित्यगी गन्धवदत्तां मम दुहितरमधरयिष्यति यस्त्रैवर्णिकेषु तस्येयं दारा इति नगरे पटुतरं पटहमाताड्यताम्' इति तत्कर्मणि दक्षमादिक्षत् ।
अनन्तरमन्त्यजेन तदाज्ञावतसितशिरसा तथैव ताडिते पटहे
Page #76
--------------------------------------------------------------------------
________________
तृतीयो लम्बः ।
तत्क्षणेन क्षणदापगमविसृमरमिहिरमरीचिसहचरसहजतेजःपरिवृतहरितः समसमयचलदलघुबलभरविनमदवनिभरणखिन्नसंपन्नपन्नगपतिमौलयः समदमदावलकपोलतलगलदविरलमदजलजम्बालितभुवः प्रभूतजवभरदुर्निवारवानायुजवल्गनचटुलखुरशिखरसुदूरोत्थापितरेणुनिकरनिवारितवासरमणिमरीचयः काचमेचककरवालकरालमयूखपटलघटिताकालरजनीरीतयः शतमखशातशतकोटिशकलनशङ्कापलायमानसानुमत्सब्रह्मचारिशताङ्गशतशारितवीथयः स्फीतपरिकर्मपरिवर्धितकान्तयः काशीपतिकाश्मीरकर्णाटकालिङ्गकाम्भोजचोलकेरलमालवमगधपाण्ड्यपारसीकपुरोगाः पुरंदरसदृशभूतयो भूभुजः समेत्य समन्तादासीननानाजनपदजनताजनितसंमर्दै सर्वतोलम्बमानमुक्तासरसहस्रमण्डितं स्वयंवरमणिमण्डपिकामध्यमध्यरुक्षन्। तत्र च स्थानस्थाननिवेशितानि विडम्बितहाटकगिरिकटकानि निकटघटितनैकरत्नमरीचिजालपुनरभिहितोत्तरच्छदानि द्विगुणितस्तबरकोपधानाधिष्ठितपृष्ठभागानि निरतिशयवितरणकौशलशिक्षाकृते कृतमहीतलावतरणेनेव पश्चादवस्थितेन पारिजातपादपेन पल्लवितकान्तीनि दिगन्ततटप्रतिहतिपरिक्षुभ्यदात्मीययशःक्षीरोदपूरोदरोत्पतितफेनपटलपाण्डरेण समुत्तम्भितमाणिक्यमयदण्डधारितेन रोहणगिरिशिखरावतरदमृतकरमित्रेण धवलातपत्रेण तिलकितोपरिभागानि पराक्रमपराजयप्रणतैरिव पञ्चाननैरञ्चितपादानि सिंहासनान्यधिवसन्तः, समन्तादाधूयमानैरनिलचलदसितेतरकमलदलनिचयसुच्छायैश्चामरकलापैः कबलितोज्झितहरिन्मुखाः , परस्परसंघटनजन्मना भूषणमणिशिञ्जितेन तदङ्गसङ्गकौतुकानुबन्धेन गन्धर्वदत्तामाह्वयाद्भिरिवावयवैराविष्कृतशोभाः , संभावनासमभ्यधिकैर्गीयमाननिजभुजविजयभोगावलीवाचालितवदनैर्वन्दिभिरभिनन्दितश्रियः , श्रीदत्ततनयागमनं प्रतीक्षमाणाः क्षोणीपतयः क्षणमासांचक्रिरे ।
तावता च तमःस्तोममेचककचभारखचितमणीवकनिचयनिर्भर
Page #77
--------------------------------------------------------------------------
________________
गद्यचिन्तामणौ
परिमलनिपतितेन निखिलयुवतिसाम्राज्यचिह्नन नीलातपत्रेणेव षट्पदपटलेन परिवृताम्बरा , त्र्यम्बकनयनदहनदग्धमदनपुनर्जीवनदक्षान्कटाक्षानक्षयरागजलधिजठरपरिप्लवमानपार्थिवहृदयमत्स्यजिघृक्षया दिशिदिशि नीलकुवलयदलदामनिर्मितां वागुरामिव प्रसारयन्ती, प्रियसखीसलापसमयनिर्गताभिरमलदशनकिरणकन्दलीभिश्चन्द्रातपमिव दिवि विषमशरसाहायकाय संपादयन्ती , वदनकमलविकासभङ्गभयविदारितेन तरुणतरणिकिरणनिकरेणेव कुण्ठितकुसुम्भकुसुमसौकुमार्यस्य दशनच्छदमणेररुणेनांशुजालेन रागजलेनेव सिञ्चन्ती समन्तादासीनमवनिपाललोकम् , आगामिदयितहृदयगृहप्रवेशमङ्गलविकीर्णसुमनःसौभाग्यहरेण हारेण पुलकितस्तनकलशयुगला,नवदलितकदलगर्भकोमलं वासो वसाना, वासुकिसमाविष्टमन्दरमथितमहोदधिसमुद्गतां संसक्तडिण्डीरपाण्डुरितनितम्बां निन्दन्ती श्रियम् , काभिश्चन करकलितकनककालाञ्चीभिः काभिश्चन कमलनिलीनकलहंसपरिभावुकपटपल्लवपरिष्कृतपाणिपुटाभिः काभिश्चन काञ्चनमयमपि पञ्जरं काचकल्पितमिव निजकान्तिकल्लोलैरापादयन्तमुद्वहन्तीभिः क्रीडाशुकं काभिश्चन भर्तृदारिकावदनसौन्दर्यचौर्यागतं चन्द्रमसमिव स्फाटिकमणिदर्पणं करेण गृह्णतीभिः काभिश्चन कलितवकुलदामपुलकितसंनिवेशाः संमुखसमीरस्पर्शमन्द्ररणिततन्त्रीवलया वसुधापालेषु वल्लभोऽस्याः कः स्यादिति मिथो मन्त्रयन्तीरिव विविधा विपञ्चीरुदञ्चयन्तीभिः परिचारपुरंध्रीभिरिन्ध्रितपरिसरं परितोलम्बमानमुक्तासरविभूषितं मुषितदिवसकरमरीचिसमुद्गमैर्मणिगणालोकैराकुलितलोकलोचनमाकीर्णविविधपुष्पं पुष्पकविजयचतुरं चतुरन्तयानमधिरूढा , प्रौढमतिभिगूढानपि भावानाविष्कुर्वतीभिरन्तिकवर्तिनीभिरात्मनिर्विशेषाभिः प्रियवचनशतैः प्रसाद्यमाना , प्रत्यदृश्यत गन्धर्वदत्ता । प्रादुरभूवंश्च तन्निरीक्षणेन महीक्षितां मन्मथमहिमनिवेदनचतुरा विकाराः । तथाहि-कश्चिन्नभश्चराधिपतनये , तव कुच
Page #78
--------------------------------------------------------------------------
________________
तृतीयो लम्बः ।
तटपरिणाहपर्याप्तं वा न वेति निरीक्ष्यतामिदमिति विवक्षुरिव वक्षःस्थलादुपवीतमुपादाय सविलासमंसदेशे न्यवेशयत् । कश्चित्कमलकोमलेन करेण कनकधरणीधरकटकविशङ्कटवक्षःकवाटलम्बिनी विकचरक्तोत्पलदलनिचयविरचितां प्रालम्बमालां परामृशन्कुण्डलितकोदण्डेन कुसुमशरासनेन मनसि निखातां विशिखमालामुन्मूलयन्निवामन्यत । कश्चित्प्रियसुहृदभिहितनर्मभणितिसंभावनास्मितविनिर्गतैर्विमलदशनकिरणकन्दलैरिन्दी - वरदृशस्तस्याः करपीडनकुतूहलाङ्करानिव हृदयालवालरूढान्निर्गमय्य दर्शयन्निवादृश्यत । कश्चिदवनमय्य मणिमयकिरणमञ्जरीमालिनं मौलिमालोकयन्नधरितगगनाभोगमात्मभुजान्तरं पूर्वप्रविष्टामिमा बिम्बोष्ठीमनुभवितुं स्वयमप्यन्तः प्रविविक्षुरिवालक्ष्यत ।
एवं विजृम्भमाणेषु विश्वंभरापतीनां पञ्चशरपराक्रमपयोधिविजृम्भणविवरणचतुरेषु विकारेषु सा च गरुडवेगसुता सुधाकरलोकप्रतिभटं कुसुमशरयशोराशिमिव राजमानं स्वयंवरपरिषदन्तरवस्थापितं स्फटिकगृहमाविश्य दृश्यमाननिखिलावयवा निजसखीजननिवेद्यमाननिखिलपार्थिवसार्थस्वरूपा परिसरगतायाः परिचारिकायाः पाणिपल्लवादादाय वीणामुपवीणयितुमुपाक्रंस्त ।
'विनमदमरश्रेणीमौलिस्फुरन्मणिमालिका' किरणलहरीपातत्यायन्नखद्युतिकन्दलम् । प्रणतदुरितध्वान्तध्वंसप्रभातदिवाकरो
दिशतु भवतां श्रेयः शीघ्रं जिनाङ्घिसरोरुहम ॥' इत्येवमभिव्यक्तसप्तस्वरमुन्मिषितग्रामविशेषमुच्छ्रसितमूर्च्छनानुबन्धमतिबन्धुरमाहितकर्णपारणमाकर्ण्य तस्यास्तदपवीणनमतिप्रहर्षेण परिषत्परिसरतरवोऽपि कोरकव्याजेन रोमाञ्चमिवामुञ्चन् । तिर्यञ्चोऽपि तिरस्कृतापरव्यापृतयस्तदाकर्णनदत्तकर्णाः समुत्कीर्णा इव निःस्पन्दनिखिलावयवा
Page #79
--------------------------------------------------------------------------
________________
गद्यचिन्तामणौ
स्तत्क्षणमैक्षिषत । महीक्षितस्तु मृगेक्षणाया निःशेषजनकर्णवशीकरणकामणमाकर्ण्य वल्लुकीवादनं वामलोचनेयमनेन विजेतुमिह जगति न केनापि शक्यत इति निश्चित्य निःश्वासैः सह पाणिपीडनाशां मुञ्चन्तः पञ्चशरवञ्चिताः कंचित्कालमानतवदननिवेदितनिजहृदयगतविषादा जोषमासिषत । कतिचित्कन्दलितपरिवादिनीपाण्डित्यमात्मानं मन्यमानाः प्रारभ्य वादयितुं परिवादिनी परिवादमेव फलमलभन्त । एवमुपक्रमसमसमय एव समासादितपराजयलज्जाकजलितहृदयेषु पार्थिवपृथ्वीसुरवैश्येषु विश्रुतविश्वविद्यावैशारद्यविस्मापितजीवको जीवकस्वामी स्वयंवरकृते कृतमण्डनः पितुरनुज्ञापुरःसरमनुसरद्भिरात्मनिर्विशेषैरशेषैः स्वमित्रमित्र इव मयूखैः शतमख इव मखाशनैः शातकुम्भगिरिरिव कुलगिरिभिरधरितविन्ध्यगिरिगरिमाणं गन्धकरिणमधिरुह्य धराधरशिखरनिषण्णं केसरिणमवधीरयन्नधःकृतमदनरूपाभिमानग्रहो निजगृहान्निरगात् । अनन्तरं तदीयलावण्यप्रस्रवणे प्रवहति प्रक्षालयितुमीक्षणयुगलमतिदोहलादहमहमिकया समधिरुह्य सौधमणिवलभीमनुगवाक्षमाहितवदनचन्द्रमसामिन्दीवरदृशाम् 'इन्दुशेखरेण पुरा पुरत्रयेन्धनसमिद्धहुतवहविरोचमाने विलोचने सरभसमदाहि मन्मथ इति वितथमालपति लोकः ! यदयमशेषयोषिदीक्षणचकोरपारणपौर्णमासीचन्द्रकरायमाणकान्तिकन्दलः कामो निकाममानन्दयत्यस्मान् । किमकृत सा सुकृतं पुरा पुरंध्री यास्य प्रत्यग्रघटितघनतरघुसृणपङ्कपटलपाटले वक्षःकवाटे निबिडगैरिकपङ्काङ्किते गिरितटे मयूरीव विहरिष्यति । आस्तामिदमस्तोकमस्य लावण्यम् । प्रावीण्यमपि वीणावादने निद्वितीयमेतदीयम् । आभ्यामखिलभुवनाभिनन्दिताभ्यां विनिर्जिता विजयार्थपतेः सुता नियतमेनं वरिष्यति' इत्येतानि चान्यानि वचास्यवतंसयन्कर्णयोस्तूर्णमुपासरत्परिसरं स्वयंवरसदसः । सदस्याश्च वयस्यैः सह संनिहितमेनमपनीतनिमेषोन्मेषेण चक्षुषा निरीक्षमाणाः क्षणमेणाक्षीपाणिग्रहणम
Page #80
--------------------------------------------------------------------------
________________
तृतीयो लम्बः ।
होत्सवप्रीतिभाजनं जनोऽयमिति मेनिरे । बहुमेने च सा मानिनी मदनमहनीयरूपमेनमालोकयन्ती । अचिन्तयच्च 'यद्यसौ लभ्येत पतिः पराजय एव जयान्मे परं श्रेयः' इति श्रीदत्ततनया । अथ कुमारः समवतीर्य मातङ्गादनङ्ग इव लब्धाङ्गः कुरङ्गलोचनायाः पुरस्तादवस्थापितमनुरूपमासनमलंचकार । ततश्चकोरनेत्रायाः परिचारिकाभिः प्रदर्शिताः प्रत्येकं शास्त्रनेत्रनिरीक्षणादोषानु दोषयन्धोपवतीरदूषयत् । अभाषत च 'परिचारिकाः ‘परिवादिनी काचन परिहृतनिखिलदोषा भूषयति भवढूंशम् । आशु तामानयत' इति । तावता च तत्सदृशस्तद्विद्यायां न विद्यत इति जनितपरितोषया वीणावत्या वितीर्णा वीणामुपादाय वादायितुमुपचक्रमे चक्रवर्ती कलानाम्
. 'जिनस्य लोकत्रयवन्दितस्य ___ प्रक्षालयेत्पादसरोजयुग्मम् । नखप्रभादिव्यसरित्प्रवाहैः
___ संसारपङ्कं मयि गाढलग्नम् ॥ इति । तेन च श्रवणसुभगगीतिगर्भमुद्भूतरागमनुगतग्रामं वादयता वल्लकी विजिग्ये विद्याधरराजतनया ।
__ अनन्तरमाविर्भवदभङ्गुरामर्षतरङ्गितहृदयेषु विजृम्भमाणव्यलीककल्पितकालिमकर्दमितमुखेषु ललाटरङ्गतटविहरदसितभ्रुकुटीनटेषु निबिडनिर्गच्छदतुच्छवेगोष्मलदीर्घनिःश्वाससमीरममरिताधरपल्लवेषु पश्यत्सु स्वयंवरास्थानवास्तव्येषु वसुधापालेषु सा गरुडवेगनन्दना सानन्देन सखीजनेन समुपनीता कुमारोपकण्ठं वर्धितोत्कण्ठा कण्ठे जीवककुमारस्य कुसुमशरविकारकम्पमानेन प्रहर्षपुलकजरितत्वचा पाणिपल्लवेन बबन्ध बन्धुरां स्वयंवरस्रजम् ।
अथ तामनवद्यतपोबलादावर्जितसुकृतानामन्तिकं श्रियमिव श्रय
Page #81
--------------------------------------------------------------------------
________________
गद्यचिन्तामणौ
न्तीं स्वयं जीवकस्वामिनः स्वामिद्रुहां ज्येष्ठः काष्ठाङ्गारः सामर्ष निर्वर्ण्य वरवर्णिनीम् :नितरां निकृष्टः श्रेष्ठिसुतोऽयं पुरा तिरस्कृतास्मद्बलं नाफलसैन्यमनन्यसहायो विजित्यास्माकममन्दं मन्दाक्षमाक्षिपत् । एवमत्युल्बणबलस्यास्य बालस्य खेचरा अपि सहचरा यदि भवेयुभवेदेवास्मदीयराज्यमप्येतदीयहस्तस्थम् । अतः पार्थिवसुतैः सार्धे स्पर्धी वर्धयित्वा वर्धयाम्यस्य दोर्बलदर्पम्' इति विचारमारचयत् । अतितरां च समधुक्षयन्महीक्षिदारमजान्– 'वैश्यसुतोऽयं पश्यतामेवंपराक्रमशालिनां परार्ध्यवस्तूपलम्भयोग्यानामयोग्यः कथं भोग्यामिमां राज्यश्रियमिव समाश्रयेत् । समुत्सायेंनमूरव्यसूनुमूरीक्रियासुरिमां नारीम्' इति । ततश्चैवं कपटधर्मपटिष्ठेन काष्टाङ्गारेण संधुक्षितानां गन्धर्वदत्ताभिनिवेशविशृङ्खलविजृम्भितमन्युपरवशमनसां महीपतीनां स्वयंवरमालानिभानुपलब्धसौभाग्यपताकेन कुमारेण सह निपात्यमाननिशितहेतिसंघट्टितोद्भटसुभटकवचविसर्पद्विस्फुलिङ्गसूत्रिताग्नेयास्त्र प्रयोगचमत्कारम् , चण्डासिधाराखण्डितवेतण्डकुम्भकूटपतदविरलमुक्ताफलपटललाजाञ्जलितर्पितसमरदैवतम् , साहसप्रतिष्टप्रतिभटकरकरवालखण्डितदेवीभवद्योधपरिष्वङ्गपर्युत्सुकहृदयपुञ्जीभवदमरपुरंध्रीनीरन्ध्रिताम्बरम् , निकृत्तचारभटकण्ठकुहरप्रणालीनिःस्यन्दमानरुधिरासारकदमितकाश्यपीतलम् , मज्जदङ्घिसमुद्धरणायस्यदश्वीयम् , आकर्णकुण्डलीक्रियमाणसुभटकोदण्डटङ्कारसांपरायलक्ष्मीपादतुलाकोटिक्कणितमुखरितह - रिदवकाशम् , आकाशकबलनसनह्यदविरलधरापरागधूसरदिवसकरकिरणालोकम् , रत्पतदवपतदनेकशतशरपुञ्जपञ्जरितरोदोविवरम् , उद्धरपदातिरवस्मर्यमाणमथनसमयसमुत्तालजलधिकल्लोलकोलाहलम् , अनुवेलनिपतदतिपीवरकबन्धगुरूभवदुर्वाभारजर्जरितकमठपरिबृढपृष्ठाष्टीलम् ,अष्टापदरथकोटीपातनिष्पिष्टदन्तावलदशनशिलास्तम्भम् , उत्तम्भितकुन्तयष्टिप्रोतविपक्षशिरःशीर्णकचसटाचामरमरुदपनीयमानवीरविक्रमपरिश्रमम् ,
Page #82
--------------------------------------------------------------------------
________________
तृतीयो लम्बः ।
विश्वजगदातङ्कजनकम्, अतिमहद्युद्धमवर्तत । ततश्च तस्मिन्नाविष्कृतालीढशोभिनि मण्डलीकृत्य कोदण्डमकाण्डघनाघन इव घनरवमौर्वीनिनदगम्भीरगर्जत र्जितप्रतिभटस्फुटकपिलको परागविद्युदुद्द्योतितवपुषि वर्षात पृषत्कधारां सत्यंधरतनूजन्मनि धरापतिधराधराणां प्रत्यग्रखण्डितेभ्यः कण्ठकुहरेभ्यो मुखरित निखिलहरिवकाशा, काशकुसुममञ्जरीचारुभिश्चाभरैरारचितफेनपटलविभ्रमा, शरदभ्र कुलमित्रैरातपत्रैरासूत्रितपुण्डरीकषण्डविडम्बितशिखण्डिबर्हभरैः कचनिचयैः कल्पितशैवालविलासा, विलसदुडुनिक र निर्मलै मौलिमौक्तिकप्रकरैः प्रकटितपुलिन शोभा, हरिदिभकरदण्डानुकारिभिर्भुजैर्भुजंगमैरिव तरद्भिस्तरलीकृता, कृत्तपातितान्पादपानिव कबन्धान्कर्षन्ती, दिगन्तकूलंकषा क्षतजवाहिनी प्रावर्तिष्ट । न्यवर्तिष्ट च भयाविष्टमनाः काष्टाङ्गारप्रमुखः प्रधनान्निधनैकफलात्प्रत्यर्थिपार्थिवलोकः : 1
डम्बरा,
७१
ܕ
तदनु यथायथं गतेषु पलायमानबलेषु पराजयलज्जानिमीलितमुखसच्छायेषु पार्थिवेषु परिहृतामर्षैरुन्मिषितगुणानुरागैः पौरवृद्धैरभिनन्दितगुणगणगरिमा जीवकस्वामी जीवितवल्लभया जयलक्ष्म्येव मूर्तिमत्या श्रीदत्ततनयया सह समसमयप्रहतमृदङ्गमद्दलपटहभेरीजन्मना नवजलधरध्वाना-. वधीरणधौरेयेण वेण नगरिशिखण्डिमण्डलमकाण्डे ताण्डवयन्नात्ममुखकमलविलोकनविनिर्गतयुवतिनयनकुवलयितगवाक्षेण नवसुधालेपधवलितव
लभीनिवेशेन स्पर्शनचलितशिखरपताकापटताडितपयोधरमण्डलेन विमलसलिलधारासंदेहिमुग्धचातकचञ्चचुम्ब्यमाननिर्यूहनिहितमुक्तासरेण द्वारदेशनिवेशित पूर्णकुम्भेन समुत्तम्भितमणितोरणमरीचि सूत्रितेन्द्रचापचमत्कारेण विप्रकीर्णविविधकुसुमपुलकितधरणीतलविराजिना राजमार्गेण किंचिदन्तरमतिक्रम्य दिशिदिशि दृश्यमानतुङ्गशिखरसहस्रसंकोचितवियदाभोगमहिमकररथमार्गनिरोधनोन्मुखं विन्ध्याचलमिव विलोक्यमानं क्वचि
Page #83
--------------------------------------------------------------------------
________________
७२
गद्यचिन्तामणौ
दभ्रितमिव सिन्धुरैः कचित्तरङ्गितमिव तुरङ्गमैः क्वचित्पल्लवितमिव पद्मरागप्रभाप्रसरैः कचिच्छाद्वलितमिव महेन्द्रनीलमयूखलतावितानैः क्वचित्सिकतिलमिव मुक्ताफलराशिभिरुपरि शोभमानमधरितकुबेरभवनवैभवं बहुविधैश्वर्योत्कटं गन्धोत्कटसदनं समाससाद । ____ अथ गणरात्रापगमे गणकगणगणिते गुणवति वधूमनोरथकल्पशाखिनि वरहृदयानन्दपयोधिविजृम्भणचन्द्रोदये चारणचकोरजीवितवर्धनजीमूते कुसुमकेतुकलहंसकेलीकमलकानने कलगीतिकलकण्ठनिनदावतारवसन्ते संतोषसरसिजविकासदिवसारम्भे संनिहितवति परिणयनदिवसे प्रशस्ते च मुहूर्ते मौहूर्तिकानुमते जीवकस्वामी तदात्वपरिकल्पितं प्रयतमहीसुरहूयमानहुतवहं संनिहितसमिदाज्यलाजं स्थानस्थानस्थितबन्धुलोकमुल्लोकदीयमानताम्बूलकुसुमाङ्गरागमुद्भटताड्यमानमङ्गलपटहं वाद्यमानवादित्रवल्लकीवलगुरववाचालितं पूर्यमाणासंख्यशङ्खवेणुशब्दायमानदशदिशापरिसरं परिणयनमणिमण्डपमधिरुह्य पुरंदरदिशाभिमुखस्तिष्ठन्स्नातानुलिप्तः प्रत्यग्रविहिताभिषेकाम् , आपादमस्तकमारचितेन चन्द्रमरीचिगौरेण चन्दनाङ्गरागेण निजदुहितृशङ्कया दुग्धजलधिनेव परिष्वक्ताम् , आभरणमणिमयूखमालाच्छलेन रमणपरिरम्भणाय न पर्याप्तं भुजद्वयमिति बहूनिव बाहूनारचयन्तीम् , अवतंसकुसुमपरिमलचपलैरतिमधुरं कणद्भिरलिकुलैः ‘इह जगति जीवकाद्वरीयान्वरो न कश्चित्' इति कथ्यमानामिव कर्णजापैः, कंदर्पशरासनपतितां विशिखकुसुममालामिवैकावली स्तनकलशयोरन्तरे कलयन्तीम् , दुर्वहत्रपाभरेणेव किंचिदवनतमुखीम् , रणता रत्ननूपुरयुगलेन निखिलयुवतिदुर्लभं वल्लभमियमिव समासादयितुं चरत दुश्वरं तपः' इत्युपदिशतेवोपशोभिताम् , उपात्तमङ्गलवेषाभिरुन्मिषितभूषणप्रभाकुलितलोकलोचनाभिरवनिमवतीर्णाभिरभङ्गु - राभिरपराभिरिव विद्युद्भिर्विद्याधरवनिताभिरुपनीताम् , गृहीतार्यवेषेण श्री
Page #84
--------------------------------------------------------------------------
________________
तृतीयो लम्बः ।
दत्तेन प्रतिपादितां गन्धर्वदत्तां विधिवदुपायंस्त ।
इति श्रीमद्वादीभासिंहसूरिविरचिते गद्यचिन्तामणौ
गन्धर्वदत्तालम्भो नाम तृतीयो लम्बः ।
Page #85
--------------------------------------------------------------------------
________________
૭
1
चिन्तामण
चतुर्थो लम्बः ।
अथ तामुपयम्य च विकचकुसुममञ्जरीजालचूडालस्य चूततरोरधश्छायायामालिखितेन रतिवलयपदचिह्नशोभिभुजशिखरनिवेशितकार्मुकेण करकलितकतिपयकाण्डेन कुसुमकोदण्डेनाधिष्ठितबहिर्द्वारम्, दहामानकालागुरुधूपपटलकर्बुरेण कलिन्ददुहितृपरिष्वङ्गमेचकितसुरसरित्प्रवाहसहोदरेण दुकूलवितानेन विलसितोपरिभागम्, अनङ्गयशोराशिसंनिकाशेन कैलासगिरितटविशालेन विमलोत्तरच्छदपरिष्कृतेन पर्यङ्कण पाण्डुरिततलम्, अनुतलिममवस्थापितमणिपादुकायुगलम् अन्तर्गतताम्बूलदलवीटिकाश्यामायमानचामीकरकरण्डम् कर्पूररेणुपरिसंबन्धच्छुरणपरिमलितदशैरनिशप्रज्वलितैरङ्गजप्रतापैरिव मूर्तिमद्भिर्मङ्गलप्रदीपैर्महितोपकण्ठम्, हाटकपतद्ब्रहसनाथशयनीयपार्श्वम्, प्रदृश्यमानविविधचित्रवितीर्णनयन कौतुकम्, कौतुकागारं कमलदृशा सहागाहत । अथ कतिचिदहानि हरिणाक्षी वैलक्ष्याकृष्यमाणा रमणमनोरथान्न पूरयामास । ततश्चशनैःशनैः कुसुमचापचापलसंधुक्षणविचक्षणोऽयमाक्षिप्य तदीयममन्दं मन्दाक्षमनया सममत्युल्बणरागान्धया गन्धर्वदत्तया क्रमादतिनिबिडपरिरम्भपरिपीडितस्तनतटम्, आवेगचुम्बितविधुताधरपल्लवम्, आदरविधीयमानकेशग्रहम्, आग्रह पुनरभिहिताघ्राणजर्जरितकपोलाङ्गरागम् अङ्गविवर्तनविलुलितोत्तरच्छदकथितकामशास्त्रानुष्ठानवैशद्यम्, अविरलघर्मबिन्दुजालकिततिलकम्, अपत्रपानिर्वापित निकटदीप्रदीपम् अतिरभसकचप्र
"
"
Page #86
--------------------------------------------------------------------------
________________
चतुर्थो लम्बः । हविशीर्णमाल्यकुसुमपुलकितशयनम् , अतितारसीत्कारविडम्बितमदनमौरिसितम् , आकस्मिकप्रणयकलहविहितपादप्रहाररणितमणिनूपुरम् , अश्रान्तवर्धमानकुतूहलम् , अतिवेलं सुरतमन्वभवत् ।
___ इत्थमनुभवति संसारसौख्यसारान्सारङ्गशा तया सह तस्मिन्रतिविलासान्विषमशरस्य साचिव्यमिवारचयितुमाजगाम जगतीरुहशिखरशेखरैः खरेतरकिसलयराशिभिरुपशोभितवनान्तो वसन्तः । प्रविशति भुवनगृहमनङ्गनृपसामन्ते वसन्ते पुण्याहमिवोच्चारयांबभूवुरुद्भूतकलरवमुखरितकण्ठाः कलकण्ठाः । क्रमेण च विकचकुसुमनिचयपरिमलितदशदिशि, मनोरथाधिकमकरन्दलाभमत्तमधुकरम शिञ्जितमुखरितवनभुवि, नवसहकारकन्दलदलनकेलीदुर्ललितकलकोकिलगलगुहागर्भसंचितपञ्चम - प्रपञ्चितपञ्चशरवेदनावेगविवशविरहिणि, विहरमाणदक्षिणसमीरणतरलिततरुणपल्लवचूडालचूतविटपिनि , स्फुटितपाटलीकुसुमपाटलिमपल्लविताकाण्डसंध्यासंपदि, समुन्मिषितकोरकपुलकितकुरवकमनोहारिणि, मन्मथमहोत्सवसमारोपितमणिप्रदीपसहचरितचम्पकशाखिनि, चञ्चरीकचक्रचरणाक्रमणपतदविरलसुमनोभरसमुन्नतवकुलतरुशिरसि, प्रभञ्जनप्रकम्पितकरञ्जशिखरविकीर्यमाणसुमनःसूचितकुसुमशरसहचरागमहर्षविहितवनलक्ष्मीलाजवर्षे, प्रकृष्यमाणे मधुसमये, अभिनववनापगावगाहनकेलीदोहलतरलितमनसः पौराः सह पुरंध्रीभिर्नीरन्ध्रितककुभस्तुङ्गान्मातङ्गान्मनोहारिणीः कारिणीः शातकुम्भाङ्गाञ्शताङ्गाशितखुरदारितमहीरङ्गांस्तुरङ्गांश्चामीकरपत्रभङ्गचतुरोपान्तानि चतुरन्तयानानि च समधिरुह्य सादरं नगरान्निरममन् । तस्मिंश्च समये समस्तजननयनजीवातुर्जीवकस्वामी सह सुहृद्भिर्नगरजननवीननदीपूरविहारविलोकनाय विनिर्गत्य पुरोपकण्ठाक्रीडेषु क्रीडापरवशानि पादपमूलरचितकिसलयशयनाभोगानि भोगभूतदम्पतीकल्पानि कलितकामदोहलानि युगलानि सलिलावगाहनसमुद्यताः कर्णशिखरसमा
Page #87
--------------------------------------------------------------------------
________________
७६
गंध चिन्तामणी
रोपितकुन्तलपुनरभिहितावतंसकुवलया वकुलदामनियमित केशपक्षास्तत्क्षणदृढघटितमेखलाबन्धबन्धुरनितम्बबिम्बाः सुदूरसमुत्सारितपारिहार्यरिक्तमणिबन्धाः प्रेमान्धदयितभुजशिखरनिवेशितबाहुलता युवतीश्च सविलासं सहायासंदर्शयन्दर्शनीयकायकान्तिश्चिरं विजहार ।
तथा विहरतस्तस्याग्रतः क्वचिदग्रजन्मनामतिमहान्कोलाहल: प्रावर्तत । तदाकर्ण्य तदभ्यर्णमभिपतति समित्रे पवित्रचारित्रेऽस्मिन्क्वचिदादरनिष्पादिताहाराघ्राणकुपितधरणीसुरकरतलकलितदण्डोपलघटनविघटिततनुरतनुवेदनावेगोत्क्रामदसुराससार सारमेयः सरणिमक्ष्णोः । तन्निरीक्षणक्षणोपजृम्भमाणकरुणः कारुणिकानामप्रेसरः कुमारः सारमेयोऽयमपगतासुप्रायतया प्रत्युज्जीवयितुमशक्य इति निर्णीय तत्कर्णमूले सादरं सत्वरं सानुक्रोशं च मूलमन्त्रमुपादिक्षत् । उपदिष्टं च दिष्टया तदवस्थोऽपि तरलितवालधिरुत्कर्णः समाकर्णयन्नेव सारमेयः शरीरमत्याक्षीत्, प्राविक्षच्च दैवीं तनुम् । ततो मुहूर्तमात्र एव पूर्ण गात्रस्तत्रैव तथाविधदिव्यतनुलाभमूलकारणकुमारावलोकनकुतूहलादागत्य तथा जपत एवास्य पुरस्तादस्थात् । अस्तोककायगभस्तिप्रसरैरालिम्पन्तमम्बकयुगमेनं दृष्ट्वा कुमारोऽयं विस्मयाविष्टः पृष्टवान् – 'आचक्ष्व भद्र, न चेदेष दोषः कस्त्वं कुतस्त्यः कस्मादस्मत्समीपमागतोऽसि ' इति । स च प्रत्यभाषत भषणचरः–“कुमार, विद्धि माममुमेव सारमेयम् । सारगुणधाम्नस्तव म हिम्ना नाम्ना सुदर्शनः सन्प्राविक्षं यक्षकुलाधिपत्यम् । भवत्पादसेवाकृते च कृतमिदमागमनम् । किमिह मया कर्तव्यं किं वा वक्तव्यम् । का वा भवदनुभावं कथयितुमलं भारती । तथाहि – निष्कारणमिदं मत्परित्राणमिति सति कार्पण्यकारणे रिक्तं वचः । दृष्टो मन्त्रस्य महिमेति जिनशासनलघूकरणम् । ईदृशसामर्थ्यशालिता नाश्रावि कचिदित्यपि न वार्तम् । प्रतिनियतसामर्थ्या हि पदार्थाः । अचरमोऽयमुपकार इति भवदवधान
Page #88
--------------------------------------------------------------------------
________________
चतुर्थो लम्बः ।
- ७७
परिच्छेदः । कृतार्थीकृतस्त्वयाहमिति त्रिभुवनकार्तार्थ्यविधायिनस्ते विशेषसमर्थनम् । साक्षादसि प्रत्यक्षसर्वज्ञ इति चरमदेहधारिणस्ते सिद्धानुवादः । समाश्रितकल्पद्रुमोऽसीति निशितप्रज्ञावधृतपात्रप्रकर्षस्य ते निकर्षः। भवति पर्यवस्यति परोपक्रियेति स्वभावव्यावर्णनम् । साक्षादकारि कारुण्यस्वरूपमिति कार्यपुनरुक्तम् । उदात्तशैलीयमिति ज्ञातज्ञापनश्रमः । तथापि हि किमप्यावेद्यते । आगतवति कृच्छ्रे क्वचिदनुस्मतव्योऽयं जनः" इत्यभिधाय कृतप्रणामः सप्रणयं परिष्वज्य परोक्षतामभाक्षीत् ।
___अथान्तरितवति तस्मिन्नुपान्तवर्तिनः कस्यचिदुद्यानतरोरधस्तादवस्थाय कुमारः प्रस्तुतदेववृत्तान्तममन्दादरादनुजवयस्यैः सममावर्तयन्मुहूर्तमत्यवाहयत् । अत्रान्तरे राजपुरवासिवैश्यपतिसुतयोः सुरमञ्जरीगुणमालयोः परस्परं स्पर्धा भृशमवर्धिष्ट । अतानिष्टां च ते संविदं विदांवरमुखादाकर्णिते चूर्णे पराजयः स्यादावयोर्यस्यास्तया नादेयजलस्नातया न भवितव्यमिति । प्राहिणुतां च निजचूर्णोत्कर्षनिकर्षनिर्णयाय लब्धवर्णाना
मभ्यर्णमात्मपरिचारिके । ते च निखिलकर्मनिर्माणपटिष्ठे चेट्यौ दिशिदि'शि परिभ्रम्य परिसरं कुमारस्य सादरमुपासरतामभ्यधत्तां च दत्ताञ्जलि पाणितलप्रणयितपनीयकरण्डकगते स्नानीयचूर्णे प्रदर्य 'कथय मिथो विशेषमनयोः' इति । तद्वचनसमाकर्णनेन निर्वर्ण्य चूर्णे तूर्णमसौ गुणज्ञः ‘सगुणमिदं गुणमालाचेटिकायाश्चूर्णम् ' इत्यवर्णयत् । श्रुत्वा तद्वचनं सुरमञ्जरीपरिचारिका परिकुपितहृदया सती 'भवदादिष्टमतिवैशिष्टयं विशेषदृष्टेः प्राक्कस्यचित्कथमवगन्तव्यम् । परोऽपि जनः पृष्ट एवमन्यथा व्याचष्टे स्म । किमध्यैष्ट भवानप्यमीभिरेवम् । ननु जीवक एव जीवलोके विवादपदनिर्णायीत्याकर्ण्य खलु भवति तिष्ठावहे' इत्यभाषिष्ट । सात्यंधरिरपि 'सत्यापयामि तर्हि मदुक्तम् ' इति तदुभयमुभयकरण गृहृन् ‘गृह्णन्तु चञ्चरीकाश्चूर्णमञ्चितमञ्जसा' इत्युदीरयन्नुपरि चिक्षेप । क्षे
Page #89
--------------------------------------------------------------------------
________________
गद्यचिन्तामण
पीयः क्षितितलपतनमसहमानैरिव मधुलिहां बृन्दरमन्दादराद्गुणहुब्धैरिव गुणाधिके गुणमाला चूर्णे तूर्णमङ्गीकृते भृशमङ्गनास्वासक्तजन इव क्षणादधस्तादपतदपरम् । अवर्णयच्चवायमभियुक्तः 'चूर्णयुक्तायुक्तेतरकालकरणादासीदसुरभित्वं सुरमञ्जरीचूर्णस्य' इति । तदेतदुपलभ्य चेटीमुखात्सुरमञ्जरी, सुरतरुमञ्जरी सुरकुञ्जरभञ्जनादिव जातवैवर्ण्या विवादविरहितसाक्षिभिः साक्षान्निर्णीतेऽपि निजचूर्णगुणक्षये 'गुणमालापक्षपातादुपक्षिताहम् । अपेक्षा यदा जायेत मयि गन्धोत्कटनन्दनस्य तावदहं कटाक्षेणापि क्षे पुरुषान् । वर्षशतं वा विधास्यामि तपस्यां तज्जनदास्यसंपादिनीम्' इति कृतसंगरा सङ्गगौरवात् 'वयस्ये, क्षमस्व दास्याः परिस्खलनम् ' इति पादयोः प्रणमन्तीं गुणमालामपि मालामिव मौलिच्युतामनादृत्यास्नातैव निजसदनैमासदत् । अचीकरच्च पितुराज्ञया पुरुषसंस्पर्शमरुतापि निजमन्दिरान्तिकमस्पृष्टम् । अथ तादृशं तस्याः सख्या वैमुख्यमुपलभ्य तन्निदानं चूर्णविगानमनुशोचन्ती यानमारुह्य नगरबाह्यात्प्रतिनिवृत्य निकटगतचेटीजनचाटुमपि श्रवणकटुकं गणयन्ती गुणमाला शनैः स्कन्धावारं प्रतिगन्तुमारब्धा । तावता समन्ततोधावन्मनुजानाममन्दार्तस्वरैर्मूर्छन् 'गच्छ गच्छ, गजेन्द्रः' इति रुन्द्रस्वनः श्रोत्रेष्वतिमा
मासीत् । आसीदति स्म च सीदतः स्त्रैणस्य तस्य समीपं संहृतसर्वलो - कः, काल इव कलितमूर्तिः, अधोमूर्धगशाबशतकलितगात्रतया स्वयमूर्ध्वगैरैव्यपेत इव पादैः, उड्डीयमानविहङ्गसंगताङ्गतया मङ्घ जवजिघृक्षया पक्षीकृतपक्ष इव लक्ष्यमाणः, क्षितिधर इव लब्धाङ्घिः, अधःकृताधोरणनिवारण ः कोऽपि मदवारणः । ततस्तत्संनिधिना निधिलाभेन नीचपरिज्ञान इव परिजने परिक्षीणे, सरभसमुत्सृज्य चतुरन्तयानं दिगन्तं वहत्सु वाहकेषु, सा दरिद्रमध्या दारिद्र्यादिव सहचरविगमादेकाकिनी तस्थौ । तथा तिष्ठन्तीमिमां दृष्ट्वा गुणमालां प्रियंवदेति तस्याः प्रियसखी 'प्राण --
७८
Page #90
--------------------------------------------------------------------------
________________
चतुर्थो लम्बः ।
७९
समामिमां मत्प्राणत्राणाय विहाय कथमपत्रपा प्रयामि । प्रयान्तु ममासवः प्रागेतन्मृतिप्रेक्षणात्' इति पृष्ठीकृत्य तां बिम्बोष्टी बद्धाञ्जलिः कुञ्जरस्य पुरस्तादस्थात् । अवसरेऽस्मिन्नाकस्मिकागतिस्तत्रैव परत्रोपार्जितसुकृतवैभवाद्विभव इव स धीरः कुमारः संन्यधात् । व्यधाच्च तद्दशानिशामनमात्रेण विजृम्भितक्षात्रधर्मः स्वमर्मस्पृगुपद्रवविद्रावणप्रवण इव प्रगुणं गुणमालारक्षणाय तत्क्षणे प्रयासम् । पुनः प्रतिमल्लविलोकनादुल्लोकरोषोद्धरस्य सिन्धुरस्य दान्तये दन्तयोर्मध्ये निजमणिकुण्डलशैलेन गण्डशैलेनेव प्रचण्डं प्राहार्षीत् । अनन्तरमन्तरिततजिघृक्षावेगो वेतण्डश्चण्डरोषप्रसारितशुण्डः शूरप्रकाण्डस्य तस्याभिमुखमभ्यवर्तत, प्रावर्तत च प्रहर्तुम् । तादात्विकोपायप्रयोगचतुरः कुमारोऽप्यनेकपमनेकप्रकारमायास्य परिणमति तस्मिन्करिणि चरणमध्येन प्रविश्य पृष्ठतो निरगच्छदतुच्छधीः । सा च मोचितापि कुमारेण मोचासमोरुमारमातङ्गकृतातङ्का समजनि । जनितमदनवेदनाविवशाङ्गी तन्वङ्गी तत्क्षणसमानीतमनुयायिभिरधिरुह्य चतुरन्तयानमन्तःप्रविष्टं कुमारमवलोकयितुमिवाधोमुखी, मुहुर्मुहुरापतद्भिनि:श्वासैरत्युष्णतया मर्मरिताधरपल्लवैराकुलितकुचोत्तरीया, निरुत्तरतया दत्तनमगिरः प्रियसखीः खेदयन्ती विवेश विविधसंनिवेशकान्तं निशान्तम्।
__ अथैनां तुहिनपरामर्शपरिम्लानपङ्कजिनीसच्छायां सत्वरमुपेत्य माता दुहितरं दुःखदीनाक्षरमप्राक्षीत्-" मातः, किमिति भवती कठोरतरतरणिकिरणतापितमृणालिनीव ग्लानिमनुभवति । निवेदयन्ति च नितान्ततीव्रनिःश्वासमरुतः स्वान्तसंतापम् । करिकदर्थनादतो भवत्याः किमस्त्यन्योऽपि मन्युहेतुः" इति । एवमुक्तापि प्रतिवचसा नाश्वासयामास मातरं मदिराक्षी । अथाधिक्षीणायामभिषङ्गादङ्गजायाः किमनङ्गाक्रमणेन किंस्विगहाणां ग्रहणेनाहोस्विदपरेण केनापि वा विकारोऽयमाविरासीदिति वितर्कविह्वलमनसि गतायां मातार , सहपांसुक्रीडापरिचयपेशल'
Page #91
--------------------------------------------------------------------------
________________
गद्यचिन्तामणौ
प्रियसखीराप निद्रामिषेण विद्राव्य समुत्सारितसकलपरिवारा प्रविश्य शयनगृहं शयनीयनिपतिताङ्गी निरङ्कुशनिपतदनङ्गशरनिषङ्गीभूता प्रभूतकुमारसौकुमार्यसंपदनुस्मरणसरणिसंचरदन्तःकरणा तदुपलम्भोपायान्वेषणलम्पटमतिः क्रीडाशुकं शोकप्रहाणये पाणौ कुर्वती सर्वमस्मै समीहितमावेद्य विद्यते किमत्रोपाय इति सप्रणयं सकृपणं सानुनयं सवीडं चान्वयुङ्ग । स च कीर: 'किमम्ब, कातर्येण । कार्यमिदमवनौ चेत्पार्यत एव मया साधयितुम्' इति सधीरं समभ्यधत्त । सा च मदनकृतोन्मादा प्रमदा प्रमाणस्य परां कोटि क्रीडाशुकवचसा सद्यः समासाद्य तमेव सात्यंधरिसकाशे ससंदेशं प्राहिणोत् । स च विहङ्गमो विहायसा सहसा पतन्परितः परिभ्रम्य परिश्रमच्छेदाय गन्धर्वदत्तागृहोद्यानगतस्य कस्यचित्कबलिताकाशावकाशस्य शाखिनः शाखाग्रे सविषादं निषीदति स्म ।
" स चापहसितमदहस्तिमदाडम्बरः कुमारः पुनर्मारकरनिपतदासारकुसुमपत्रिपतनपरवशगात्रः, कर्तव्यान्तरं विस्मृत्य विविधप्रयोगचतुरसहचरचारुगोर्ध्वपि गजनिमीलनं कुर्वन् , गुरुतरगुणमालाभिलाषभारवहनखिन्न इव स्विन्नवपुः, अत्युष्णमायतं च निःश्वस्य निजावसथमभ्येत्य निवारितनिखिलानुयायिवर्गः स्वर्गौकसामपि दुरासदं निजसदनोद्यानमासदत् । तत्र कचित्प्रच्छायशीतले महीतले निषण्णो विषण्णहृदयः स्वहृदयनिविष्टां तां बिम्बोष्ठी तत्कामिनीरूपमभिरूपोऽयमखिलकलासु कचिदतिविशङ्कटे पटे प्रकटिततदवस्थमालिखत् । अथ तामालेख्यगतामन्यादृशाभिख्यामतिदीननयनामधिकपरिम्लानवदनामागलितवसनामत्यु - ल्बणव्यसनामव्याजकरुणावहां गुणमालामालोक्य कुरुवंशशिखामणिरहो महिमा मकरध्यजस्य साक्षादिव तां संनिहिताममन्यत । यतस्तां पञ्चशरवञ्चितोऽयमवाञ्छदालिङ्गितुम् , आरभत तस्यै किमप्यावेदयितुम् , विषीदति स्म तस्यां जोषमवस्थितायाम् ।
Page #92
--------------------------------------------------------------------------
________________
चतुथो लम्बः ।
एवमवस्थान्तरं गच्छत्यतुच्छतदासङ्गात्सत्यंधराङ्गजे तुङ्गतरतरुशिखरनिलीनः स केलीशुकः साकूतं ससंभ्रमं च संभ्रमन्तमेनं प्रसारितशिराः सुचिरमुत्पश्यन् 'अयमेवास्माभिरन्विष्टो विशिष्टः । स्पष्टमयमप्याविष्ट इव मदनग्रहेण । गुणमालया भणितमिदं चिह्नमप्यह्रायास्मिन्नविसंवादमश्नुते । ततस्तमुपसमि' इत्यारचितविचारः कुमारनिकटमाटीकते स्म । कुमारोऽपि सविस्मयं साशकं च सपत्रमेनं पत्रिणमुद्वीक्ष्य 'न केवलोऽयम् । न हि निराशकं विहङ्गममात्रस्य त्रासान्निवर्त्य मर्त्यसनीडगतिर्जाघटीति । बाढमनेन च क्रीडाशुकेन भवितव्यम् । किंचायं शुकः किंशुकातिशायिचञ्चपुटे धत्ते किमपि पत्रमपि । दिष्टया सापि किमस्मद्यते यास्मानित्थमुन्मत्तयति । अचिन्त्यानुभावं हि भवितव्यम् । पुष्पबाणोऽपि वा निष्फलप्रयासः किमस्मास्वेव सायकं संधत्ते । संगमयितुमावां समुत्सुकस्य तस्य तस्यामपि विद्धायां हि मनीषितसिद्धिः' इतीत्थमन्यथाप्यमन्यत । तथा मन्यमानं मारमहनीयं कुमारमादरादभिप्रणम्य सप्रश्रयं समर्पितसंदेशः समुत्क्षिप्य दक्षिणं पादं पद्यमिदं पपाठ क्रीडाशुकः
___ 'विषयेषु समस्तेषु कामं सफलयन्सदा ।
गुणमालां जगन्मान्यां जीवयञ्जीवताच्चिरम् ॥' तदुपश्रुत्य विश्रुतविश्ववैदुष्योऽयममुष्य पाण्डित्यमतिचतुरं संभाव्य ससंभ्रमं संदेशं वाचयामास । आसीच्चास्य तत्कन्यालिखितमनन्यजसंजातसंज्वरस्य संजीवनौषधम् । अबुध्यत चात्मानमवन्ध्यप्रयासं गन्धोत्कटसूनुः । प्राणैषीच्च स मनीषी मनीषितार्थसमर्थनपरचतुरवचनगर्भप्रतिपत्रलाभेन प्रगुणप्रहर्षे गुणमालासनीडे क्रीडाशुकम् ।।
सा च तदागमनं प्रतीक्षमाणा प्रतिक्षणविजृम्भमाणोत्कण्ठा किमयं शुकस्तं जनं पश्येत्समीहितमपि नाम साधयेत् । कदा वा समागच्छेत् ' इत्युत्पन्नमतिरुद्रीवा चातकीव जीमूतागमनास्था गगनं समुद्वीक्ष्य
Page #93
--------------------------------------------------------------------------
________________
<२
गद्यचिन्तामण
सर्विषादं निषसाद । तथा निषीदन्तीं निरन्तरनिपतदायलकभल्लुबाहुल्यादकल्यामकल्याणाकृतिमादरादालोक्य शुकस्तां विच्छायां मानमवच्छेतुमलं प्रगल्भस्तल्पशरणां गुणमालां समभ्यगमत् । तथा सा च तमन्तरिक्ष एव वीक्षमाणा प्रसभं प्रतिगृह्य बाढं परिरभ्य हर्षाश्रुभिरध्वममिवापहर्तुमभिषिञ्चन्ती मुञ्चन्ती रोमाचं मुहुः शिरस्याघ्राय मुहूर्तमुद्दामसंभ्रमा वामोरुर्वामाक्षिस्पन्देन परिचितनिमित्तलाभेन प्रागेव सूचितशुभागमा शुकमुखप्रसादोक्तां पुनरुक्तां समीहितसंप्राप्तिं सात्यंधरिसंदेशतः संदेहविकलमाकलयत् ।
ततस्तां मनुभाषिणीं किंचिद्गलद्वैमनस्यां वयस्यामुखेन वसन्तबन्धुविकार चिह्नेन जीवंधरगतास्थया समुपस्थिततदवस्थां समुपलभ्य पितरौ भृशं प्रीणन्तौ ' गुणमालैव सत्यमियं गुणमाला, यदियमपहस्तितास्थानगतास्था सर्वथा योग्ये भाग्यादृते दुर्लभे वल्लभबुद्धिं बध्नाति' इति स्फारमुपलाल्य दुहितरं तत्कल्याणपरायणावभूताम् । प्राहिणुतां च गन्धोत्कटसविधे विविधवैदुष्यावामुष्यायणौ वर्षीयांसौ पुरुषौ । तावपि सादरमरमभ्येत्य तमिभ्यपतिमियत्तादूरमितरासंभवं तेन संभावितौ च ' तत्रभवतो: किमत्रागमने प्रयोजनम् । नियोजयतां समीहिते मां कर्मणि' इति सानु - नयमनुयुक्तौ च मुहुर्वक्तुमीप्सितमुपाक्रंसाताम् – “अयि महाभाग, धात्रीतले 'तव पुत्राय नः पुत्रों समर्पयाम' इति न प्रसर्पति व्यवहारः । तथापि भवतस्तनयस्य भुवनप्रतीक्ष्यत्वादपेक्ष्यतेऽस्माभिरयमर्थः । श्रुत्वेदमत्रभवानत्र प्रमाणम् ” । इति सकृपणं सप्रणयं च ताभ्यां प्रणीतं वणिक्प्रवेकः प्रतीच्छन् 'अस्तु को दोष:' इत्यभ्युपागच्छत् ।
अथ गन्धोत्कटे तयोरत्युत्कटप्रार्थनया तमर्थमभ्युपगतवति, प्रतिक्षणसमापतद्बान्धवशतसहस्रसमाकुले प्रणयिजनप्रेषितप्रभूतप्राभृतभरितखलरी परिसरे प्रकृष्टशिल्पिलोक कल्प्यमानपरिकर्मविकल्प कमनीयनिवेशे
Page #94
--------------------------------------------------------------------------
________________
चतुर्थो लम्बः ।
नैकशतवितानोपधानपताकाद्युपयोगपाठ्यमानपट्टांशुकपटले पद्मरागमणि
तोरणोत्तम्भशुम्भितबहिर्द्वारवितर्दिके वित्तवितरणानन्दिवन्दिबृन्दारकबृन्दपाठ्यमानप्रशस्तिकाव्यकलकलमुखरे मुहुर्मुहुराहूयमानपरिणयनोपकरणसंनिधापन कर्मकर्मान्तिके गृहचिन्तकचिन्त्यमानसदनप्रतिविधेये विधेयचामीकरकारविधीयमानमण्डनहाटकघट्टनटङ्कारवाचालिताभ्यर्णे निर्वर्त्यमानमङ्गलवसनताम्बूलाङ्गरागे वधूवरभवने बभूवतुः । ततः समागतवति सकलमौहूर्तिकमहिते विवाहदिवसे दीप्यमानशिखाजालजदिलितस्य शिखिनः पुरस्तादास्थावदाकल्पका लिप्तघनतरघनसार सुरभिपटीरपङ्कपरिमलितदेहाम्, देहजजगज्जयाभिषेककलशकौशलमलिम्लुचकुचयुगलविलम्बमानहारतारकिततनुम्, तदात्वफुल्लुबन्धूककान्तिबान्धवरक्तांशुकपाटलित नितम्बाम्, पाकशासनदिशमिव दृ
-
उद्यदम्बरमणिकिरणकलापलोहितसकाशाम्
"
८३
श्यमानाम्, दर्शनीयभूषणमयूखलताकुलितलोकदृशम्, तटित चिरावस्थायिनीम्, अवस्थापितकुसुमदामसारेण रोहदुडुपटलजर्जरि - ततिमिरविराजिविभावरीविलास चोरेण चिकुरभारेण कामपि शोभामाविर्भावयन्तीम्, कुबेरमित्रदत्तां विनयमालासुतां गुणमालां गुणवति लग्ने लग्नकः सकलजन्तुजीवनस्य जीवंधरः सादरमुपयेमे ।
इति श्रीमद्वादीभसिंह सूरिविरचिते गद्यचिन्तामणौ
गुणमालालम्भो नाम चतुर्थो लम्बः ।
—(*):—
Page #95
--------------------------------------------------------------------------
________________
८४
गद्यचिन्तामण
पञ्चमो लम्बः ।
अथ परिणयनानन्तरमन्तरायरहितविजृम्भणेन विषमशरेण समारोपितो रागशिखरं शिखरदशनया तया समं संसारसहकारपचेलिमफलायमानान्मन्दीकृतमहेन्द्रोपभोगमहिमाभोगान्भोगाननुभवितुमारभत कुमारः । तथाहि - नवपल्लवदलनिचयनिर्मितशयनेषु परिमलतरलमधुकरपटलपटावगुण्ठितपरिसरेषु गृहोद्यानलतागृहेषु लक्ष्यीभूतः कुसुमशरशराणां कमलदृशातया सह सुचिरमरमत । वारणपतिरिव वनसरसि करिणीसखः कंदर्प - विजयपताकया तया तन्नितम्बबिम्बाहतिजर्जरिततरङ्गमालासु तदात्वसंभ्रमदम्भःसंक्षोभितकमलसमुडीनरोलम्ब कदम्बकबलिताम्बराडम्बरासु क्रीडावापीषु चिरं चिक्रीड । अध्यास्य तनुमध्यया सह समन्तादास्तीर्णतूलशयनान्भवनमणिवलाभिनिवेशान्निशासु निशापतेर्निर्यदमृतनिः स्यन्दान्करकंदलान्प्रतीच्छन्निच्छाधिकं विनोदयामास विलोचनचकोरमिथुनम् ।
इत्थं गमयति कालं कलानिधौ कामतन्त्रपरतन्त्रे जीवकस्वामिनि भामिनी सखे सखेदः स गुणमालोपद्रवकरः करी तत्कुण्डलाहतिजातवैलक्ष्यः प्रक्षीणतनरतनुपरितापपरीतमना मनागपि मन्देतरयत्नेन यन्त्रा सानुनयं साधिक्षेपमर्प्यमाणमतीव स्वाद्विष्टमपि नाददे कबलम् । निःश्वासदीर्घमुष्णं च पुष्करलिखितमहीतलः केवलं पाकलाशङ्किभिरङ्गीकृतविविधभैषज्यैर्भिषक्त मैस्तथा चिकित्स्यमानो न तादृशीं दशां क्षणमप्यत्या
क्षीत् ।
Page #96
--------------------------------------------------------------------------
________________
पञ्चमो लम्बः ।
अथ कुण्ठीभूतसकलभैषज्यप्रयोगजनितलज्जेषु वैद्येषु, बहुदिव - सपरिहृतक बलग्रहक्षीणवपुषि विलङ्घितनिजवचनविषण्णनिषादिनि नितरां सादिनि दन्तिनि, तस्य तथाविधविकारकारणमाधोरणा जीवककृतां कुण्डलाहतिमेव समाकलय्य पापिष्ठाय काष्टाङ्गाराय सावेगमावेदयामासुः । स च शबरचारभटशूरगृहीतगोधनपुनरानयनप्रकटितपराक्रमपाटवाहितेन
८५
निजवारवामलोचनावर्गान्तरङ्गीभवदनङ्गमालाङ्गीकरणप्ररूढेन गन्धर्वदत्तापरिणयनसमय संजातपरिभवपरिणतेन निजाधोरणनिवेदितवारणाहतिश्रवणसमीरसंधुक्षितेन स्फुटितजपाकुसुमपाटलनयनप्रभापटलच्छलादतिप्रभूततया हृदयादपि बहिर्निर्गच्छता तुच्छेतरेण कोपहुतवहेन प्रलयसमयविसृमरप्रगुणकिरणकलापकबलि दिक्परिसरः पतिरिव तेजसामशेषजननयनदुर्निरीक्षत्र्यक्ष इव त्रिभुवनपरिक्षयचिकीर्षुराविष्कृतभैरवाकृतिरमर्षल
क्ष्मीप्रवेशमङ्गलमणितोरणसविभ्रमभ्रुकुटिबन्धेनान्धकारितललाटफलकः परिसरवर्तिनः पुरुषानादिक्षत् ' आनीयतामनेन क्षणेन दुरात्मा जीवकः ' इत्यारूढकोपकाष्ठः काष्ठाङ्गारः । तेऽपि तनया इव यमस्य प्ररोहा इव साहसस्य, प्रकर्षा इव पराक्रमस्य, विग्रहा इव सामर्थ्यस्य, करकलितकरवालकरणतर्पणप्रासतोमरभिण्डिपालप्रभृतिविविधायुधा यौधाः कुमा
"
रभवनमरुन्धन् ।
अथ निरुपमपराक्रमपाटवमदोत्कटो गन्धोत्कटतनयः स्वगृहानिर्गत्य निरवधिकरोषप्रसरः केसरीव हारिणयूथं तरणिरिव तमः स्तोमं दावदहन इत्र वनतरुषण्डं प्रलयपवन इव पर्वतनिवहं करिकलभ इव कदलीकाननं तत्क्षणेन क्षपयितुमात्मजिघृक्षागतमशेषं बलमारभत । आरम्भसमसमयमागत्यास्य जनयिता 'जात, नैवं कर्तव्यम् । स्थातव्यं हि निदेशे देशाधिपतेः । तस्योपसरेम परिसरम् । प्रज्ञापरिबर्हविरहिता हि पराक्रमा न क्रमन्ते क्षमाय । तदमीभिः सह गच्छेम राजभवनम् । अनुभ
8
Page #97
--------------------------------------------------------------------------
________________
८६
गद्यचिन्तामण
वे भाविनमर्थम्' इत्यभिदधान एव निवार्य तं यौधनिधनोद्यतमात्मजमात्मजन्मदिवसादारभ्यार्जितमशेषं वित्तमुपायनीकृत्य तेन सह नीति व कबधुर्गन्धोत्कटः काष्टाङ्गारस्यागारमयासीत् । प्रविश्य मणिमण्डपस्य मध्ये महति विष्टरे समुपविष्टमेनं ज्वलन्तमिव कोपदहनेन दारुणकोपचयपलायितपरिजनमकाण्डाविरचितनिद्राभङ्गविजृम्भितामर्षभीपणवपुषमिव केसरिणं भीतभीतः कथंकथमप्युपसृत्य तनयेन सह गन्धोत्कटस्तन्निकटे हाटकराशिममरेशनिशितशतकोटिशकलित सुमेरुशिखरसहचरं संनिधाप्य 'स ह्यतामयमपराधः शिशोः । दीयन्ताममुष्य प्राणाः' इति प्रणयकृपणमभाणीत् । काष्ठाङ्गारस्तु कारुण्यास्पृष्टहृदयः 'किमष्टापदेन ' इति प्रत्यादिष्टकुमारप्राणप्रणयनभणितिर्धरणीतलविनमितशिरसं कृपणवचनमुखरितवदनमतनुतरतनयस्नेहान्धं गन्धोत्कटम् 'गम्यताम्' इति सावज्ञं विसृज्य स - मक्षमवस्थितानारक्षकाध्यक्षान् 'अस्य पराक्रममदक्षीत्रस्य क्षेपीयः क्षपयतासूनू' इति सरोषमभाषत । तेऽपि तथेति तदाज्ञामञ्जलिबन्धेन प्रतीच्छन्तः प्रगृह्य कुमारमतित्वरितपदप्रचारप्रचलितभुवः प्रस्थातुं वध्यस्थानं प्रति प्रारेभिरे ।
अथ प्रतिहतवचसि प्रभूतविषादविषमूर्छालमनसि विस्मृत कर्तव्यवर्त्मनि सद्यः सद्म समासाद्य निजसुतविनिपातविजृम्भमाणदारुणशुचमविरलनिर्यदश्रुजलविलुलितदृशमश्रान्तविरचिताक्रन्दां सुनन्दाम् • अलं संतापेन । संस्मर पुरा चर्यार्थमागतेन तपोधनेन सविस्तरमुदीरि - तां कुमाराभिवृद्धिशंसिनीं कथाम् | अवितथवचसो हि मुनयः' इति सा - न्त्वयति समवगतसुतोदन्तप्रबन्धे गन्धोत्कटे, कटकवासिनि जने जनितानुशयेन 'राजते राजता काष्टाङ्गारस्य । कष्टमिदमकाण्डे विधिचण्डानिरालम्बा लस्य विलसितम् । अद्य निराश्रया श्रीः, निराधारा धरा, सरस्वती, निष्फलं लोकलोचनविधानम् निःसारः संसारः, नीरसा र
,
Page #98
--------------------------------------------------------------------------
________________
पञ्चमो लम्बः ।
सिकता, निरास्पदा वीरता ' इति मिथः प्रवर्तयति प्रणयोगारिणीं वाणीम्, सखेदायां च खेचरचक्रवर्तिदुहितरि दयितविमोक्षणाय क्षणादाविभावयन्त्यामन्तिके स्वविद्यां विद्याधरकुल क्रमागताम्, क्रमज्ञः स कुमारोऽपि मारयितुं पारयन्नप्यात्मपरिभवविधानलम्पटान्भटान् ' किमेभिर्निष्फलं निहतैः । नासीदति गुरुजनादिष्टः काष्ठाङ्गारवधसमयः' इति साहसाय संनह्य - ' मानमात्मानं निवार्य सुदर्शननाम्नो देवस्य सस्मार । स च कृतज्ञः कृतज्ञचरो देवस्तदा ध्यानानन्तरमन्तरिक्षपथमभिनवतमालकाननका लिममलिम्लुचैः कालमेघनिचयैः कवचयन्, नभस्तलस्त्यानमेदिनीपरागपूरदूरान्तरतदिवाकरेण समुन्मूलितोत्क्षिप्तवृक्षषण्ड संमीलिताकाशदिगवकाशेन चण्डाभिघातघूर्णमानगिरिशिखरविशीर्णगण्डशैलेने तस्ततस्तूललीलया नीतगृहपटलीपटलेनाभिपातताडनविह्वलितावनीतलविलुठदखिलजीवधनेन झञ्झासमीरेण समुत्सारितसकलारक्षकबलः, सहेलमादाय कुमारमन्तरिक्षे - क्षणादिव गत्वा गीर्वाणसद नसदृक्षमक्षय सुखसंगतं शृङ्गपरामृष्टचन्द्रं चन्द्रोदयं नाम निजशैलमशिश्रियत् । अकार्षीच्च तत्र हर्षोत्फुल्लमुखः शत1 -मखसद नातिशायि सौधाभ्यन्तरस्थापितभद्रासनमध्यमध्यासीनस्य जीवकस्वामिनः स्वभर्तृमुखपरिज्ञातकुमार महोपकारितात्यादरेदारैः सार्धं पयोवार्धिपयोभिरभिषेकम् । व्याहाच्चि - " कुमार, मां विश्वदूषणपात्रे भाष
गात्रे स्थितमेवं पवित्रीकृतवतस्ते 'पवित्रकुमारः' इति भवितव्यं नाम्ना " इति । एवं कृतज्ञानां धुरि कृतज्ञदीक्षेण यक्षेण कृतां पुरस्क्रियामनुभूय भूयसीं भूयस्तेन सममेकासनमध्यास्याप्सरसामतिपेलवं नाट्यमालोकयति कुमारे कुमारमारणाय प्रेरितः स चौरिकाध्यक्षोऽपि प्रतारणदक्षतया 'क्षपितजीवं जीवककुमारमकार्षम्' इति वचसा हर्षकाष्ठागतं काष्ठाङ्गारं विधाय तदीयं प्रसादमनासादितपूर्व लेभे ।
ततः सुनन्दासुतोऽपि सुदर्शनयक्षावरोधजनेन वर इव परया
Page #99
--------------------------------------------------------------------------
________________
८८
द्यचिन्तामण
मुदा संभाव्यमानः संपदं यक्षपतेर्नेजीमेत्र निर्व्याजं गणयन्नपि गणरात्रापगमे 'किमत्र मुधावस्थितिरास्थीयते । गुरूपदिष्टराज्यप्रवेशार्हत्रासरात्पूर्वमपूर्वचैत्यालयवन्दनेन कन्दलयामः सुकृतप्रबन्धम्' इति मनो बबन्ध । प्रियबन्धुरयस्य बन्धुरमभिसंधि तदनुबन्धिफलोपनतेरनवधिगतामवधिचक्षुषा वीक्षमाणः क्षोणीभ्रमणेन कुमारोपलभ्यस्य फलस्य भूयस्तया कथ मप्यन्वमंस्त । अदाच्च तस्मै ‘मा स्म कुरुथाः कुरुकुलपते, तत्र प्रेष्यस्य प्रार्थनाकदर्थनेनावज्ञाम्' इति याच्ञापूर्वकं सर्वविषापहरणे गानविद्यावैशारद्यकरणे कामरूपित्वकल्पने ऽप्यनल्पशक्तिकममन्दादरान्मन्त्रत्रयम् । अभ्यधाच्च ' कुमार कुरुकुल कुमुदेन्दो, कुमुदैश्वर्यासमसमरसाहस लम्पटसुभटभुजादण्डखण्डन प्रचण्डनिबिडघटित कोटीरकोटिविततियुतगणनविरहि तनरपदृढरचितसभायां स्वयंवरानन्तरं विवाहसमये मरणपरिणतिमेष्यन्ति यदरयोऽपि तवोदयोऽपि समासीदति मासि द्वादशे मदुक्तमिदं द्रक्ष्यसि पुनर्मोक्ष्यसि च' इति । एवममृतायमानममृताशिनो वचनमदसीयाप्सरसां सरसानि वचांसि च श्रवणयोरवतंसीकुर्वति पर्वतादवरुह्य मह्यां गन्तुमारभमाणे कुमारे, सुदर्शनयक्षोऽप्यक्षमो भवन्विरहव्यथां सोढुं गाढं परिरभ्य पथान्तरोदन्तं चेदंतया व्याहृत्य विसृज्य कुमारमादरकातर्यात्पुनरप्यनुसृतकतिपयपदः प्रतिनिवृत्य प्रस्खलितपदः स्वपदाभिमुखस्तन्वन्पदेपदे पृष्ठावलोकनं साहाय्यमनुष्ठातुमनुचरमिव कुमारस्य कुवलयित कुवलयं लोचनयुगलं प्रेरयन्प्रचुरानुशयः शनैः शनैर्निजशैलमशिश्रियत् । एवं चिरादधिरुह्यान्तरिक्षमन्तर्हिते यक्षेन्द्रे, मृगेन्द्र इव वीतभीतिः स्ववीर्यगुप्तः स कुरुकुलकुमुदेन्दुरप्यमन्दादरादरण्यशोभाप्रहितेक्षणो विहरन्वि - गतातपत्र मेनमातपात्त्रातुमिव निराकृतातपान्मार्गपादपान्निरन्तर निपतन्निर्झरनिभेन निःसहायकुमारनिरीक्षणदाक्षिण्यविगलदविरलाश्रु प्रवाहसंभृतानि
"
"
Page #100
--------------------------------------------------------------------------
________________
पञ्चमो लम्बः ।
व महीभृतश्च प्रेक्षमाणः प्रत्यक्षितयक्षोदित चिह्नमह्नाय महान्तं कान्तारप
थमलङ्घयत् ।
ततश्चाग्रतः क्वचिदुग्रतरोष्मदुष्प्रापे विस्फुलिङ्गायमानपां सूत्करे करिनिष्ठयूतकरशीकरावशिष्टपयसि निःशेषपर्णक्षयनिर्विशेषाशेषविटपिनि निर्द्रवनिखिलदलनिर्मितमर्मरस्वभरितहरिति मरुत्सखसब्रह्मचारिमरुति करेणुतापहरणकृते निजकायच्छायाप्रदायिदन्तिनि वारणशोणितपारणापरायणपिपासातुर केसरिण्युदन्यादन्यप्रपञ्चवञ्चितहरिणगण लिह्यमानस्फटिकटश्रदि मरकतमयूखरेखापरहरिताङ्कुरद्रुहि मृगतृष्णिकाविलोकनोन्मस्तकसलिलतृषि गुल्म संदेहसमापादन चतुरबर्हिबर्हान्तः प्रविशदातपक्लान्तबालफणिनि भक्ष्यदुर्भिक्षतानुपलक्षितवनमहिषकुक्षिणि तापताम्यद्दवकरभीकरशूत्कारकांदिशीकश्वाविधि मृगगणनिर्मासताकृतमृगयोपेक्षा बुभुक्षितवनौकसि वनदहनदह्यमानवंशपरिपाटीपाटनप्रभवझटझटारव चकिताध्वगमनसि दीनताशान्तवानरकुललीलाकर्मणि घर्मसमयारम्भसमधिकदुःसहोष्मघर्माभिधानरसातलज्येष्ठे मरुपृष्ठे निश्वरदचिश्छटावलीढवेणुस्फोटस्फुटपुर:पटहेन शुष्काण्यपि शिरांसि महीरुहां ज्वालाभिः किसलयितानि कुर्वाणेन, दन्दह्यमाननीडोड्डीननिरालम्बाम्बरभ्रमणखेदपतितपत्रिपत्रपालचिटचटायितरटितवाचाटेन विपिनसत्त्व संतान विविधवसागन्धानुबन्धविगमायेव सपाद निर्दग्धस्निग्धकालागुरुतरुगहनैरात्मानं धूपयता, कुसुमचषकपुटेषु कृतमधुरसास्वादनमदवशादिव प्रतिदिशं पतता, साटोप कबलयता स्वाहितवलाहकगृह्यतागर्हयेव बर्हिणव्यूहान् वैरिवारिसंभवरुषेव शोषितसरसीगर्भस्थितानि वारिजजालानि लेलिहता, गृहीत गरुडस्वभावेनेव निर्विशङ्कचर्व्यमाणदुर्वहभोगभीमभोगिना, निजजीवितापहारिजीमूतमूलच्छेदेच्छयेव स्फुलिङ्गव्याजेन वियति समुद्गच्छता, दुष्कालेनेव तुच्छेतरधूमप्रच्छादितद्यावापृथिवीविभागेन, पात्रदानेनेव भूतिविधायिना, बौद्धेनेव लब्ध
"
८९
Page #101
--------------------------------------------------------------------------
________________
गद्यचिन्तामणौ
सर्वस्वभक्षिणा , तत्त्वज्ञानेनेव तमोपहेन , अतृप्तिमत्त्वादतिगृनुजनदेशीयेन, प्राप्तदूषणाद्वेश्याजनवेषान्तरेण, दुष्प्रवेशत्वादाढ्यगृहातिशायिना , सुजनलोकेनेव पांसलस्थले स्पर्शरहितेन, गुणराशिनेव वंशोत्कर्षप्रकृष्यमाणेन , तस्करेणेव रक्षाभूयिष्ठे निवृत्तसंरम्भेण दावपावकेन परितः परीततया परितापपराधीनान्कृपाधीनमनाः स दीनोद्धरणोचितः कुमारः शतह्रदाशतवलयितानिव बलाहकाननेकपानैक्षिष्ट ।
___ दृष्टमात्रेष्वेव तेषु स्वगात्रस्पृगुपद्रवादिव दूयमानः सुतरां सुदर्शनसुहृदयं तदुपद्रवपरिहृतये हृदयनिहितजिनपतिपदपङ्केजः सुप्तमीनह्रद इव निभृतनिष्पन्दाक्षिपक्ष्मा क्षणमस्थात् । तावता ववृषुः परुषतरालोकनिमीलिताम्बकानामम्बरमालिम्पतामकालबालातपरुचां शम्पासहस्राणामजस्रोन्मेषणमण्डिताः शुण्डालौरसशुण्डादण्डप्रकाण्डतुल्यस्थौल्यनीरधारानिरन्तरितान्तरिक्षाः प्रतिक्षणसुलभफणिपतिरणरणकवितरणचतुरगम्भीरगर्जितजरितश्रवसः पर्जन्याः । तदनु च निजोदरनिलीनसानुमति सलिलाहरणधिषणागतनीरदायमानद्विरदपरिषदि बाडवकृपीटयोनितुलितबिलविवरपीयमानपयसि शौक्तिकनिकरानुकारिकरकोत्करहारिणि विडम्बितविद्रुमलतावितानद्रुमकिसलयोपशोभिनि सागरसब्रह्मचारिणि प्रवहति पयःप्रवाहे दावचित्रभानोः परित्रातानालोक्य गजान्गजेन्द्रगामी गतानुशयः शनैरतिक्रम्य मरुभुवं गत्वा गव्यूतिमात्रं तत्रैव महावंशतया महासत्त्वतया महीभृत्तया महोन्नतितया चात्मानमनुकुर्वन्तं कमपि पर्वतं तदखर्वगर्वनिर्वासनाय निवेशयितुमिव निजामियुगमस्य शिरसि सिंहपोत इव शिलाविभङ्गेन साहंकारः समधिरुह्य महीभृतस्तस्य मणिमकुटायमानं जिनपतिसदनम् , पिपासातुर इव धाराबन्धमादरान्धः समासाद्य , सद्यः संपुल्लमल्लिकावकुलमालतीप्रमुखफुल्लगुच्छैः पूजार्हमर्हन्तमतिभक्तिरभिपूज्य , पुनरपि तरुणतरणिरिव गीर्वाणगिरि प्रकृष्टमनोरथः प्रदक्षिणं भ्रम
Page #102
--------------------------------------------------------------------------
________________
पञ्चमो लम्बः ।
९१
नू, तत्रत्यया जिनशासनरक्षियक्षिदेवतया सादरसंपादितकशिपुः ततो . विनिर्गत्य विश्वतः शश्वदुपपादिततरुणीचरणयावकरससंपर्करक्त तलतया स्वयमपि पल्लवितरागमित्र पल्लवव्यपदेशं देशमशिश्रियत् । तदनु च तन्मध्यनिवेशितं निर्दोषतया दोषाधिपतिरिति सदा सुवृत्ततया व्यवस्थाविकलवृत्त इति कलाक्षयरहिततया परिक्षीणकल इति च परिभवन्तं चन्द्रम्, चन्द्राभं नाम कमपि स्कन्धावारम्, नैकवार संभवदसंभविनिमितोपलम्भेन ससंभ्रमं गाहते स्म । तस्मिन्नपि स्थानस्थानेषु वाचंयमानामित्र वर्जितव्याहृतीनां साद्यस्कहविषा मित्र बाष्पनिष्पादनव्यसन जुषां भूरिफलभरित भूरुहामिव विनम्रशिरसां पुरौकसां नालनिष्कुषितनलिनानीव प्रम्लानवदनानि प्रेक्षमाणः प्रान्तवर्तिनं कमपि दान्तहृदयं पुरुषममृतवश्रीयमाणदशनकिरणैः सकरुणमिव सिञ्चन्वनकुञ्जरोत्पाटितविटपिपेटकस्येव विश्वस्यापि जनस्य विच्छायतानिदानम् ' किमवगच्छसि' इत्यपृच्छत् । स च कुमारमादरादभिपत्यैवमब्रवीत् — “भद्र, भद्रासिकार्थिपार्थिवपरार्ध्यकिरीटपादपीठप्रतिष्ठितपादपल्लवः पलत्रदेशापदेश कुबेर कोशगृहपतिः पतितजनदुरालोको लोकपालो नाम राजा भवत्यस्या राजधान्याः । तस्य च सकलगुणगरीयसी कनीयसी प्रज्ञाशालिजनकलाभेन जडाशयप्रभवेति पतिदेवताव्रतभाविबहुमानप्राप्त्या बहुपुरुषाभिलाषिणीति लोकपालसहजसंगमेन लोकविनाशकरगरलसोदरेति च गर्हमाणा पद्मां पद्मा नाम । कन्यामिमामिदानीं कन्यागृहान्निर्गत्य गृहोद्याने स्वकरावर्जितजलसेकेन सस्नेहमभिवर्धिता पुष्पवती जाता माधवीलतेति महोत्सवमारचयन्तीं तद्वदनगोचरशशाङ्कशङ्कयेव भुजङ्गमः कोऽप्यस्प्राक्षीत् । नरेन्द्राश्वासनरेन्द्रा इव प्रबलप्रार्थिनो व्यर्थप्रयासाः । तन्निमित्तोऽयं मर्त्यानां शोकः । शाकुनिस्तु कश्चिन्निश्चेतनेयं यदि जातापि कन्यका तावदेनामनन्यसाधारणविषहरणनैपुणः कोऽपि प्राणैः समं सांप्रतमेव संगमयतीति संगिरते ।
Page #103
--------------------------------------------------------------------------
________________
९२
गद्यचिन्तामणौ
नरपतिरपि तद्वचनविश्वासाद्विश्वदिश्यपि शक्तिमदन्वेषणाय शुद्धान्तादपरमन्तिकचरं प्राहैषीदघोषयच्च ‘विषहरणसमर्थाय मम राज्याध वितारध्यामि' इति । महाभाग , महीपतिना विषविद्याविदग्धान्वेषणाय प्रेषितेध्वहमप्यन्यतमः कश्चिदस्मि । कार्येऽस्मिन्कच्चिदार्य , भवतोऽप्यधिकारोऽस्ति" इति। तद्वचनानन्तरं जीवकस्वामी च 'जीवमात्रस्याप्युपद्रवो द्रावयितव्यः। किमुत प्रबलोऽयमबलाजनस्य' इत्यन्तश्चिन्तयन् 'अयि भोः, तत्र यामो वयम् । अस्तु वा न वा प्रस्तुतकर्मणि प्रावीण्यम्' इति प्रणिगदन्नेव राजगृहमुपसृत्य प्रवर्तमानतुमुलनिवर्तितवर्षधरनिवारणयन्त्रणमनामन्त्रित एव प्रविश्य कन्यान्तःपुरं तत्र सर्वतोऽपि सर्वसहापृष्ठे वेष्टमानगात्रयाष्टं कष्टां दशामापन्नमाक्रन्दमयमिव शोकमयमिव विलापमयमिव व्यामोहमयमिवाश्रुमयमिवामयमयमिव निरूप्यमाणं जनं तन्मध्यगतां धवलकोमलकदल्यन्तर्दलसच्छायप्रच्छदाच्छादितशयनीयमधिशयानां मृणालिनीमिव च्छिन्नमूलां विच्छायां कन्यकामपश्यत् । व्यचिन्तयच्च तदङ्गकान्तिकेन्दलितकन्दर्पदपः 'न चेयमप्सरसः, न हि तस्याश्चक्षुः पक्षीकृतपक्ष्मक्षोभम् । न वासौ तडिल्लता, न हि तस्या अप्येवमतिपेलवाङ्गोपाङ्गसंगतिः । न वैवासौ रतिः , न हि तस्यास्तनूजन्मना भुक्तोच्छिष्टाया एवमक्लिष्टाङ्गयष्टिता घटते । नूनमियं भुजङ्गेनाप्यनङ्गाविष्टेन किं स्पृष्टा' इति । एवं चाभ्यथा चिन्तयन्तमन्तिकचरमुखादुपलब्धमहिम्नि महीपतावपि सपादपतनमवरजाकच्छ्रमुच्छेत्तुमुपच्छन्दयति तदिच्छां विनापि तत्कर्मणि कम्रोऽयमानम्रोद्धारी कुमारस्तथेति तद्वक्रमालोक्य निमेषमात्रेण तां निर्विषीचकार । स्वीचकार च पुनरेनां कन्दर्पसर्पः । वपुष्मान्मारो हि कुमारः । कथमेनं साक्षादुद्वीक्ष्य चक्षुष्मती कन्या न भवेदनन्यजाक्रान्ता । ततश्च सा सकृदवलोकनकृतव्यसनभूयस्तया भूयः कुमारमपारयन्ती द्रष्टुं विषवेगमिषेण पश्चादपि निमेषणमेवात्मनः शरणममंस्त । अतर्कयच्च प्रथमतरमनुभूयमानस्म
Page #104
--------------------------------------------------------------------------
________________
पञ्चमो लम्बः ।
९३
-रविकारा 'कथयन्ति निकामं कामो नाम कश्चिदस्तीति । किमयं सः' इति । तदवस्थालोकनेन लोकपालभूभुजि पुनरपि गरलसद्भावशङ्काभयालिङ्गिते भृशमिङ्गितज्ञः कुमारोऽपि कामतन्द्रालुमन्त्रयन्निवानङ्गातुरमात्मानमपि तदङ्गस्पर्शन चरितार्थीकुर्वन्समानयोगक्षेमतां लेभे । मुमुचे सा च मोचोरुस्तदीयचतुरकरतलस्पर्शनमनुमहिम्ना प्रद्युम्नगरलवेगात् । उदस्थाच तल्पादाकुलिताकल्पा । बुबुधे च सविधगतान्विविधौषधहस्तान्समस्तानपि पुरुषान् । तिरोदधे च तिर्यग्वलितमुखी पर्यङ्कादवरुह्य ह्रीयन्त्रणेनाकृष्टा संनिकृष्टचेटीपेटकस्य मध्ये । तावता तत्परित्राणविहस्तो जनः समस्तोऽप्युन्मस्तकहर्षमूर्तिः कर्तव्यान्धो गन्धर्वदत्तादयितं दत्ताञ्जलिरभिप्रणम्य 'प्रयाणाभिमुखान्प्राणान्प्रतिपादयन्प्राणनाथोऽप्ययमेवास्याः' इति स्वयमेवाचीकथत् । लोकपालोऽपि 'लोकोत्तम , लोकोत्तरोऽयमुपकारः। किमिह तवाहं व्याहरामि । मम राज्यं मम भोज्यं मम गात्रं मम मित्रं मम प्राणा मम त्राणं च त्वदधीनं' इत्यभिदधानः , प्राप्तमनःप्रसादमेनं प्रासादे क्वचित्प्रचुरोपचारमवस्थापयन् , अपास्तसमस्तजनं मन्त्रागारं मन्त्रिभिरधिरुह्य मन्त्रयामास–'अयि मान्याः , कन्यायाः प्रकृतोऽयमुपद्रवः सुकृतोदयादुपाशमत् । अतः परं परोऽयमपारो ह्यस्याः प्रशस्तवरान्वेषणप्रभवः । ततः कथमनारोपितदोषं कथंकथमपि कमपि जामातरमुपलभ्य तमपि दुस्तरं बाढं निस्तरामः । कुमारोऽयमनवद्याकृतिरविद्यमानप्रत्युपकारमुपाकरोत् । अनुरूपश्च रूपयौवनसुगुणैः । किंच, तां मञ्जुभाषिणी स्वहस्तेनाप्यस्पृशत् । या चास्माकमयमविदितगोत्रविशेषो वैदेशिक इति जाता संशीतिः सापि सांप्रतं निरस्ता , यतस्तदीयो वृत्तान्तस्तदनुभावकण्ठोक्त्यायमवगतः । एवंगते सति यदत्र प्राप्त प्राप्तरूपा निरूपयन्तु भवन्तः इति । तन्निशम्य नीतिविदः सचिवाश्च ‘देव किमत्र विचारेण । सर्वथा स एव योग्यः कुमारः' इत्युदीरयामासुः ।
Page #105
--------------------------------------------------------------------------
________________
गद्यचिन्तामणौ
अथैवमात्माभिमतममात्यानुमतं च वधूवरसंगमं संपादयितुमुलोकसंविधाविधायिनि पल्लवदेशभूभुजि, परश्वः खलु भविता पाणिपीडनमहोत्सव इति जनवादे विजृम्भमाणे, विजृम्भितमन्मथव्यथः कुमारोऽप्येकामपि त्रियामां सहस्रयामां सर्वथा निश्चिन्वन्पश्चिमे यामे यामिनीस्वामिन्यपि स्वामिरहःसंभोगसमुद्रीक्षणत्रपयेव तिरोदधति , रतिव्यतिकरविशीर्णवधूवरचिकुरविच्छरितसुमनसीव विच्छायतामुपगच्छत्युडुनिकरे , निर्दयविमर्दाश्यानमिथुनाङ्गसंगतकुङ्कुमपङ्कपराग इव प्रसरति प्रसवरजसि , पु
पवतीः स्पृष्ट्वा लताः पुनः स्पर्शभीत्येव शनैश्चरति समवगाढसरसि मरुति , सद्योविकचन्मणीचकनिचयमनोहारिणि महीरुहनिकरे निरन्तरनिस्यन्दिमकरन्दधारां दम्पतिघटनार्थमम्बुधारामिवावर्जयति , स्फुटितकुसुमषण्डोद्भासिनि दीपमण्डितदीपदण्ड इव दृश्यमाने सनीडगतचम्पकविटपिनि, अतिस्फारतया बहिःस्फुरज्जायापतिराग इवोन्मिषत्युषोरागे, भृङ्गावलिप्रकणिते मङ्गलपाठकवचसीव गृह्यमाणे, गृहोद्यानमण्डनमाधवीलतामण्डपे. कुसुमकोदण्डेन प्रदत्तां तां मत्तकाशिनी गम्धर्वदत्तापतिर्गन्धर्वविवाहप्रक्रमेण रागाग्निसाक्षिकं परिणीय पुनर्गुणवति लग्ने लोकपालेन वितीर्णी विधिवदुपायच्छत ।
इति श्रीमद्वादीभसिंहसूरिविरचिते गद्यचिन्तामणौ
पद्मालम्भो नाम पञ्चमो लम्बः ॥
-:(*):
Page #106
--------------------------------------------------------------------------
________________
षष्ठो लम्बः ।
षष्ठो लम्बः ।
अथ तां नववधूमवधूतत्रपां पवित्रकुमारः शनैःशनैः परिकल्पयन्, 'पङ्कजत्वेन द्विजपतिद्वषेण मधुपसंपर्केण च निकृष्टं निर्दिष्टदोषसहित्यादवधीरयतः पमं तव मुखपद्मस्य पद्मसदृशतां पद्मानने , कविवर्त्मनि स्थिताः कथं कथयन्ति' इति मिथः कथयन् , नट इवावस्थानुगुणवचसि विट इव संभोगचातुर्ये वश्यमन्त्र इव वशीकरणविधौ शिष्य इवेच्छानुगुणवर्तने चक्रवाक इव विरहासहिष्णुत्वे भवन् , तत्तद्गुणेषु स्वयमपि तथा भवन्ती कामिनी कामतन्त्रज्ञो यथाकाममन्वभवत् । अनैषीच्च तस्मिनेव राजसमन्यम्लानपाटलोत्पलदामपरिमलोद्गारिकबरीबन्धया विरचितशिरीषकलिकावतंसया दिवसकरसंतापसंत्रासादतिशिशिरदेशनिवेशितेनेव शशाङ्कातपेन घनसारसुरभिणा हिमजललुलितेनानतिविरलेन चन्दनविलेपनेन पाण्डुरितशरीरया , सलिलस्यन्दिबिसलताहारव्यतिकरितमुक्तासरतरङ्गितस्तनतटया परिहृतकुङ्कुममाणिक्यभूषणया त्रिगुणतिरस्करिणीस्थगितवातायनदूरान्तरितद्युमणिकिरणदर्शनया पल्लवितसायंतनसलिलकेलि. कौतुकया निर्मोकपरिलघुपरिधानया धारागृहनिर्यद्वारिधारारवश्रवणनिवृतया चन्दनशिशिरशिलापट्टसंविष्टया प्रालेयशीकरासारवाहिन्या यामिन्येव हेमन्तस्य , मौक्तिकराजिततनुलतया वेण्येव ताम्रपर्णाः, शीतलचन्दनच्छायाभृता मेखलयेव मलयशैलस्य , फेनपिण्डपाण्डुराम्बरया वीच्येव पयःपयोधेः , पद्मया तया समं स्फुटितपाटलकुसुमापीडपटुपरिमल
Page #107
--------------------------------------------------------------------------
________________
९६
गद्यचिन्तामण
"
विसरवासितरोदोविवराणि प्रसरदूष्मलतरणिकिरणपरामर्शमरित पक्ष्माणि पटुतरातपकृत कोटर पुटपाकमन्दप्राणविष्किराणि स्फीतफलस्तबक भूरिभारनम्रशाखाम्रवणानि चूडारत्नसंशयितवनवैश्वानरबिलेशयभुजङ्गानि पत्रलानूपद्रुमषण्ड पिण्डित रोमन्थमन्थरवदनगोधनानि दावदहनदाहविद्राणसारङ्गसङ्घलङ्घितमरुन्मार्गाणि पानीयशालापन्नपथिकजनवाञ्छमानसायाह्ना शुष्क सरसीविलोकननिराशशोकान्धसिन्धुरारब्धकरास्फोटानि रिक्तीकृतमहामहीधरनिर्झरस्रोतः सिरासंतानानि संज्वलितपतङ्गग्रावपावकप्रभापटललीढजाङ्गलद्रुमाणि, घोरतपांसीव मुक्ताहारशरीराणि, राजहृदयानीव - जोधिकद्वेषोत्पादीनि अपत्यानीव सदाकाङ्क्षित्तपयांसि पतितकर्माणीवाधस्तलावरोहणकारीणि, नाक स्त्रीमनांसीव मरुदौत्सुक्यविधायीनि, अतिरूक्षाणि ग्रैष्मकाणि कानिचिदहानि जीवंधरः ।
"
अथैवं मनोरथदुरासदं सततं तया सारङ्गदृशा समं शमनुभवन्नपि विषयेष्वसक्ततामात्मनो विवरीतुमिव विजयासूनुः, विषयान्तरमन्तर्हितएव गन्तुमनाः समजनि । तावतास्य तिरोधाय जिगमिषोरनुकूलतां चिकीर्षुरिवावसित दिवसव्यापारशेषः पूषा निकषास्तशैलमलम्बत । आपतयालु निशानिशाचरीनिशातशूल शिखासमुत्खातं वासरस्य हृदयमिव स्थपुटितप्रस्थप्रस्थानविह्वलवाहनिवहविहतस्यन्दनविस्रस्तमस्तगिरिगैरिकपङ्कचयखचितं रथाङ्गमिव च पातङ्गमङ्गमदृश्यत । ततस्तेजोनिधिरपि विनि-वारितदोषोऽपि वारुणीसङ्गात्किमपरं रविरधः पपात । पद्मिनीरज: स : स्पृष्टमम्बरमपहाय मज्जत्यब्जिनीभुजङ्गे जलधिजलवेलान्ते संततलाक्षिक वनकालक्ष्मीं बभार संध्या। ततश्च सवेगपतङ्गपयोधिपातपाटितशुक्तिपुटमुक्तोत्थितमुक्तोत्करा इव निर्दयमधुकरमर्दननिपतदनल्पकल्पतरुकुसुमप्रकरा व च तारकाश्चकाशिरे । तदनु चागाधरसातलका सारगर्भपीतवासरतापसुखसमुत्तरत्समर्वीतवाहनवाहवैरिकाय कार्ण्यकञ्चुकितानीव, अहरवसानवि
-
Page #108
--------------------------------------------------------------------------
________________
षष्ठो लम्बः ।
हारमण्डनप्रवृत्तवलरिपुपुरपुरंध्रीजातयातयामतावधूतावतंसनीलकुवलयप्र - भानुविद्धानीव समददिक्करिकुलकर्णतालताडनाम्रेडनभयचकित विद्वाणषट्चरणचक्रचञ्चदचिश्चचमे चकितानीत्र सर्वतः शर्वरीकेशपाशदेशीयानि तमांसि मांसलिमानमभजन्त । क्रमेण चाभ्यागताभिमतरमण नीलकञ्चुककदाशाकदर्थिताभिरनुपदं प्रसारितपाणिभिरितस्ततो गृह्यमाणे स्वाभ्याशेषु स्वैरिणीभिः, अतिबहलपङ्कपटलशङ्किभिरावर्जितपार्थैरनिभृतं विलुठितुमूरीक्रियमाणे विपिनकुहरेषु वराहनिवहैः, अकाण्डजलदमण्डलभ्रमसंभ्रमसंभृतपुनःपलायनचिन्तैरुत्क्षेपचटुलपक्षसंपुटैः सभयमभिवीक्ष्यमाणे सरः सु हंसैः, संरम्भसमुद्धूतसटाच्छटैरुत्पुच्छायमानैः कठोरकालायसपञ्जरधिया विघटयितुं व्यापारितनखकोटिभिः साटोपमुद्दिश्यमाने गिरितटीषु कण्ठीरवैः, तिमिरापीडे जरठतां प्रतिपन्ने, प्राप्ते च निशीथे, निर्दयसंभोगव्यतिकरश्रमेण गाढाश्लिष्टनिद्रां तां बिम्बोष्ठीमतिसंवाय गन्धर्वदत्तापतिरन्तर्वेशिकैरप्यविदित एवान्तःपुरात्पुराच्च निर्गत्य ययौ ।
अथ पद्मबन्ध पद्मिनीमिव पद्मां परित्यज्य पद्मादयिते प्रयाते, प्रशिथिलितनितान्तस्वापा सा कान्ता कान्तकरपरिरम्भणसं भूष्णुशंभरानुपलम्भेन विजृम्भमाणवेपथुभरादरविवर्तितगात्रा निमीलितनेत्रैव प्रसारितपाणिः परितः पर्यङ्के पतिं व्यचेष्ट । अदृष्ट्वा च तलिमसविधे धवमवधूतावशिष्टनिद्रा द्रुतमुत्थाय शयनगृहमभितः प्रदीपाट्टेषु प्रलम्बमानमणिकनक सुमनोदामनिकामस्थूलशातकुम्भस्तम्भच्छायास्वप्यतुच्छरणरणकविह्वला प्रहृतरपूर्वगाना धात्रीतलचुम्बितलम्बमानशिथिलकेशकलापा कलापिनी नृत्तोद्यता, विद्युदिव मेघावलीवलयिता, वलयरबमुखरितकरपल्लवैः पल्लवयन्तीव परामृशन्ती भुवं भूयः पर्यभ्रमत् । एवं नैकवारं वरदर्शनशङ्कया दरस्तम्भिताक्रन्दप्रसङ्गा स्वाङ्गच्छायामपि तदङ्गच्छायां संदिहाना भूत्वापि निशान्ते कान्तं यदा नैक्षिष्ट तदा ' हा हतास्मि '
9
Page #109
--------------------------------------------------------------------------
________________
९८
गद्यचिन्तामण
इति परिदेवनमुखरितोपकण्ठा कलकण्ठी मुक्तकण्ठं रुरोद । तावता प्रबुध्य दग्धहृदया निभृतेतरपदप्रसृतयो विसृमरकचभारतिमिरकवचितवियतः ‘किं किम्' इति यामिनीनिभा यामिकयुवतयः समायासिषुः । अद्राक्षुश्च तां भग्नोपघ्नपादपां लतामिव पांसुलोद्गमपत्रभङ्गां धात्रीतलशायिनीं शमयितुमिव शोकानलं नयनजलप्रवाहे लवमानामुद्दामदारिद्र्यादप्युद्वेजनीयां वाच्यसंपर्कादपि शोच्यां निर्घृणत्वादपि निन्दनीयां परदारपरिग्रहादपि निग्राह्यां नास्तिक्यादप्यनास्थेयामवस्थामारूढां पद्माम् । ततश्च तास्वपि तस्याः परिदेवनानेदानं परिज्ञाय परित्रासपराधीनासु, परिजनमुखादेतदुपश्रुत्योदश्रुमुखी समागत्य तज्जननी जनितोद्वेगा निजोत्सङ्गे वत्सामारोप्य तदात्वोचितैः शीफरशिशिरोपचारप्रकारैर्व्याहारैश्च विधाय लब्धसंज्ञां सात्यंधरिदयितां सदयमेवमन्वयुङ्क - 'अयि पुत्रि, ते जामात्रा स्वयात्राभिव्यञ्जि किंचित्पुरस्तादुपन्यस्तमस्ति वा न वा' इति । सा च मनुभाषिणी किंचिद्ध्यात्वा स्मृत्वा च तदुक्तमित्थं प्रत्यब्रवीत्'अम्ब, कदाचिदपहायाम्बरमम्बरमणावम्बुराशिगाहनलम्पटे सति, तमवलोक्य जातमन्दहसित इव चकासति चन्द्रमसि चन्द्रशालां मया साकमधिवसन्भर्तृप्रवासपीडितां सनीडगृहाक्रीडक्रीडा गिरिनीडगतां कोकप्रियां प्रदर्शयन् 'प्रिये, पश्य भर्तृवियोगेऽपि पुनस्तत्संयोगसंभूष्णुतया विरहसहिष्णुमिमाम्' इति साकूतं समभ्यधात्” इति । दुहितृवचः श्रवणानन्तरं समुद्भवदुद्दामधृतिः पद्माजननी 'जहीहि वत्से, विचिकित्साम् । अनेन ह्यन्यापदेशेनोपादेशि त्वया विप्रयोगः पुनः संप्रयोगश्च ते प्राणनाथस्य' इति प्रणिगदन्ती सुतामाश्वासयामास ।
(6
अथ पद्मावल्लभोsपि पल्लवजनपदपतिचोदितजङ्घालजनत्रातेनाप्यविदित एव लङ्घयन्नलङ्घनीयमरण्याध्वानमभिवन्दिताखिलपुण्यजिनभवनतया पावनतामुल्लाघतां च नीतः पल्लववर्षसीम्नि नाम्ना चित्रकूटं विचि
"
Page #110
--------------------------------------------------------------------------
________________
षष्ठो लम्बः ।
त्रचारित्राश्रयं तापसाश्रममध्वश्रमपरिच्छेदाय शिश्रिये । अपश्यच्च तापसानामञ्चितवृत्तोऽयं पञ्चाग्निमध्यस्थानादितपःप्रपञ्चम् । अतर्कयच्चायं कृपालुः 'अहो देहिनां मोहनीयकर्मेदं दुर्मोचप्रसरं यद्वश्या अमी मुधा क्लिश्यन्ते' इति । व्याहरच्चायं परहितपरतन्त्रो मन्त्रायमाणं वचः “ अयि तपोधनाः, 'न हिंस्यात्सर्वभूतानि' इति विश्रुतां श्रुतिं विद्वांसोऽपि किं हिंसानिदाने तपस्येकताना भवन्ति" इति । अदीदृशच्च दुर्दशो जडाञ्जटाजालभ्रष्टजलावगाहनलग्नजलचरविसराणां विविधैधोविवरविसर्पत्सर्पादिजन्तूनामप्यमन्दविभावसौ दन्दह्यमानानां नयनवतामसह्यं व्यसनम् । अबूबुधच्च तत्त्वमयं लब्धवर्णो वर्णिनां मध्ये कतिचिदत्यासन्नभव्यान्दिव्यैः श्राव्यहृद्यैरनवद्यानेकान्तोद्योतिभिर्वचोभिः । उदस्विदपवर्गश्रियस्तेऽपि श्रीजिनधर्ममगृह्णन् । अथ तावता सद्धर्माभिमुखतापसहृदयोद्वान्ततमसेव श्यामीभवति दिङ्मुखे, श्यामामुखविधेयकृत्यं मुनिजनैः सममनुष्ठाय काष्ठाङ्गाररिपुः क्षपामपि तत्रैव क्षपयामास । तदनु च सन्मार्गसंदर्शनसावधानेन सवित्रा संगृहीतसम्यक्तबलबहिष्कृततापसमनस्तमोराशिपुनःसंपर्कभीत्येव निःशेषतमःस्तोमेऽपि निरस्ते, परिसरतरुसुप्तोत्थिते कुमारसौखसुतिक इव सविरावे सति वयसि, रुरुगणेऽप्युटजाङ्गणभुवमुत्सृज्य तृणचर्वणचापल्यादाश्रमोपशल्यमाश्रयति , शुचीतरविभागोपेक्षिणि सुगतमतावलम्बिनीवाम्बुजिनीरजःस्पर्शनलम्पटे वाति प्राभातिके मरुति, दिनपतिमुखावलोकनोद्दामदिवसश्रीराग इव प्रसरति तरुणातपे, तापसदारकसमितौ च समित्कुशपलाशहरणाय यथायथं विहरन्त्याम् , विहितप्रगेतनविधिस्ततो विनिर्गत्य सात्यंधरिरन्धकारितपरिसराणि कणदलिकदम्बकबलितशिखरकुसुमतुङ्गतरुसहस्राणि विशृङ्खलखेलत्कुरङ्गखुरपुटमुद्रितसिकतिलस्थलाभिरम्याणि स्वच्छसलिलसरःसमुद्भिन्नकुमुदकुवलयमनोज्ञानि विमलवनापगापुलिनपुञ्जितकलहंसरसितरञ्जितश्रवणानि दृप्यच्छाकरशृङ्गको
Page #111
--------------------------------------------------------------------------
________________
गद्यचिन्तामण
टिविघटन विषमिततुङ्गकच्छानि विचित्रसुमनः परिमलमांसलसमीरसंचारसुरभीकृतानि कानिचित्काननानि नयनयोरुपायनीचकार । तानि च क्रमादतिक्रम्य गच्छन्विक्रमशालिविविधपुरुषपरिषदः पारुष्यविरामाभिरामरामालंकृतस्यायत्नोपनतरत्नरजतजातरूपजातजातसमृद्ध डिण्डीरपिण्डपाण्डुपुण्डरीकोद्भासिनः सलिलान्दोलित चारुचमरवालमरुतः परदुरासदसत्त्वाधिकविविधभूभृदध्यासितसविधस्याजस्राभिवर्धितवाहिनी सहस्र संपादितसंपदः पयोधरभर मनोहर महिषी महितधाम्नः सदातनगोधनचकासिनः सकलजन्तुसंरक्षणदक्षस्य विडम्बितक्षोणीपतेर्दक्षिणदेशस्य मणिमकुट/यमानविकटशिखर चुलुकिताम्बरं जाम्बूनदोपपादितस्थूलस्थूण सहस्र संबाधमण्डि - तमण्डपमकाण्डभत्रदाखण्डलधनुः काण्डशङ्कानिष्पादनशौण्डनैकपुष्पोपहारमहरहरभिवर्धमानस पर्यमविलयं कमपि श्रीजिनालय मद्राक्षीत् । तन्निरीक्षणक्षण एव क्षीणनिः शेषश्रमः श्रावक श्रेष्ठोऽयं काष्ठागतप्रमोदः साधुधौतपादः पादपवल्लुरीतल्लजसंफुलफुलोत्करमरविन्द संदेहानुधावन्मधुकरेण करेणापचित्यापचितिविधिज्ञोऽयं विहिताञ्जलिरधिकभक्तिभक्तिभरनिगलविगलित इव कथंचिद्गलाद्गलति सकलवाङ्मयातिवर्तिकीर्तेर्भगवतः संस्तवे, संस्तवनौत्सुक्याङ्कुरानुकारिरोमाञ्च मुञ्चति शरीरे, शारदारविन्द इव मकरन्दबिन्दुभिरानन्दाश्रुजालैः प्लाविते लोचनयुगले, अचलितमूर्तिरतुलतूर्तिः कर्तव्यमपश्यन्नवश्येन्द्रियस्त्रिकरणशुद्धिस्त्रिः परीत्य क्षणमास्थितः श्रीपीठाग्रस्थितिरारचय्य कुसुमाञ्जलिमवजिनं जिनमस्तोकमस्तावीत् —
' तरन्ति संसारमहाम्बुराशिं यत्पादनावं प्रतिपद्य भव्याः । अखण्डमानन्दमखण्डितश्रीः श्रीवर्धमानः कुरुताज्जिनो नः ॥ विवेकिनो यस्य पदं भजन्ते विमुच्य बाह्यान्विषयानसारान् । अवाप्तुमात्मीयगुणं गुणाब्धिर्जिनेश्वरो नः श्रियमातनोतु ॥ यदीयपादामृतसेवनेन हरन्ति संसारगरं मुनीन्द्राः ।
१००
Page #112
--------------------------------------------------------------------------
________________
षष्ठो लम्बः ।
१०१
स एष संतोषतनुर्जिनो नः संसारतापं शकलीकरोतु ॥' इति ।
तावदवञ्चितया तदीयभयभक्तिकुञ्चिकयैव श्रीकवाटे स्वयं झटिति विघटिते, तदवलोक्य निकटवर्ती मर्त्यः कश्चिदाहितात्याहितभरः प्रीतिविस्फारितनेत्रद्वयेन शतपत्राञ्जलिमिव पवित्रकुमारस्य पातयन्नस्य पादयोः पपात । तमवलोक्य लोकज्ञः कुमारोऽपि नात्यादरं दर्शितदशनज्योत्स्नया कृत्स्नमस्याङ्गमालिम्पन् ‘कोऽसि । कुतस्त्यः । कस्मादस्मत्पदयोस्तव पतनम्' इत्यपृच्छत् । स च तद्वचोलाभेन लब्धमहाप्रसाद इव बद्धाञ्जलिरित्थं निजगाद— “स्वामिन् , इतः क्रोशमात्रान्तरितप्रदेशनिवेशितो वेशवाटिकेति विटैः , विद्यामठिकेति विद्यार्जनोत्सुकैः , विपणिवीथीति वणिग्भिः , आतिथेयनिवास इत्यतिथिभिः , भोगभूरिति भोगापेक्षिभिः , आस्थायिकेत्यास्तिकैः, गिरिदुर्ग इति क्षेमाथिभिः सेव्यः क्षे. मपुरी नाम जननिवेशः । तत्र च प्रजापतिरधःपातिताखिलपृथिवीपतिः सुरपतिदेशीयो नरपतिदेवो नाम । तस्य च राजश्रेष्ठस्य श्रेष्ठिपदप्राप्तः स्पर्शनशीलत्वेऽप्यकल्पितप्रदायित्वेन कल्पशाखिनं प्रज्ञाशालित्वेऽपि क्षमास्पदत्वेन बृहस्पतिमाढ्यत्वेऽप्यनुत्तरकाष्टाश्रितधनिकतया धनदमप्यधःकुर्वन्सर्वगुणभद्रः सुभद्रो नाम । तस्माच्च तेजोधाम्नश्चन्द्रादिव चन्द्रिका पद्माकरादिव पद्मिनी पयःपयोधेरिव पङ्कजासना काचिदङ्गजा समजनि। सा चेन्दुमुखी बन्धुजनप्रमोदेनाभिवृद्धा सांप्रतं प्रावृडिवोद्भिन्नपयोधरा सरांसि पित्रोर्मनसी कलुषयत्याकर्षयति च युवशिखण्डिनः । दैवज्ञास्तु तज्जन्मदिवस एव एतज्जिनभवनद्वाराररपुटस्य स्वयं विघटनं निकटगते यस्मिजाघटीति प्रकटितानुभावस्य तस्येयं पाणिगृहीती' इत्यभाणिषुः । अहमपि तस्य विश्रुतमहिम्नो वैश्यपतेश्चक्षुष्यः कोऽपि भुजिष्यः । ततः प्रभृति तन्नियुक्तोऽत्र निवसन्नहं निर्वासितहृच्छल्यं प्रतीक्ष्य जगत्प्रतीक्ष्यं भवन्तं हृदयप्रभवदानन्दप्राग्भारेण प्रणतवान्" इति प्रणिगदन्नेव वणिजां कर्ण
Page #113
--------------------------------------------------------------------------
________________
१०२
गद्यचिन्तामणौ
धारस्य कर्णोत्सवमदःकथया कर्तुं ययौ ।
सुभद्रोऽपि भद्रतरनिमित्तोपलम्भं पौनःपुन्येनानुस्मृतकन्यावृत्तान्तः क्वचिदेकान्ते कान्तया समम् 'किं करोति स किंकरेषु भद्रो यः कन्यावरपरीक्षणकृते सहस्रकूटजिनालये कृतक्षणोऽभूत् । वामेतरभुजस्फुरणं विवृणोति शुभावाप्तिम् । अपि नाम कदाचिदवश्यं वरं पश्येत्' इति पारवश्यकर्कशं वितर्कयन्नतर्कितागतिना गुणभद्रेण पवित्रकुमारस्य त्रिजगत्स्वामिजिनभवनाभ्यागमनमाकार्णव इवेन्दोरमन्दसंभ्रमः श्रवणयोस्तद्वचःश्रवणं चरणयोः प्रयाणत्वरां नयनयोरानन्दाश्रुधारां च कुर्वाणः पाणिद्वयार्पितद्रविणराशिना गुणभद्रं दारिकावरवार्तया दारान्सस्नेहनिरीक्षणेन सनाभीश्च संभावयन्नहंपूर्विकासमेतामितेतरान्तिकचरः कुमारान्तिकमभ्यगमत् , अपश्यच्च भक्तिपरतन्त्रं श्रीजिनेन्द्रसपर्यापर्युत्सुकं विजयावत्सं जैनजनवत्सलः स धर्मवात्सल्यावर्जितप्रीतिर्वैश्यपतिः । अचिन्तयच्चायम् 'अतिप्रगल्भमधुरदृष्टिविक्षेपलीलादर्शिताकाण्डपुण्डरीकवनविकासविभ्रमं वैदग्ध्यलास्यविद्याललितभूलतं दन्तकान्तिचन्द्रिकाच्छुरितविद्रुमपाटलरदनच्छदमुन्मृष्टचामीकरमुकुरतुलितक - पोलमृजुतुङ्गकोमलदीर्घनासिकं विगाढलक्ष्मीभुजलतावेष्टनमार्गानुकारिकण्ठरेखमंससक्तकर्णपाशं शौर्यशिबिरोत्तम्भितस्तम्भसब्रह्मचारिमनोहरांसबाहुलतं कमलाकर्णावतंसकङ्केलिकिसलयसुकुमाररुचिरकरशाखं व्यक्तश्रीलक्ष्मविकटवक्षःकवाटममृतसरिदावर्तसनाभिनाभिमण्डलं नखदिनमणिनिष्यन्दिकिरणविकासिचरणतामरसद्वन्द्वं कन्दमिवानन्दस्य प्ररोहमिवोत्साहस्य पलवमिवोल्लसमय कुसुममिव मङ्गलस्य फलमिव मनोरथस्य न्यञ्चत्काञ्चननगलोकमतिलोकं वपुरमुष्य तावदामुष्यायणत्वमेव न केवलं केवलार्कोदयस्थानतामप्यनक्षरमाचष्टे' हीत ।
ततश्च नातिचिराद्विरचितपरमेश्वरापचितिमवलोक्य तं कुमारमु
Page #114
--------------------------------------------------------------------------
________________
षष्ठो लम्बः ।
१०३
चितोपचारैराराध्य पुनराराद्वर्तिनः कस्यचिदकठोरकङ्केलितरोरतुच्छच्छायायां शौक्तिकजालवालुकमनोज्ञे हृदयज्ञान्तिकचरसत्वरसमीकृतस्थले कुमारमन्वासीनः कुबेरदेश्यो वैश्यपतिर्वात्सल्यौत्सुक्यकौशलशंसिकुशलपरिप्रश्नादिना मुदितहृदये विदितवृत्तान्ते च भवति विजयानन्दने नखंपचपांसूत्करदुःसहाध्वन्याध्वश्रमाश्रितविश्वजनपदपथिकनिबिडितपाद - पमूले कथितसलिलसरःपराचीनतृष्यत्पतत्रिणि मृगतृष्णकाकुलितमृगकुले ललाटंतपे भवत्यम्बरमणौ कुरुकुलशिखामणये गुरुतरनिजमुखप्रसादकण्ठोक्तां निजोत्कण्ठां पुनरुक्तामिव विवत्रे- “कुमार , मयि ते प्रेमकारणमपरमास्ताम् । आस्तिकचूडामणे , तावदनिषेध्यमेवेदं स्वयूथ्यत्वम् । अतस्त्वया मे प्रार्थनावैमुख्येन न सख्यं विहन्तव्यम् । अनुमन्तव्यमेवास्मदावसथे दिवसोचितविधि विधातुम्" इति । सोऽप्यसुप्रणयिनामप्यर्थितामसमर्थो भवन्विहन्तुमत्याहितवृत्तः सात्यंधरिः 'अस्त्वेवम्' इत्यन्वमस्त । ततश्च सर्वगुणभद्रः पवित्रकुमारोऽयं गुणभद्रप्रसारितं पाणिं पाणौ कुर्वन्सर्वसहायाः सहेलमुत्थाय कायरोचिःप्रतिहतसहसरोचिः सहस्रकूटजिनालयं सहस्रशः परीत्य प्रणिपत्य च पुनरप्यतृप्त एव तन्निकटात्सुभद्रनिरोधाद्धटद्धाटककूटकोटिपिनद्वध्वजपटपाणिपल्लवेन क्षेमश्रीवल्लभमिवामन्त्रयमाणं सान्द्रचन्द्रातपातिशायिचन्द्रशालानिलृप्तनिरतिशयरत्नविसरविसर्पिकिरणप्रकरेणेव प्रतिगृह्णन्तं प्रसभोपसर्पदतिघोरपौरुषपदप्रचुरस्तनितानुकारिरणितश्रवणारब्धताण्डवगृहशिखण्डिबृन्देन स्वयमप्यमन्दादरादानन्दनृत्तमिवारचयन्तमत्यादरधात्रीमुखाकर्णितसुभद्रसुता - भर्तृसांनिध्याडितहर्षक्रीडाकीरविरावमिषेणाशिषमिव प्रयुञ्जानम् , पुञ्जमिव संपदः, पूर्तिमिव शोभायाः , मूर्तिीमव कोलाहलस्य , अतिभद्रसुभद्रसदनोद्देशं निरवकाशितजननिवेशं वेशपुरंध्रीनेत्रव्रजविरचितविविधतोरणस्त्रजः समतीत्य समासदत् ।
Page #115
--------------------------------------------------------------------------
________________
१०४
गद्यचिन्तामणौ
तत्र च सुभद्रसुतासौभाग्यगृहोत्तम्भितस्तम्भसदृशोरुस्तम्भशोभोपलम्भलम्पटताप्राप्तैरिव रम्भास्तम्भनिकरैर्नीरन्ध्रिताः पुरंध्रीत्रातविधीयमा - नविविधालंकृतीरहंपूर्विका गच्छद्विश्रुतविश्ववैश्य दृश्यमानप्रवेशावसरा नैकद्वारभुवः क्रान्त्वा, कुमारः कचिदन्तर्गृहं करगृहीतजाम्बूनदताम्बूलकरण्डादर्शकलापिकेलिकीरसारिकाप्रमुखाणाम्, संमुखागतं क्षेमश्रीवल्लभ्रमत्यादरादन्योन्यमङ्गुलीनिर्देशेन दर्शयन्तीनां प्रियसखीनां मध्ये स्थितां क्षेमश्रियं श्रियमिव साक्षालक्षयन्, तदक्षिशरलक्षीकरणादक्षमया च तया सविभ्रमाकुञ्चितचारुभ्रूलताचापनिर्गतेन हृदयभेदनपेशल शितेन नेत्रपत्रिणा विद्धो भवन्, हृदयलग्नभलशल्य इवायलकभरास्पदीभूतः पदमपि गन्नुमपारयन्नपारतद्वद्यथानिर्वृतये निर्वृतिपुत्रिकां तां धात्रीतल दुर्लभसंविधानविधात्रा सुभद्रेण भद्रतरल यथाविधि विश्राणितां पर्यणयत् ।
इति श्रीमद्वादी सिंह सूरिविरचिते गद्यचिन्तामणौ क्षेमश्रीलम्भो नाम षष्ठो लम्बः ।
*:
Page #116
--------------------------------------------------------------------------
________________
सप्तमो लम्बः ।
१०५
सप्तमो लम्बः ।
अथ तां पृथुनितम्बामयं प्रथमविवाह इव प्रथमानप्रीतिः परिणमपरिणमदनिवारणमदनमदवारणवर्धितधृतिरनवधृतरतिव्यतिकरविजृम्भितव्याक्षेपः क्षेमश्रीकान्तश्विरमेकान्ते कान्ततरकायकान्तिकान्दिशीककलाधराम् , रमणे चरणतले च रक्ताम् , प्रियसखीमण्डले जङ्घाकाण्डे च स्निग्धाम् , ऊरुस्तम्भे परिजने चानुकूलस्पर्शनाम् , सौभाग्ये श्रोणीबिम्बे च साभोगाम् , हृदयवृत्तौ रोमराजौ चात्यक्तकौटिल्याम् , मध्ये प्रणयकलहकोपतनूनपादि च तनुतराम् , सनाभौ नाभिमण्डले च भग्नाम् , चित्ते कुचयुगलेऽप्युन्नताम् , मनसि बाहुलतायां च मृद्वीम् , वचसि ग्रीवायां च मिताम् , वक्त्रे हृदि च सुवृत्तोद्भासिनीम् , सपत्नीनिचये कचभारे च कालिममयीं क्षमश्रियं पश्यन् , स्पृष्टदृष्टतदीयाखिलाङ्गतया हृष्टतमः ‘प्रिये, त्वामेवमनारतभोग्याममर्त्यभोग्याभिरप्सरोभिरुपमेयशोभां कथमुदीरयामि' इत्युपलालयन्नतिगृनुरिवालंबुद्धिमनासेदिवानवर्तिष्ट । एवमनिर्वृतिसुखया निवृतिसुतया सममतिमात्रनिर्वृतिमधिजग्मुषस्तस्य गन्धर्वदत्तापतेर्गत्वरतां ज्ञात्वा प्रियसखीव प्रतिषिद्धप्रयाणा प्रावृडाविरासीत् । तस्मिंश्चातिचकितकादम्बे कन्दलितकन्दले स्फुटितकुटजषण्डे ताण्डवतरलशिखण्डिनि स्फुरदाखण्डलकोदण्डे खण्डितमहीपालदण्डयात्रे त्रासि. तवातकिनि तटिदालोकनचकितवनौकसि प्रस्थितमानसौकसि तिरस्कृतदिनमणितेजसि स्फूर्जत्सर्जसौरभे भेकरटितवाचाले चलितबकपतिदन्तुरवियति वृत्रहगोपचित्रितधरित्रीपृष्ठे निष्ठुरघननिनदविनिद्रकेसरिणि मदमन्थरसिन्धुरे नखम्पचनितम्बिनीस्तनमण्डले प्रोषितप्राणखण्डिनि तरुगह्वर
Page #117
--------------------------------------------------------------------------
________________
१०६
गद्यचिन्तामणौ
निभृतपरभृते विरतविभावरीरमणजागरणे कुट्मलिततारकावलोकनकौतुके कूलंकषसलिलपूरसरिति धारान्धकारपूरितहरिति दुर्विभावदिवानिशविभागे पुङ्कितशरकुसुमशरे शीतालुगोधनत्राणायस्तगोमिनि निर्विशङ्कसमालिङ्ग्यमानाङ्गारधानीतनूनपादि परिणमति पयोधरसमये, कुङ्कुमपङ्कपकिलपयोधरामन्तरमान्तं वमन्तीमिव रागम् , करालकालमेघकालिमकालागुरुधूपगर्भगर्भागारगर्भस्थिताम् , चिरप्रभामिवाचिरप्रभाम् , प्रसरन्मनोहार्याहार्यनैकमणिमहःस्तबकामगस्त्यचुलुकितरत्नामिव रत्नाकरस्थलीम् , करिणीमिव वारिसंपर्कचकिताम् , प्रजानाथचित्तवृत्तिमिव प्रतापार्थिनीम् , सुराङ्गनामिव महीरङ्गस्पर्शनपराचीनपदां क्षेमश्रियम् , क्षेमभूमिमिव पराक्रान्तमहीपतिः, कुसुमशरशराक्रान्तोऽयं कुमारः क्षणमपि नात्याक्षीत् ।
__ अथ कदाचित्कस्यांचन त्रियामायां तृतीयप्रहरे विरहव्यसनावतमसविषयीभविष्यन्त्याः क्षेमश्रियः प्रपञ्चहृदयकुञ्ज पुञ्जीभावादिव विरलभावमासेदुषि तमसि, सुभद्रस्य जामातृप्रयाणप्रबोधनायेव कूजत्सु कुक्कुटेषु, निकटगतां पत्नीमतिसंधाय गन्धर्वदत्तापतिर्भवभृतां प्रवृत्ते~वस्थाविकलतां व्यवस्थापयन्निव तथाविधास्थास्पदमेकपद एव तां परित्यज्य प्रव्रज्यायै प्रकृष्टवैराग्यः पुरुष इव यथेष्टमियाय । तदनु सा च तनूदरी यातयामजातगाढस्वापा पुनः प्रबोधाभिमुखी तलिमतले तत इतोऽपि शनैः संचार्यमाणशरीरा विशीर्यमाणचिकुरभारविगलदविरलकुसुममाला सविलासगात्रभञ्जना पञ्चशाखाङ्गुलीभिर्मर्दयन्ती मन्दमन्दं मन्थराक्षिपक्ष्मणी, पतिमुखनिरीक्षणतत्परा पतिदेवता सलीलमुत्थाय शय्यातलमधिवसन्त्येव संमुखागतयामिकवामलोचनामुखेऽपि मुखमनर्पयन्ती , प्रसर्पदङ्गुलीनखचन्द्रचन्द्रिकया मुकुलयन्तीव नयननलिनयुगम् , किंचित्कुञ्चितपञ्चशाखतलेन कञ्चुकितवदना क्षणमीषदुन्मीलयन्ती पतिमन्वियेष । ततः सत्रासा तत्र दयितादर्शनादवशमुन्नयन्ती मुखमुदश्रुमुखीनां सखीनां हिमानीबिन्दुद
Page #118
--------------------------------------------------------------------------
________________
सप्तमो लम्बः ।
१०७
न्तुरितारविन्दसवर्णवैवर्ण्यानि वदनानि साकूतं सानुतापं सदैन्यं चन्यशामयत् । तन्निशामिताः सख्यश्च सख्यं गता इव तोयदैः पूर्वमुल्लसद्दशनकिरणतटिल्लुतां पश्चात्पतिप्रयाणवार्तापत्रं तदनु नयनजलधारामप्यपातयन् । सा तु क्षेमश्रीः श्रवसि तद्वार्ता मनसि हृल्लेखं वपुषि प्रकम्पं चक्षुषि बाष्पधारामात्मन्यविषाशुचं वदने वैवर्ण्यं नासिकायां दीर्घश्वासमास्ये परिदेवनं च यौगपद्येन भजन्ती तदशनिपतनादपासुरिव भूमौ पपात । तथाविधामनस्यामिमां वयस्येवाविदितकृच्छ्रामातनोन्मूर्छा ।
एवमतिमोहविधुरां वरोपलम्भवरार्थितया निभृतेन्द्रियवृतिं पृथ्वी - शयने प्रतिशयानामिव शयानां फणिनीमिव फणामणिना पद्मिनीमिव पद्मबन्धुना रतिमित्र त्र्यम्बकललाटाम्बकदहनदग्धमदनेन दयितेन विप्रयुक्तामतिदयावहां जीवंधरदयितां निशाम्य, निर्वृतिरधिकनिर्वेदा खेदप्राचुर्यादुद्धरणविहस्तेन हस्तद्वयेनोत्क्षिप्याङ्गजामङ्कमारोप्य, तदङ्गमतिपांसुलं क्षालयन्तीक क्षरदश्रुजलैर्हिमजलकर्पूरपूरविलुलितमलयजस्थासकस्थगितस्फारहारशीफरशिशिरोपचारैर्निवारितप्राणप्रयाणां विधाय, 'विधिविलसितमिदमतिनृशंसम् । हंसगमनेयमेवमप्यस्मदीक्षणाभ्यामहो कथमीक्षिता' इत्याधिक्षीणा तत्क्षणे पूर्वक्षणदायां स्वापावसाने स्वनमालोकितमनुस्मृत्य सविस्मयं साश्वासं सानुनयं च समभ्यधात् - -" पुत्रि, रात्रावतीतायां दयितां हंसीमपहाय राजहंसः कचिद्गत्वा संगतश्च पुनर्दृष्टः । ततः संगंस्यसे त्वमपि जामात्रा । धात्रीतलदुर्लभस्तव वल्लभः सुते, स्वाभिप्रायं प्रायेण केनापि व्याजेन विवृण्वन्नेव प्रयास्यति । तवालस्यादिदमनवधृतम् । अथवा किमिदमाधुनिकमावश्यके कर्मणि सकलकर्मकर्मठानां पुरुषाणां क्वचिदटनं पुनर्घटनं च” इति । एवमभिहितैरतिहितैर्मातृवचोभिः पिहितासुमोक्षाशास च पतिदेवता पतिपदं परमेश्वरश्रीपादारविन्दद्वन्द्वं च द्वन्द्वप्रशमनकृते हृदि निधाय निषसाद |
Page #119
--------------------------------------------------------------------------
________________
गद्य चिन्तामणौ
अथ क्षेमश्रीवल्लभेऽपि क्षेपीयः क्षेमपुरीं चौरिकाध्यक्षकैरलक्षित एवातिक्रम्य कामपि कान्तां कान्तार भुवमासेदुषि, सागरसदनबाडबकृपीटयोनिशिखापटलालीढ इव पाटलवपुषि पद्मिनीसौखसुप्तिके पथिकजनेत्रे कोक मिथुन मित्रे मित्रे सुदर्शनमित्राय दर्शयितुमिवाध्वानमुदधेरुन्मज्जति, जलनिधिनिमग्नोन्मनस्य वेश्चिरनिरुद्ध निसृष्टोच्चास इव निःसरति सुमनःसंसर्गसुरभौ गोसर्गमातरिश्वनि, दिनपतिसंभोगव्यतिकरविमर्दनाश्यानदिनश्रीकुचकुम्भकुङ्कुमाङ्गराग इव प्रतिदिशं प्रसर्पत्यरुणरोचिषि, चिकचत्कुसुमकलिकाकलितशिखरशोभिनः शाखिनः सौखरात्रिक इव संश्रयति शंकारमुखरितककुभि षट्पदकदम्बके, कुमुदिनीपण्डे च प्रातिवेश्यस्थानस्पृशामम्भोजिनीनां बन्धोः प्रत्यूषाडम्बरममृष्यतीव घटितदलपुटकवाटे बाढं स्वपिति, तत्रोपसरन्तं जरन्तं कमपि पामरं कुमारः - सादरं निर्वर्ण्य परमनिर्वाणपदमुपसर्पतां प्रथमसोपानभूतं गृहमेधिनां धममुपदिश्य प्रदिश्य चास्मै निजाहार्यमाहार्यपर्यायावरणविगमादव्याजरमयस्ततोऽयमव्रजत् ।
१०८
ततश्च क्रमशः शशाङ्क इव सद्भिः संगच्छमानः कायैकधनतपोधननिकायतया निवारितनिखिलश्वापदोपद्रवानद्रीन्सार्वकालिकजलप्रवाहा वाहिनीः सर्वसौख्यास्पदानि जिनपदानि सर्वलोकप्रार्थ्यानि तीर्थानि च तत्तद्दर्शितातिशयानि पश्यन्पथश्रमपारवश्यप्रशमनाय कचिदटव्यां निजहृदय इव निर्मले स्फटिकतले निषीदन्यक्कृतनिखिलवनकुसुमसौरभेण नीरन्ध्रितघ्राणरन्ध्रेण गन्धेनाकृष्टः किमिदमिति किंचिद्विवर्तितत्रिकः सविलासकरशाखावलम्बितसिताम्बरपल्लवां संफुल्लवनवल्लीतुल्य सौन्दर्या चिरादिव विभाव्यमानां कामपि वृषस्यन्तीं युवतीं वृषस्कन्धोऽयमपश्यत् । अपृच्छच्चायमभिप्रायविदामग्रेसर : 'कासि वासु, कस्मादिहासि । कस्यासि परिग्रहः। परिज्ञाय परस्त्रीविमुखानामस्मत्प्रमुखाणां वशिनां मनःप्रवृत्ति म
Page #120
--------------------------------------------------------------------------
________________
सप्तमो लम्बः ।
१०९
नीषितं तवाचक्ष्व' इति । सा च समीहितविरोधिविजयानन्दनवचसा विवर्धितमन्मथा तन्मनोभेदननिष्णातां दूतीमिव मितहसितद्विगुणितदशनकिरणावलिं विनिःसारयन्ती विरचिताञ्जलिरेवमुपादत्त वक्तुम्-“अयि भद्र , विद्रावितविद्विषो विद्याधरराजस्य काचिदहं कन्या। गृहाद्विनिर्गस्य विजयार्धगिरौ साधं सखीभिराक्रीडे क्रीडन्तीमालोक्य मम स्यालः कोऽपि बलादवलम्ब्यं स्वविमानमारोप्य गच्छन्मध्येमार्ग निजसुमध्यारोषभीतः पातितवानत्र वने । पातकिनी चाहमिह पर्यटन्ती भवन्तमधुना दिष्टया दृष्टवती । किमन्यत् । एवमतिकृपणाहं भवतश्चरणयोः शुश्रूषया चरितार्थमात्मानं कर्तुमिच्छामि । बालानामबलानामशरणानां शरणागतानां च त्राणनं शौर्यशालिनां शैली चेञ्चतुर्णामेतेषां समवायस्यास्य जनस्य संरक्षणं करणीयं न वेत्यत्र भवानेव प्रमाणम्” इति ।
प्रकृतिधीर: कुमारोऽप्यविकृतेन्द्रियस्तद्वचनानन्तरम् ‘अम्ब , किं बतैवमादावेवास्माभिरननुमतमर्थमत्यर्थमर्थयसे । किमेतं रसरुधिराद्यशुचिवस्तुपर्याप्तमखिलाशुचिकुलसदनमविचारितरम्यमनुक्षणाविशरारं शरीरसंज्ञ मांसलं मांसपिण्डमालोक्यैवं मोमुह्यसे । पश्य पश्यतामेवास्माकं विनश्यतोऽस्य केवलमस्थिपञ्जरस्य चर्मयन्त्रस्य सिरागहनस्य रुधिरहदस्य पिशितराशेर्मेदःकुम्भस्य मलजम्बालपल्वलस्य रोगनीडस्य कलेबरस्य हेतुना केनचिदन्तःस्वरूपं चेदासीद्वहिरास्तामेतदनुभवास्था । स्प्रष्टुमथवा द्रष्टुमथवैतत्काकेभ्यो रक्षितुं वा कः शक्नुयात् । अतस्तं मक्षिकापक्षाच्छमलाच्छादनचर्मच्छायाप्रतारिताविवेकिन्यजस्रं स्त्रंसमानोद्वेलमलसहस्रसंगतसुषिरे संस्पर्शक्षणदूषितसमस्तप्रशस्तवस्तुनि जुगुप्सनीयपूतिगन्धिंदुराँसदाणुनिमाणे कर्मशिल्पिकल्पनाकौशलार्पितपेशलभ्रमे चर्मयन्त्रमित्रे गात्रेऽस्मिन्मा स्म कार्षीरत्यादरम्' इति व्याहार्षीत् ।
तावता 'मातुलसुते, मामतुलव्यथापाथोनिधौ पातयन्ती क प्रया
10
Page #121
--------------------------------------------------------------------------
________________
११०
गद्यचिन्तामणौ
तासि । प्रयान्ति ममासवः' इति प्रलपतः कस्यचिदचलगह्वरप्रतिरवगभीरस्वरः काननं व्यानरो । तमुपश्रुत्येयमश्वस्यन्ती युवतिरनाश्वासात्कुमारे सद्यः काप्यन्तरधात् , आविरासीच स परुषप्रलापः पुरुषः । अप्राक्षीच्चायमाधिक्षीणः कुमारम् -. "अयि महाभाग, भागधेयविधुरोऽहं विद्यानां पारदृश्वा कोऽपि विद्याधरः । सोऽहं मम मातुलस्याङ्गजामनङ्गतिलकां नाम कन्यकामुदन्योपद्रुतामिह द्रुममूले क्वचिदवस्थाप्य प्रस्थितः पुनरुपस्थितश्वानीय पानीयं महनीयाकृति तां तत्र बिम्बोष्टी न दृष्टवान् । कुमार, कुमारीयं मामिदानीमुपेक्ष्य कटाक्षेणापि नेक्षते । तथा स्निग्धामिमां मुग्धामपश्यतो मम पारवश्यान्मांसदृष्टिरिव ज्ञानदृष्टिरपि नष्टेव प्रतिभाति । किमत्र करोमि । तत्रभवतः सकाशं किमियमविशत्" इति । कुमारोऽप्यत्यारूढरागमूढस्य गगनचरस्य वचनमतिदीनं निशम्य 'न शाम्यति हि कर्मोपशमादृते दुर्मोचोऽयं रागरोगः । ततः खलु रागपरवशो लोकः स्वकुलं स्वशीलं स्वविभवं स्ववैभवं स्वशौर्य स्ववीर्यं स्वपौरुषं स्ववेदनमप्येकपद एव व्युदस्य दास्यमप्यभ्युपगच्छति । रागान्धो ह्यखिलेन्द्रियेणाप्यदर्शनादन्धादपि महानन्धः । केचिदेव हि वशिनः किमिदं किंविषयं कीदृक्कियत्किंफलमिति विचारचतुरकर्णधारा रागसागरं सदाजागरास्तरन्ति' इत्यन्तश्चिन्तयंश्चिन्तागौरवस्फुरितखेदं खेचरमुद्दिश्य 'भो नभोग, भोगलोलुपतया किमेवं विद्याशाली खिद्यसे । विकारहेतौ सति मनश्चेद्विक्रियते विद्यास्फूर्तिः किमर्थिका । कचिदस्थानपातिनो जनस्य याथात्म्यमवद्योतयितुं हि विद्याक्लेशः । दुराग्रहावकुण्ठितमतेस्त्वयं कण्ठशोषणमात्रफलः स्यात् । ततस्त्वया विहन्यतामियं कन्यानुपलम्भविजृम्भिता वैपश्चित्यशालिना शालीनता । किं च किं न जानासि तरुणीनां प्रतारणं मनस्यन्यद्वचस्यन्यत्कर्मण्यन्यन्ननु तासाम् । ताः खल्वमान्तं स्वान्तादिवोद्वान्तं काठिन्यस्वभावं कौटिल्यसंभारं रागप्राग्भारं तमःसंदोहं च स्तनद्वये
Page #122
--------------------------------------------------------------------------
________________
सप्तमो लम्बः ।
नयनगमनवचनभूलतास्वधरकरचरणेषु चिकुरभारे च वहन्त्यः कथं रागान्धज़नादितरेभ्यो रोचन्ते । तस्मादशुचिमयीनामघमयीनामपवादमयीनामनार्जवमयीनाममार्दवमयीनां मायामयीनां मात्सर्यमयीनां महामोहमयीनां कामिनीनां कपटस्नेहे न विश्वासस्त्वया कार्यः' इत्युदीरयामास ।
ततश्चैवमत्यद्भुतं सात्यंधरिवचनं निशम्याप्यनुपशाम्यन्मन्युभरिते तत्कन्यान्वेषणप्रवणे गते तस्मिन्गगनेचरे, वनिताजनवञ्चनाप्रपञ्चमञ्जसा साक्षात्करणन मुहुर्मुहुः संचिन्तयन्नेव कुमारस्तस्मादियाय । तदनु च कचित्प्रत्यन्तवीक्ष्यमाणविषमविषाणभीषणवृषकुलवृषस्याकलहविजृम्भितनि - पोषपूरितघोषघोषेण क्वचित्प्रशस्तप्रदेशनिवेशितविशालशालोद्भवदतिप्रभूताध्ययनध्वनिना कचिद्विशङ्कटकठिनस्थलघटितेक्षुयन्त्रकुटीरकोटिनिबिडकोलाहलेन क्वचित्पाककपिशकणिशशालिशालेयक्षितिसुलभशालिसस्यलवनतुमुलेन सर्वतश्च संचरन्नितम्बिनीपदावलम्बनलम्पटताञ्चितम शिजानमञ्जीररवेण च महितस्य मध्यदेशस्य मध्ये विनिवेशितां विशालजालरन्ध्रविनिर्यदगुरुधूमजालविलसदकालजलदागमाम_कषहर्म्यनिहनिखा - तनैकमणिमहःकल्पितशतमखचारुचापविभ्रमां विविधमहोत्सवताड्यमानलटहपटहपटुतररटितपर्जन्यगर्जितां शम्पाविडम्बिबिम्बाधरानिकरालोकप्रावृतां प्रावृडाभां हेमाभपुरी हेमकोशशङ्कया विशन्विवशपौररामानयनसुमनोभिरविराममर्चितः कुमारः कमप्यनारतकुसुमाभिरामाराममगाहिष्ट, ऐक्षिष्ट च कचिदसकृत्प्रहितपृषत्कास्पृष्टमाक्रष्टुमाम्रफलमायस्यन्तमङ्गस्यन्दिलावण्यवनं कमपि युवानम् । तदालोकनेन तदायासमपसारयितुमधिज्यधन्वनस्तस्मादयं धन्वी धनुराकृष्य पुनराततज्यमेतदातन्वन्विकृष्य मात्रया पत्रिणं प्राहिणोत् । प्रत्यगृह्णाच्च तत्रैवावस्थाय नात्यादरव्यापारितवामेतरपाणिना फलेन समं संमुखमागतं संदेशहरमिव चतुरं शरम् । पुनरालीढशोभिनस्तस्यालोक्य सात्यंधेरेरधरिताखिलचापधरं चापदण्डारोपणे त
Page #123
--------------------------------------------------------------------------
________________
११२
गद्यचिन्तामणौ
दाकर्षणे शरमोक्षणे शरव्यलक्षणे च लाघवमलघु चित्रीयाविष्टः स युवा पवित्रकुमारमेनमत्यादरमयाचत — ' इतो मित्र, नैजन्यायचातुर्यावसीददमित्रो दृढमित्रो नामात्र क्षत्रचूडामणिः । तस्य महिषी सदा संफुल्लवदननलिना नलिनीमतिशयाना नारी नलिनी नाम । तयोः पुत्राः सुमित्रधनमित्रादयः । तेष्ववेहि मामप्यन्यतमम् । तातपादोऽस्माकं पण्डितानत्र कोदण्डविद्यायां चिरस्य विचिनोति । तस्मात्तत्र भद्रेण यातव्यम्' इति ।
अथ तन्निरोधेन तथेति सुदर्शनमित्रः सुमित्रेण ब्रजन्गन्धगजघटामदपरिमलमेदुरगन्धवहानि प्रणिहित मौहूर्तिकावधारितनाडिकाच्छेदनताडितपटहानि प्रबुद्धसायुधयौध वृन्दप्रारब्ध संग्रामसाहसकथान्यतिधवलकञ्चुकोष्णीषधारिभिर्वारिदभयनिगूढस्थितैरिव हंसैर्गृहीतकौक्षेयक वेत्रदण्डैदण्डनीतिलतासंश्रयमैरिव प्रतिहारमहत्तरैरधिष्ठितानि कानिचित्कक्षान्तराप्यतिक्रम्य भासुरानन्तरत्नस्तम्भजृम्भमाणप्रभापूरतरङ्गितहरिति राजलक्ष्मीनिःश्वासपरिमलेन कालागुरुधूपेन कबलितोदरे चलितवारविलासिनीनूपुररशनावलयरववाचाले क्षीरोदपुलिनमण्डलाकारविपुलविशदशयनशताकीर्णे घनतरघुसृणघनसारमृगमदपटवासकुसुमसौरभमनोहारिणि महति मण्डपे पाण्डरमौक्तिकचन्द्रोपकाधोभागनिवेशितस्य प्रांशुपुरुषलङ्घनीयस्य समरोत्खातरिपुदन्तिदन्तारचितपादपीठस्य पट्टांशुकच्छेदच्छुरितोपधानस्याच्छाच्छदुकूलप्रच्छदस्य निर्लुप्तनैकरत्नकिरणविसरपरीत पर्यन्तस्य पर्यङ्कस्य मध्ये स्थितं सानुमत्सानुनि सुखसंनिविष्टमिव नखरायुधं पार्श्वदृश्यमानेन पद्मरागमुकुरेण रविणेवोदय नियोगप्रार्थनागतेनोपास्यमानमन्तिकस्थितमणिस्तम्भसंक्रान्तप्रतिबिम्बमिषाद निमेषैरिवावनितलास्पर्शिपदैरासेव्यमानम्, पराक्रमेणेवोत्पादितम्, साहसेनेव संनिवेशितम्, अवष्टम्भेनेवोत्पादितं, महासत्त्वतयेव निर्वर्तितं दर्पमित्र गृहीतदेहम्, उत्साहमिव राशीकृतं
राजानमद्राक्षीत् ।
"
Page #124
--------------------------------------------------------------------------
________________
सप्तमो लम्बः ।
तदनु च दृढ मित्रमहाराजोऽपि सुमित्र निवेदित कुमारचापाचार्यकश्रवणेन प्रगुणितसंभ्रमः साकूतमेनं समालोक्य ' केवलत्वेऽप्यकेवलपुरुतामस्य वरवर्णं वर्णयति' इत्यन्तश्चिन्तयंस्तत्प्रकोष्ठप्रतिष्ठितज्याघातरेखाद्वयसौष्ठवातिशयेन काष्ठागतशंभरश्चापभृतामयं भूभृदिति संभावयन् ‘असंभविभवदागमनस्य फलमनुभवन्तु मम पुत्राः । सुमित्राद्यन्तेवासिभिः समं तद्गमयन्नहानि कानिचिदबन्ध्यामिमां तनोतु वसुंधरां भवान्' इति सात्यंधरिमतुच्छमुपच्छन्दयामास । अथैत्रमत्युल्बणधरणीपतिनिर्बन्धेन बन्धुप्रियतया कृतावस्थितेर्गन्धर्वदत्तापतेः कतिषु च दिनेषु हेलया तत्र विलयं गतेषु, सुमित्रादिराजपुत्रेष्वप्यस्त्र कोविदात्कुमारादधिगतशस्त्रेतरसमस्त शास्त्रे षु जातेषु, कदाचन धात्रीपतिः पुत्राणां करिरथतुरगायुधविषयविविधपाटवेष्वप्रतिभटतां तत्तत्कर्मण्यलंकर्मीणैरत्यादृतामत्याहितस्तिमितचक्षुःप्रेक्ष्यमाणः प्रीतिप्राग्भारपारंगत ः 'कुमार, भवदनुग्रहादद्याहमस्मि पुत्रवान् । पुत्री
पाचार्यस्य भार्येति नियमिता नैमित्तिकैर्गात्रबद्धेन क्षात्रधर्मेणेव भवता पतिमती भूयात्' इति भूयो भूयोऽपि प्रार्थयामास । पार्थिवकुमारोऽपि तदीयार्थितया तदर्थस्य तथाभवितव्यतया दिव्ये मुहूर्ते पूर्तिमदानन्दभृतमहीभृता स्वविभवस्य स्ववैभवस्य सुतानुरागस्याप्यनुगुणसंविधापुरःसरं विधिवदतिसृष्टां तदङ्गयष्टिसंस्पर्शन पुनरुक्तचकासदविरलकनकाभरणोज्ज्वलां कनकमालामनघगुणभूषणो द्विजहूयमानपवनसखसाक्षिकं परिणिनाय ।
इति श्रीमद्वादीभसिंह सूरिविरचिते गद्यचिन्तामणी कनकमालालम्भो नाम सप्तमो लम्बः ।
:(*):·
------
११३
Page #125
--------------------------------------------------------------------------
________________
११४
गद्यचिन्तामो
अष्टमो लम्बः ।
--*अथ तामव्याजरमणीयां गरुडवेगसुतारमणः पाणौकृत्य पाणिगृहीती गृहीतातिमात्रब्रीडार्गलां निरर्गलमवगाहितुमप्रगल्भः स्वैरावगाहनविधायिविविधोपक्रमविशृङ्खलीकृतमदनमदान्धगन्धसिन्धुरत्रोटितत्रपापरि - घामप्रतीपः समवगाह्य तस्याः प्रणयकलहे दास्येन प्रकृतिस्थितावुपास्यभावेन च सुचिरमरीरमत् ।
एवमधिकाभिरामां रामामविरामं रमयतस्तस्य साहाय्यं संपादयितुमिव गाढायां शरदि, सात्यंधराविव सत्कविभिः सातिशयप्रकाशे सति चन्द्रमसि , संमार्जति दृढसम्यक्त्व इव जडसंपर्कसमागतसन्मार्गकलङ्कपकं पतङ्गे, कवचहरदारक इव निरस्तनीरदावस्थे सति तारकावर्त्मनि , सुजनहृदय इव निर्मलीभवति ह्रदनिवहे , नवयौवनसत्रीडयोषिज्जघनानीव पुलिनानि शनैःशनैः प्रदर्शयन्तीषु नदीषु, अराजवति राष्ट्र इव मधुपपेटकाक्रान्ते कुसुमितविटपिनि, गलितयोग्यकाले शैलूष इव नर्तनं त्यजति नर्तनप्रिये, मानिनीजनमञ्जुवाचमुपलब्धुं योग्यां कुर्वत्स्विव निकामं कूजत्सु कोकिलेषु, भास्वत्सूर्यकिरणगुरुपादभक्त्या भव्यमनसीव स्फारविकासिनि पद्मसरसि , शरदन्वितकुसुमशरे मरुदुपेतमरुत्सख इव दुरुत्सहप्रतापिनि, नातिशीतलोष्णैः सुराजचेष्टितैरिवाभीष्टैः कशिपुभिर्निकाम कामदायिकामदेवसदातनसमाराधनलम्पटयोस्तयोर्दम्पत्योरनुक्षणं साभोगतां भजति संभोगजाते, जातु स्वप्नावलोकितस्वामिवियोगशोकपावकार्चिश्छटारूढगाढमूर्छाक्रान्तां कान्ताम् ‘भीरु , किमस्थाने कातर्येण । को नाम कृशोदरि, त्वां प्रतार्य प्रयातुं प्रक्रमते । मुग्धे, किमेवं मां दग्धहृदयमनि
Page #126
--------------------------------------------------------------------------
________________
अष्टमो लम्बः ।
११५.
दानमातनोषि । सुराङ्गनामपि सुरापेक्षिणी कुलीनोपेक्षिणी चेयमस्तीति तवानवद्यकटाक्षविक्षेपपर्याय दुरुपलम्भसंपत्संभारोपलम्भदुर्ललितमस्मन्मन: सुतरामवहेलयति । किमुतापरां तरुणीम् । ततः कथमन्यत्र गतस्य मे सप्रा - णता । प्राणसमे, प्राणैर्विना को नाम जगति सजीवः स्यात्' इति समाश्वासयन्तं जीवककुमारं सादरमुपसृत्य रचितलीलाञ्जलिरुन्निद्रशतपत्रातिशायिवक्ता काचन धात्री समासाद्य सात्याहितमेवं प्रवर्तयामास गिरम् - “ अयि कुमार, गोसर्ग एवाहमायुधश्रमशालामभिपतन्ती तत्र स्वपन्तं कमपि भवन्तमेव विभाव्य प्रणयकलहव्याजप्रसजदुद्दाममन्युभरपराचीनां भर्तृदारिकामनादृत्य 'किमत्राशयिष्ट कुमार:' इत्यनुशयाविष्टा तत्क्षण एव तस्मात्प्रतिनिवृत्य वत्सामिमां भर्त्सयितुं सत्वरमुपसरामि । दृश्यते भवानत्र । सादृश्यभ्रमसंविधानचतुरः स कुमारः कः स्यात् ” इति ।
कनकमालादयितोऽप्यनवसितवचस्येव तस्यामाविर्भवदनुजविषयाध्यान : ' को नाम सुकृतिसुलभसुकृतोदयं समयं विनिश्चिनोति । नभश्चराधीश सुतोपदेशेन नन्दाढ्यः किमागतः । सा हि नः समस्तमिममुदन्तं हस्तामलकवत्स्व विद्यामुखेन जानीते' इत्येवं मनसा वितर्क वपुषा हृषिततनूरुहं पद्भयां तत्र प्रयाणं च प्रत्यपद्यत । प्रत्यदृश्यत च तत्रैव शस्त्रगुणनिकाशालायामहंपूर्वि कोपचरदनुचरमुखाबगत पूर्वजाभ्यागमतया गीर्वा णतां प्राप्त इव हर्षाढ्यो नन्दाढ्यः । ततश्च हर्षप्रकर्षपरवशहृषीक सत्वरकृताभ्युत्थानमानन्दाश्रुजलधारावर्जनपुरःसरं विकस्वरनेत्रशतपत्रविरचिताभ्यर्चनमधिकभक्त्या पादयोः प्रणमन्तं प्रश्रयश्रेष्ठं निजकनिष्ठमखिलगुणज्येष्ठोऽयं गन्धोत्कटसूनुरत्युत्कटानन्दभरदुर्वहतयेव प्रहृतरपूर्वशरीरः प्रेमचलितकरतलाभ्यामतिचपलमुत्थाप्य गाढा श्लेषेण विवेकमूढानामद्वैतबुद्धिमातन्वन्ननेकानेहसं हृदयनिक्षिप्तमक्षिभ्यां प्रत्यक्षयितुमिव प्रथक्कृतं कनीयांसं सांससंसर्ग निसर्गनिर्मले महीतले निवेशयन्निष्कासिताखिलज
Page #127
--------------------------------------------------------------------------
________________
११६
गद्यचिन्तामणौ
नस्तदागमनप्रकारमाकारपिशुनितान्तर्गताह्लादः शनैरनुयुयुजे । नन्दाढ्योऽपि पूर्वजानुयोगसमुपगतपूर्वप्रकृताध्याननवीकृतमन्युभरः सदैन्यं साकूतं सादरं च वक्तुमुपाक्रमत-" पूज्यपाद , जगदुपप्लवकारिभवदुपप्लुतवार्तावात्यया निकामस्फूर्तिमदविषह्याभिषङ्गोऽपि कोपकृपीटयोनिकृताङ्गारसंकाशदृशि विस्फुलिङ्गविस्फूर्जदसदृशपरुषवचसि रचिता|रुकपरिधानभीकरवपुषि रोषदष्टोष्ठदर्शनमात्रत्रासितहस्तवति हेलोदस्तहेतिनिवहप्रणयिपाणौ रणाभिमुखीभवत्पद्ममुखप्रमुखवयस्यवर्गे , केनचिदतर्कितागतिना गगनं नीयमानं स्वामिनं निर्वर्ण्य पुनर्निर्त्य संयुगसंनाहमनिवर्तनीयविषादविषमयनीरधौ निमज्जति, जातु दुर्जयदुर्जातजातोऽहं किमिह देहभारं मुधा चिरमूद्वेति मन्युमौढ्येन मुमूर्षुभवन्भाविभवदीयदिव्यमुखाम्भोजदर्शनशंभरतया संभूतेन भूतभवद्भाविगोचरखेचराधिपसुताहृदयपरिज्ञानानन्तरमपहृतासुर्भवेयमिति विचारेण प्रतिषिद्धः प्रजावतीसदनमतिद्रुतमदुद्रुवम् । अपश्यं च तां परिवादिनीसंक्रमितेन भगवदर्हत्परमेश्वराभिष्टवेन कष्टां दशामापन्नमात्मानमुल्लाघयन्तीमुल्लोकवियोगरोगात्तगन्धां गन्धर्वदत्ताम् । साप्याकूतज्ञा मामादरकातर्यादात्मत्यागरागिणमवगच्छन्ती 'किमेवं कृच्छ्रायसे । स खलु सकलजगल्लालनीयाकृतिः सुकृतिनां पूर्वस्तव पूर्वजः केनापि लब्धपूर्वोपकारेण यक्षचरेण यक्षेन्द्रेण स्वमन्दिरं नीतः । तदनु नूतनजामातृतां प्रतिजनपदं प्रतिपद्यमानः सुखेनावतिष्ठते । ततः किमेवं साहसमनुतिष्ठसि । पापिष्ठेयं स्त्रीसृष्टिरिव त्वमपि किमपरत्र गन्तुं न पारयसि । यदि कौतुकाविष्टोऽसि तव ज्येष्ठपादस्य श्रीपादसंदर्शने शय्यतामिह शय्यायाम्' इति मामामन्त्र्य मन्त्रनियन्त्रितं किमपि पावनं शयनमधिशयानमेनं जनं तत्समय एव समीहितार्थगर्भपत्रेण सममत्र प्राहिणोत्" इति ।
तदनु च गगनेचरतनूजया प्रेषितं संदेशं हृषिततनूरुहकरपल्लवेन सायल्लकमादाय गन्धर्वदत्तादयितः सदयं साकूतं सावधानं च वा
Page #128
--------------------------------------------------------------------------
________________
अष्टमो लम्बः ।
चयन्नवचनविषयविरहविषादमूषिकाक्ष्वेडपीडितजीविताया जीवन्मरणप्रकारविवरण निपुणाकृतेर्गुणमालयाः कुशलेतरवृत्ति तद्वयाजविवृतात्मीयविरहार्ति च तत्संदेशेन पुनरुक्तमवयंस्तत्समयस्फुरदमेयनिजशोकानलज्वालामप्यवरजमुख निर्वर्णनेन तद्वचनसमाकर्णनेन च शमयंस्तूर्णप्रधावितपरिजनदत्तपाणिरुत्थाय तदुद्देशादनुजेन समं निजगृहमभ्यवर्तत ।
अथ विदितजीवंधरनन्दाढ्य सौ भ्रात्रैर्दृढ मित्र महाराजप्रभृतिसंबन्धिभिः सानुबन्धमभिनन्द्यमानेन कनीयसान्वितस्य कनकमालावरस्य वरार्हतां गतेषु वहत्सु वासरेषु सर्वेष्वपि कदाचित् ' उर्वीतलमतिचपलचरणतलाभिघातेन दलयन्तः सद्यः समुत्खातहेतिजातधौतधारादर्शनमात्रत्रस्यदाभीराः केचन वीराः कुतोऽपि समागत्य निहत्य च प्रतीपगामिनः कतिचन गोमिनोऽपि गोधनमवस्कन्द्य कापि गताः' इति गदापल्लवगुच्छप्रणयिपाणिपल्लवा वल्लवा भृशं धरावल्लभस्य द्वारि स्थिता चुकुशुः । वीशालिनां विश्रुतः स राजेन्द्रोऽप्यश्रुतपूर्वमुपश्रुत्य गोदुहामतिभृशमाक्रोशमनीदृशक्रोधाविष्ट: ' तानेवमभिनिविष्टदर्पज्वरानसांप्रतकृतः सांप्रतमेव समानीयास्माकं पुरस्तादवस्थापयत । नो चेदपास्तासूनवश्यं वः पश्येत ' इति दर्शिताञ्जलीन्सेनान्यो व्याज । ततश्च तथाविधराजाज्ञया समन्तादुपसरद्भिः सुरगजगर्वस्तम्भिभिः स्तम्बेरमैर्वल्गुवल्गनपराजितकुरङ्गैस्तुरङ्गैर्गमनरंहस्तिरस्कृतमनोरथै रथैर्बहुकृत्वः कृतवैरिविपत्तिभिः पत्तिभिश्च सौरभेयी संघावस्कन्दितस्करान् हस्तग्राहं ग्रहीतुं वहत्सु वाहिनीपतिषु एवंभूतमेतदाकर्णयन्नेकधनुर्धरः सात्यंधरिररिपरिभवासहिष्णुतया स्वयमपि रथी निषङ्गी कवची धनुष्मांश्च भवन्नवरजसारथिचोदितशताङ्गः शतशः श्वशुरेण निवार्यमाणोऽपि मतः गवां मोक्षणमकाङ्क्षीत् । तदनु च गमनवेगानुधावदतिजवनपवनसनाथरथधुर्यखरखुरखातधरापरागपुरोगतया पुरोवर्तिनं मित्रसार्थं पार्थिवैरिव प्रतिगृह्णन्गृहीतगोधनानामायोधनेन निधनं कर्तुमति
,
११७
Page #129
--------------------------------------------------------------------------
________________
११८
गद्यचिन्तामणौ
त्वरितमुपसृत्य परीत्य तस्थौ । तावता त्रिभुवनभयंकरेण चापटंकारेण जगदभयंकरस्यास्य कोदण्डकोविदस्य सांनिध्यमवबुध्य तस्य कोपादात्मानं गोपयितुकामास्ते गोकुलदस्यवो वयस्याः सरभसोत्खातनिजहृच्छल्यानीव स्वनामाङ्कितशल्यानि पुरस्कृतपुङ्खानि शिलीमुखजातानि कुमाराभिमुखं प्रायुक्षत । प्रणेमुश्च ते प्रसभमुपसृत्य स्वनामचिह्नितमुखाञ्शिलीमुखान्विलोक्य विचारस्य विस्मयस्य प्रमोदस्य कौतकस्य मोहस्य च योगपद्येन पात्रीभवतः पवित्रकुमारस्य पादयोः पद्ममुखप्रमुखाः सखायः । बभूव चायं बहुसहस्राक्षो बहुधा विभक्तमिवात्मानं मित्रलोकमवलोकयन्पवित्रकुमारः । सखायश्चासन्सौख्यातिशयेन तदभ्याशप्रवेशलब्धेन सनिमेषा अनिमेषाः ।
अथास्मिन्सौरभेयीगवेषिणि सुदर्शनसुहृदि, सुहृदामुपलम्भादेधान्वेषिणि मणिलाभादिव स्फीतमुदि, वनमतीत्य मित्रपेटकेन लालाटिकैरप्यमा हेमाभपुरीमवगाह्य नागरिकनयनसुमनोञ्जलीन्ग्राहंग्राहं निजगृहमीयुषि 'मुषितोस्राश्चोरवदमी कारागृहे किं न निगलनीयाः' इति लालयन्तीममन्दप्रेमान्धां सगन्धां कनकमालामिव कनकमालामतिलोकबान्धवसंबन्धिसमाजं च समालोक्य चरितार्थीभवति वयस्यसार्थे , कदाचिदयं सुदर्शनमित्रः ‘स्वमित्राणामतिमात्रबहुमत्याः कोऽत्र हेतुः । अस्मदीयक्षत्रता किमवगता । किंस्विदन्यदमीषां बहुमतेरायथापुर्ये निदानम्' इति संशयानस्तत्परीक्षणाय दत्तक्षणः कचिद्रहस्योद्देशे वयस्यान्पप्रच्छ 'यूयमिहागच्छन्तः केन पथा समायाताः । कानि वा वर्त्मनि कौतुकास्पदानि पदानि दृष्टानि' इति । तथा पृष्टानां वयस्यप्रष्टोऽयं प्रदर्शितप्रश्रयोत्कर्षो व्याहार्षीदेवं हर्षोत्फुल्लमुखः पद्ममुखः- “देव , देवस्यान्वेषणाय वयमश्वीयपणायिनामवलम्ब्य धुरं राजपुर्या विनिर्गत्य त्रिचतुरवासरैः कुसुमामोदवासितहरिन्मण्डलं दण्डितकुसुमकोदण्डं दण्डकारण्यान्तर्गतं कमपि तापसाश्रममध्व
Page #130
--------------------------------------------------------------------------
________________
अष्टमो लम्बः ।
११९
श्रमादाश्रित्य तत्रत्यानशेषानपि विशेषान्पश्यन्तः कचिदपश्याम नश्यद्रूषामपि भूम्ना देहसौन्दर्यस्य दर्शितदेवमातृगौरवां कामपि जगन्मातरम् । पुनरनया दयाजनन्या 'मान्याः, यूयं कल्याः' इत्यत्यादरमनुयुक्ता वयमत्र प्रत्युत्तरमुदीरयितुमुपक्रम्य 'देवि, वयममी राजपुरीवास्तव्यवैश्यपतिसूनोर्दीनजीवजीवातोर्जीवककुमारस्य सुहृदः किल । अस्मद्दुष्कृतबलेन कृतघ्नप्रष्ठः काष्ठाङ्गारो नाम राजापशदः कदाचिदमुष्य पराक्रमममृष्यन्केनापि दोषमिषेण कुमारमेनं मारयितुम्—' इत्येतावदवोचामहि । तावता तद्देव्याः संजातामापदमिरंमदाविद्धशयोरिवेत्थमितिवक्तमिदानीमपि न जानीमहे । पुनरतिप्रलापतुमुलोपस्थितसत्रासतापसपत्नीपरीतोपकण्ठमाक्रन्दविशीर्यमाणकण्ठमालोकनोत्कण्ठमानवटुपेटकमत्युत्कट - कोलाहलपलायमानपर्णशालाङ्गणकुरङ्गगणमतिकरुणरोदननिदानप्रश्नैक - तानमुनिबृन्दं च तदमन्दव्यसनमनुभवन्तीयमखिलजगदम्बिका तदानीमम्बुमुचां पतिः स्तनितेन समममृतमिव परिदेवनेन सह देवस्य वृत्तान्तमपि यथावृत्तं जगदभिवृद्धये प्रकटयामास । वयं तु पुनरिदंतया विदितदेवोदन्ताः कन्दलितानन्दकन्दाः 'कथमन्यदुपक्रान्तमन्यदापतितम् । अहो धन्या वयमद्य संजाताः' इत्यन्योन्यस्य मुखमीक्षमाणाः क्षोणी चाभवदस्मदधीना । कीनाशमपि काष्ठाङ्गारं काष्ठमिवाशुशुक्षणिराशु भस्मसात्कारष्यामः' इति वदन्तः परस्परं तां धिक्कृतां धैर्येण , हुंकृतामहंकारेण , भसितां भाग्येन , धर्षितां प्रहर्षेण , विस्मृतां स्मितेन , वञ्चितां विवेकेन, सजुगुप्सां स्त्रीजन्मनि , सापलापां पुण्येषु, सक्रोधां वेधसि , सलज्जां जीवितव्ये, सत्रासां पुत्रलाभे, दर्शितदुरवस्थां देवीम् ‘देवि, मा भैषीरेवम् । न मारितः स कुमारः । किंतु मारयितुमभीष्टोऽयं केनापि विशिष्टेनास्मद्दिष्टया तत्क्षण एव संरक्षितः कापि क्षितौ सुखेनास्ते । तदर्शनास्थया प्रस्थिता वयमप्युपस्थास्यामहे चाद्यश्वस्तमवश्यम् । देवि, त्वं च द्रागेव
Page #131
--------------------------------------------------------------------------
________________
१२०
गद्यचिन्तामणौ
द्रक्ष्यसि त्यक्ष्यसि च हृच्छल्यं यतो भोक्ष्यति भुवं पुत्रस्ते निजामित्रमपि हेलया हत्वा' इत्येवं चान्यथा च भृशमाश्वास्य तद्वयथां कथमपि लङ्घयन्तः पुनरलघुस्नेहमापृच्छय ततो गच्छन्तः सौरभेयीहरणच्छलेन निजश्रीपादच्छायां श्रितवन्तः" इति ।
___ एवं व्याहरत्येव तस्मिन्विकस्वरमुखे पद्ममुखे, वीतमुखकान्तिर्विजयानन्दनोऽयं 'हन्त हन्त हतकस्यास्य जनस्य जननी किमिदानीं यावज्जीवति । जीवतां जगति किं नाम न श्राव्यं श्रोतव्यम्' इति साकृतं सानुतापं सकौतुकं च वदन्कण्ठोक्तमातृदर्शनोत्कण्ठः कण्ठीरवकिशोर इव सत्वरमुत्तिष्ठन्महीपृष्टादनुधावदवरजवयस्यैरमा सरभसमुपसृत्य संबन्धिगृहं कथंचिद्गृहीतश्वशुराद्यनुमतिरनुचरमुखविदिततदीयजिगमिषायाः प्रागेव जिगमिषुप्राणां प्रबलदावज्वलनज्वालालीढजरठेतरमाधवीलतातुलितां कनकमालाम् ‘भीलुके , मैवं भेतव्यम् । वासु , सहस्व मासमात्रम् । मात्रीयव्यसनशमनकृते गमनमिदम् । अन्यथा कथं क्षणकालमपि त्वद्विकलः कलयामि गमयितुम् । गन्तुकामोऽहमपि कान्ते , त्वां मम स्वान्ते निधाय ननु गन्तास्मि । तस्मात्तव भीरुके , विरहस्य कः प्रसङ्गः' इति प्रसङ्गोचितामितप्रियसंभाषणपर्यायपीयूषवर्षेण प्रशमितनितान्ततीवसंतापां तां संपाद्य पुनः संपदर्हमहार्हपरिबर्हेण सार्धमर्धपथाधिकयात्रेण दृढमित्रमहाराजेन सुमित्रादिना च दुःशकनिवारणतया सुदुःखमुज्झितः प्रसभं प्रधावन्प्रसरदग्निहोत्रधूमधूम्रफलभारनम्रनैकभूरुहं वासरावसानसंक्षिप्तनीवाराङ्गणनिषादिमृगगणनिर्वर्तितरोमन्थमालवालाम्भःपानलम्पटवि - हगपेटकविश्वासविधानकृते सेकान्तविसृष्टवृक्षमूलमुनिकन्यकाविवृतकारुण्यं दण्डकारण्याश्रममधिवसन्तीम् , मुषितामिव मोहेन, क्रीतामिव क्रशिम्ना, वशीकृतामिव शुची, दुःखैरिवोत्खाताम् , व्यसनैरिवास्वादिताम् , तापैरिवापीडिताम् , चिन्तयेवाक्रान्ताम् , क्लेशैरिवावेशिताम् , अभाग्यै
Page #132
--------------------------------------------------------------------------
________________
अष्टमो लम्बः ।
१२१
रिवासंविभक्तां मातरमत्यादरमभ्येत्य प्रणनाम ।
सा च नन्दनमुखेन्दुसंदर्शनेन सलिलनिधिरिवोद्वेलसंभ्रमा , प्रौढप्रेमान्धतया प्राप्तयौवनमप्यौरसमवरजं च सुचिरं परिरभ्य तत्परिरम्भणपर्यायपरमभेषजप्रयोगतस्तजननसमयत्यागेन तदभिवर्धनसौख्यवियोगेन तदीयहृदयरहितनिर्हेतुकदरहसिताम्रडितानन्दकरपांसुक्रीडानवलोकनेन च रूढमतिमात्रं पुत्रशोकहृच्छल्यं साकल्येन मुमोच । तदनु च निजसुतनिर्विशेषप्रतिपत्तिमुदितमित्रैः पुत्राभ्यां च केसरिणीव किशोरकैः परीता सा निषद्य सपरितोषममूनिरीक्ष्य ‘अङ्ग पुत्राः, चिरकाशितयुष्मदर्शनसुखोपलम्भदुर्ललितहृदयवृत्तिः पचेलिमसुकृतबलेन हेलया मे निष्पन्ना । अपि नामैवं जीवन्त्यामेव मयि निष्प्रत्यूहं निष्पद्येत निजराज्यप्रवेशवार्तयापि कदाचित्कर्णोत्सवः । स खलु महोत्साहेन महापुण्येन महापरिकरेण च साध्यः कथं देशेन कोशेन मौलेन पृष्ठबलेन च वा विधुरैर्युष्माभिः सुकरः स्यात् । अस्ति चेत्सुकृतमस्तु कदाचिदियममित्रनिबर्हणपुर:सरा पित्र्यपदावाप्तिः । तावदरातिप्रतारणप्रसजदात्मापायः सदाप्युपायप्रष्ठोद्यतैर्युष्माभिः परिहियताम् । परिपन्थिजनगृह्याः खलु निगृह्याः पुरंध्रयः पुमांसश्च । केचिदशने शयने पाने वसने च व्यसनकरं गरं मिश्रयित्वा व्यापादयितुं यतेरन्' इत्येवमत्यादरं व्याजहार । एवं निजविजयशंसि विजयावचः श्रुत्वा विजयासूनुः ‘अम्ब, नार्थेऽस्मिन्नत्यर्थ व्यसनमनुभूयताम् । भूयांसस्तव पुत्राः प्रत्येकमप्यमी प्रभवन्ति हत्त्वा राजघ्नमार स्वराज्यमन्यराज्यं च स्वसात्कर्तुम् । अतः कर्तव्यमतः परं त्वया निराकुलमवस्थानम् । कृतं निराकृतानामस्माकं कृते भुक्तपूर्वया दुर्वहव्यथया' इत्येवं सगर्व सानुतापं च प्रत्युदीर्य विचार्य च रहः स्वकार्यनिर्वहणप्रकारमवरजपद्ममुखप्रमुखपरिकरण समं मातरं मातुलस्य सम्राजः समनि प्रहित्य प्रसभं स्वयमपि राजपुरीं प्रति प्रतस्थे ।.....
11
Page #133
--------------------------------------------------------------------------
________________
१२२
गद्यचिन्तामणौ
अथ मातृविलोकनस्फुरदुल्लोकहर्षः सन्सात्यंधरिः सरभसमपरौ पितरौ दिदृक्षुरुपसृत्य राजपुरीं पुरोपकण्ठभाजि क्वचिदुद्गमोत्कण्ठमानकलकण्ठीपादप्रहारकुसुमितस्त्रीप्रियपादपाभिरामे महत्यारामे परिकरमवस्थाप्य दिनप्रतिकूलतया कुलसदनमनुच्चलन्नुच्चलदुच्चैःपौरकलकलरवमांसलमहोत्सववाद्यशब्दापदेशेन जननिवेशेन चिरविरहविजृम्भितदर्शनकौतुकादाहूयमान इवेयिवानभितः पुरं विचचार । ततश्च तत्रत्यानत्यन्तस्फुरदत्याहितः समाहितचित्तवृत्तिविलोचनविलोभनीयान्विलोकमानः कचिदभ्रंकघरम्यहाग्रे सविभ्रमभ्रमणक्वणन्मणिभूषणरवविश्राणितलयाविसंवादिपदप्रचारम् , मुहुःस्रंसिचिकुरभारव्यापारितकरम् , अवस्रस्तप्रतिसमाहितकर्णपूरीकृतकर्णपूरपल्लवानिलशोषितकपोलपत्रभङ्गदूषिधर्मसलिलाङ्करम् , दरगलितकुचतटांशुकनियमनप्रवणैकपाणिपल्लवम् , उल्लसदपदेशस्मितचन्द्रिकाभिषिक्तबिम्बाधरम् , पृथुनितम्बबिम्बोत्पतदवपतदतिवलक्षक्षौमोज्ज्वलम् , सलीलकरव्यापारशैघ्रयानतिक्रमितप्रकृतकलीधवलदन्तपत्रप्रतिसमाधिनम् , प्रतिसमयसुलभोत्थानावस्थाननिर्व्यवस्थमुक्ताहारमनोहरोरःस्थलम् , प्रसृताकुञ्चितवेल्लितबाहुलताभिहतिवशबाह्याभ्यन्तरभ्रान्तकन्दुकनिरन्तरोत्पतननिपतनदृष्टनष्टमध्ययाष्टिकं च, कदाचिद्गीतमार्गानुधावदुन्नमनावनमनप्रकारेण कदाचिन्मण्डलभ्रमणेन कदाचिद्गोमूत्रिकाक्रमेण च निषण्णोत्थिताया निमीलितोन्मीलितायाः स्थितप्रस्थितायाः कस्याश्चिदारन्धकन्दुकक्रीडायाः कन्यकायाः पाणितलतः परिभ्रश्य पुरः पतन्तं कमपि कन्दुकमैक्षिष्ट । पुनः किमिदमिति कौतुकाविष्टस्तत्क्षण एवोद्धीवः स व्यग्रं तद्गृहस्योपरितलमुत्पश्यन्नपश्यदात्मावलोकनावतीर्णतत्प्रथममदनवितीर्णविकारल्यापारितनयनेन्दीवररश्मिविसरव्याप्तराजमार्गों स्वौकसामपि दुरुपलम्भां तां कन्दुकस्वामिनी कन्यकाम् । आसीच्चायमप्यनन्यजाक्रान्तस्ततस्तदीयनयनवागुरान्तर्गत इव पदमपि गन्तुमप्रगल्भः स्वल्पेतररा
Page #134
--------------------------------------------------------------------------
________________
अष्टमो लम्बः ।
१२३
गातिस्तद्गृहवितर्दिकामध्यास्य ‘का स्यादियं कुमारी । कानि वा स्युरदसीयान्यमृतक्षारीणि नामाक्षराणि । कतमः स्यादस्याः पिता । कथमेनां करेण स्पृशन्कमलयोनिः कामुको नासीत् । अपि नामेयमस्माभिः कदाचिल्लभ्येत' इत्येवमितरथा च विरच्यमानविचारः कुमारः कुटमलितकुबेरैश्वर्येण तद्गृहवैश्यवरेण "कुमार, अहमस्मि सागरदत्तो नाम । मम सागारधर्मपत्नी कमला । विमलेति विश्रुता तत्पुत्री । जातमात्रायां तस्यां संगिरते स्म गणितज्ञगणः ‘यस्मिन्महात्मनि निजसद्म समीयुषि क्षणादक्रयसंचितमणिविक्रयः स्यात्तस्येयं गृहिणी' इति । गृहागते भवति विक्रीतश्च वीतकेतृकतया पुरा पुञ्जितो मम रत्नराशिः । ततः सर्वथा योग्यां मम सुतां भाग्याधिक, भवान्परिणयतु परिणामान्तरमुज्झित्य” इत्युपच्छन्दनपूर्वकमदृष्टपूर्वसंविधया विधिवद्विसृष्टाममलनैपथ्योज्ज्वलां विमलामिधानां तां कन्यकां परिणिन्ये ।
इति श्रीमद्वादीभसिंहसूरिविरचिते गद्यचिन्तामणौ
विमलालम्भो नामाष्टमो लम्वः ।
-:*:
Page #135
--------------------------------------------------------------------------
________________
१२४
गद्यचिन्तामण
नवमो लम्बः ।
अथाभिनवपरिणयनपरिणतव्यलीकयवनिकान्तर्हितमनोभवरसानुभवकुतूहलया प्रियतमबलात्कारनीयमानपरिष्वङ्गपरिचुम्बनाभिमुख्यया प्रतिपादितरागहस्त पल्लवेन पञ्चशरेण शनैः शनैः सुरतसुखानुभवनसरणिमवतार्यमाणया विलासकलहंसनिवासजङ्गमकमलिन्या कान्तिकिसलयितकायलतार्पितभुवननयननिर्माणफलया विमलया सह वर्धमान रोमाञ्चमञ्जरीकल्प्यमानसुरतदेवताराधनसुमनोदामकानि मौग्ध्यविधीयमानलज्जापरिहियमाणाङ्गतरङ्गितप्रियतमरागविलसितानि विच्छिन्न विशीर्णशेखरमाल्यकेसरपरागधूसरपर्यङ्काणि परस्परपरिरम्भचुम्बनपौनरुक्त्यनिरक्षर निवेद्यमानोभयाभिलाषविशिष्टानि सुरतचेष्टितान्यनुभूय रतिपरिश्रमपारवश्येन शयनतलप्रसारिताङ्गीं विलुलितविरल विशेषकलेशपेशलललाटरेखामसकृदारचितभूषणारुणमन्थरपरिस्पन्दसुन्दरनयनेन्दीवरामनन्तरितताम्बूलरागारु
णिमवर्णितानवरतग्रहणदशनच्छदामतुच्छेन प्रणयेन निजगमनमसहमा नाम्,‘अलमलमविस्रम्भेण रम्भोरु, पुनरनागमनविषयेण । अनुक्षणमागमिध्यामि' इत्याभाषमाण एव भवनान्निर्गत्यानुनगरमविरलवकुलकदम्बचम्पकसहकारप्राये पुष्पोद्याने समासीनानामारभ्य शैशवादारचितपरिचयापयातपरस्पररहस्यानां वयस्यानामाजगाम समीपम् ।
ततश्च तमासक्तवल्लभाचरणलाक्षारसलोहितालकपल्लवोपरिभागमुपभोग|यासनिमग्नतारकदृशं गाढग्रहण लग्नदशनशिखरप्रणिहिताधरमणिमतिसुरभिपरिमलाङ्गरागव्यतिकरविशेषकमनीयवपुषं विषमेषुराज्यधर्ममिव
Page #136
--------------------------------------------------------------------------
________________
नवमो लम्बः ।
१२५
विधृतविग्रहं प्रेमविवशविस्मृतनिमेषनिश्चलपक्ष्मपुटाभ्यां स्फुटितकमलमुकुलपेशलाभ्यां लोचनाभ्यामापादचूडमालोक्य 'अहो महाभाग्यस्य ते सौभाग्यं सर्वभुवनातिशायि , यदेवमनुपुरं पुरंध्रीभिः स्वयं त्रियसे । संप्रति समूढायाः प्रौढभाग्याया भजन्त्यभिख्यां कानि कान्यक्षराणि' इत्यक्षतसौहृदवानः पद्ममुखादयः पर्यपृच्छन् । सात्यंधरिरपि संजातसंतोषः किंचिदुन्मिषितहसितचन्द्रिकाच्छलेन सिञ्चन्निव स्नेहामृतम् ‘अधरितकमला सा विमला नाम्ना' इति व्याहार्षीत् । हर्षविकसदास्यानां वयस्यानां गोष्टीमधितिष्ठन्परिहासालापविदग्धबुद्धिर्बुद्धिषेणो नाम सुहृत् 'अस्य कुतः सौभाग्यम् । दौर्भाग्यादपरैरनूढाः प्रौढवयसः काश्चिदनन्यगतयः कन्यका निकाममेनं कामयन्ताम् । यदि नामायमेकान्तपरिहृतपुरुषदर्शनां दर्शनीयाङ्गयष्टिमधिवसन्ती कन्यान्तःपुरमनङ्गमातङ्गनहनदक्षकटाक्षहीरञ्जीरां सुरमञ्जरीमावर्जयेदअसा योग्यः सौभाग्यवतामुपरि गणयितुम् ' इति सोप्रासं प्रावोचत । तद्वचनानन्तरं सात्यंधरिरपि समुद्भूतमन्दहासः ‘साधु कथितं दास्याः पत्या वयस्येन । न चेदल्पीयसानेहसा समावर्जयेम तां वर्जिता एव वयमपि त्वमिव सौभाग्येन' इति ससंगरं व्याहरन्नेव पुनरपि पुरमाशु प्राविशत् । अविशञ्चास्य हृदयं वितर्कः 'केनोपायेन तां तथा करिष्यामि यथा मनसि मन्मथशरपातेन पारवश्यमासादयन्ती समासादयेदस्मान्' इति ।
ततश्च विभाव्य क्षणादेव यक्षोपदिष्टमनुमहिम्ना निजसौकुमार्यनित्राविकचकाशकुसुमस्तबकपरिभावुकेन पलितपाण्डरेण केशकलापेन पटेनेव सितेनावगुण्ठितोत्तमाङ्गम् , जराजलधितरङ्गानुकारिणीभिरायामिनीभिर्वलीभिः स्थपुटितललाटफलकम् , अलिकतटस्फुरदलघुवलिभारनुन्नाभ्यामिव नम्राभ्यां भूलताम्यां तिरोधीयमाननयनम् , उन्मिषितदूषिकाभ्यामुद्भूतनीलपीतपाटलसिराजालजटिलाभ्यामनुपलक्ष्यमाणपक्ष्मरोमरा
Page #137
--------------------------------------------------------------------------
________________
१२६
गद्यचिन्तामणौ
जिभ्यां हिमानीहतपुण्डरीकविच्छायाभ्यामीक्षणाभ्यामुपलक्ष्यमाणम् , आनाभिलम्बितेन जरावल्लीफुल्मञ्जरीनिभेन कूर्चकलापेन प्रच्छादितवक्षसम् , अक्षीणकासकाष्ठाकरेंजपेन घर्घराघोषेण मुखरितकण्ठमूलम् , अतिनम्रपूर्वकायकथ्यमानदौर्बल्यम् , उल्लसदविरलास्थिपटलस्थपुटितसंस्थानम् , अस्थानपतनजनितजनहासविजृम्भणम् , एककरकलितकमण्डलुम् , इतरकरविधृतस्य वलक्षपटवेष्टितशिखरस्य शिखरनिहितहरितकुशापीडस्य वंशदण्डस्योपरि निवेश्यमानशरीरयष्टिम् , स्पष्टदृष्टकीकसान्तरालनिर्गतसिरासंतानसब्रह्मचारिणा ब्रह्मसूत्रेण सीमन्तितगात्रम् , अपगतमांसकृशाङ्गुलीपरिच्यवमानपवित्रिकाप्रत्यवस्थापनव्याप्रियमाणपाणिम् , प्रयाणोन्मुखप्राणमिव प्रेक्ष्यमाणम् , प्रेतनिर्विशेषवेषं दधौ । एवमात्मनोऽप्यत्याहितमापादयितुं समर्थया वार्धकावस्थया वर्धितकुतूहलैर्बालर्विहस्यमानः पदेपदे परिस्खलन्नवष्टभ्य मुष्टया वंशयष्टिमतिक्रम्य किंचिदन्तरं वामकरगृहीतवेत्राभिरितरकरगृहीतखगलताभिरापादमुक्तधवलकञ्चुकाभिः प्रतीहारस्थाननियुक्ताभिर्युवतीभिः समन्ता प्तं प्रत्युप्तनैकमणिमहःस्तबकपिञ्जरितगगनं सुरमञ्जरीभवनं यदृच्छयेवोपसृत्यातुच्छरुषा दौवारिकयोषित्सार्थेन 'किमर्थमिहोपस्थितम् । अवस्थीयतामत्रैव विप्र, त्वया । नैवान्तः प्रविश्यताम्' इत्यादिश्यमानोऽपि कुमारः कुमारीतीर्थस्नानेन वार्धकमेतदपसारयितुमुपसरामि' इत्युदीरयन्नवीर्य निवारणोपक्रममुपसर्तुमुपाक्रस्त तट्टहाभ्यन्तरम् ।
पुरंध्रयश्च प्रतीहारस्थानस्थितास्तदवस्थाविलोकनेन तद्वचनश्रवणेन च जातस्फीतहासानुकंपाः किं पातकमस्माभिरनुष्ठातुमारभ्यते । बुभुक्षितोऽयं क्षितिसुरः स्वैरं किमप्याचष्टे । स्पृष्टोऽप्यस्माभिरयं नष्टासुर्भवेत् । आस्तामयमत्रैव । प्रस्तुतमेतदुदन्तमिदंतया तस्यै भर्तृदारिकायै विज्ञापयाम' इति विरचितविचाराः सरभसमेव सुरमञ्जरीसकाशमविशन् । अ
Page #138
--------------------------------------------------------------------------
________________
नवमो लम्बः ।
१२७
भ्यधुश्च ताः सुन्दर्यः सुरमञ्जरीमञ्जलिबन्धकरणे कातर्यकण्ठोक्तभयाः ‘भर्तृदारिके , भर्तेव जरायाः कोऽपि वृद्धब्राह्मणो ब्रह्महत्याभीत्यास्माभिरभर्सितः सुतरामुत्सुक इव भिक्षायां प्राविक्षदभ्यन्तरकक्ष्याम्' इति । सा च वरवर्णिनी तदूचनाकर्णनेन तदवलोकनघूर्णमति: पूर्णास्ते मनोरथाः प्राणनाथो यतः प्रत्यासन्नः' इति कणितव्याजेन मणिनूपरेणेव प्रोच्यमाना पुरःसरमानिनीपरिषदभिधीयमानालोकशब्दा चरणाभ्यामेव जीवितैकशरणमेनमेनोरहितं तपस्यासमाश्रितं श्रीरिव स्वयं शिश्रिये । पिप्रिये च तं प्रवयसमालोक्य सा प्रमदा। निजगाद च निजपरिचारिकाः ‘परिश्रमस्तावदस्य परिह्रियताम् । आह्रियतामाहारादिकम् । कृतिनमेनं कृतादराः कृतकशिपुं कारयध्वं यूयम्' इति । ताश्च तद्वचनं निशम्य निशान्ताभ्यन्तरे जीवंधरमानीय तपनीयगलन्तिकागलितपानीयकृतपादप्रक्षालनं प्रक्षरदाज्यं प्राज्यभोजनं भोजयितुमारेभिरे।
कुमारोऽपि तां नखचन्द्रकिरणपरामर्शेऽपि विकसता चरणकमलयुगलेनोपेताम् , कार्कश्यरहितकरिवरकराकारेण कर्थितैकान्तशीतलकदलीस्तम्भेन भृशमूरुद्वयेनोपशोभिताम् , दानरेखयेव मदनगन्धद्विपस्य कृपाणधारयेव सौभाग्यवरस्य तनुतरमध्यलताविलीनमधुकरमालायमानया रोमराजिरेखया विराजमानाम् , चकासत्यपि मुखचन्द्रमण्डले संगताभ्यामिव रथाङ्गनामभ्यां स्तनाभ्यामुद्भासमानाम् , पल्लविताभ्यामिवाङ्गुलीभिः कोरकिताभ्यामिवाङ्गदमौक्तिकैः कुसुमिताभ्यामिव करसंभवैर्बाहुलताभ्यां विराजमानाम् , मदनारोहलीलाडोलायमानया कर्णपाशश्रियालंकृताम् , विकसिततिलकुसुमसमानया रूपसौन्दर्यसागरबुद्बुदायमानया नासया समेताम् , विकचविचकिलकुसुमावकीर्णकेशकलापाम् , तारकिताम्बरामिव विभावरीम् , कल्पलतामिव कामफलप्रदाम् , जानकीमिव रामोपशोभिताम् , समुद्रवेलामिव विचित्ररत्नभूषिताम् , नारीजनतिलकभूतां कुमारी
Page #139
--------------------------------------------------------------------------
________________
१२८
गद्यचिन्तामणी
विलोक्य विस्मयस्मेरचक्षुः 'अहो मदनमहाराजविजयसाधनानां समवाय इव योषिदेषा लक्ष्यते । तथाहि- तस्य धनुर्यष्टिरिव भूलते , मधुकरमालामयी ज्येव नीलालकद्युतिः , अस्त्राणीवापाङ्गविक्षेपाः, वैजयन्तीदुकूलमिव दशनमयूखजालकम् , प्रियसुहृदिव मलयानिलो निःश्वासमारुतः, परभृतबलमिवातिमञ्जुलमालपितम्' इत्याकलयन्नन्तःस्फुरदाह्लादः , परिजनानीतं पवित्रमासनमध्यास्य कथमपि वार्धकेनेव कतिचन कबलानि शनैरशित्वा पुनरशनक्लेशमपनेतुमिव महनीयं किमपि शयनीयमारुरुक्षत्। अशयिष्ट च किल तत्रैव यथेष्टम् । कुमारी च सा कुतूहलप्रवर्तितैर्वाताविनोदैर्मुहूर्तमानं तत्रैवातिवाह्य 'भृशमशनक्लेशितोऽयमग्रजन्मा स्यात् । उग्रतरव्यसनवार्धिवर्धनेन्दुः खलु वार्धकं च । अतः स्वैरमनेन सुप्यताम् । न लुप्यतामस्य निद्रा' इति निगदन्ती 'निवारितपुरुषदर्शनयापि मया दृष्टोऽयं विशिष्टवृत्तः । कदाचिदेवमपि नाम तज्जनदर्शनमपि संभवेत् , यो नाम चूर्णपरीक्षायामुपैक्षिष्ट माम् ' इत्यनुशयाविष्टा सह सखीभिस्ततः प्रयान्ती प्रदेशान्तरं प्रापद्यत । _अथ कुमारः स्वैरगानावसरदानलम्पटतयेव लम्बमाने सौरबिम्बे, सुरमञ्जरीकरपीडोत्सुकसौनन्देयरागप्राग्भार इव बहुलतया बहिर्गते स्फुरति संध्यारागे , गगनकेदारविकीर्यमाणतिमिरबीजनिकर इव नीडसनीडाभिमुखमुड्डायिनि काकपेटके प्रेक्ष्यमाणे, प्रासादवातायनविवरनिर्यदगुरुधूपो
करेण तिमिरान्धकारेणेव नीरन्ध्रीभवति वियदन्तराले, वलभिनिविष्टवारयुवतिधम्मिलमलिकास्रजा सृज्यमानायां प्रतिदेशं चन्द्रातपच्छेदशङ्कायाम् , प्रज्वलदन्तर्गतप्रदीपसनाथेषु सायन्तननियमध्यानाग्निसंयुक्तसंयतेष्विव जातेषु सौधेषु, दुर्दशां स्वान्तेष्विव तमसाक्रान्तेषु दिगन्तेषु , क्रमेण च मदनमहाराजश्वेतातपत्रे रजनीरजतताटङ्के, स्फटिकोपलघटितमदनशरमार्जनशिलाशकलकल्पे पुष्पबाणाभिषेकपूर्णकलशायमाने सर्व
Page #140
--------------------------------------------------------------------------
________________
नवमो लम्बः ।
१२९
जनानन्दकारािण रागराजप्रियसुहृदि राजति रोहिणीरमणे, दुग्धोदधिशीकरैरिव घनसारपरागैरिव मलयजरसविसरैरिव पीयूषफेनपिण्डैरिव पारदरससरिद्भिरिव स्फटिकरेणुभिरिव मदनानलभस्मभिरिव रजनीकरकरनिकरैरापूरिते भुवनविवरे , विकचकैरवपरिमलमिलितालिकुलझंकारविरचितविरहिजनतापे मधुमदमत्तमत्तकाशिनीकेशकलापकुसुमामोदमोदितदशदिशि समाध्मापितप्रद्युम्नपावके मन्दमन्दमावाति मातरिश्वनि , समन्ततः संचरति समारोपितकामुके हृदयभिदि कंदर्पे, संभोगलम्पटदम्पतिसमाजसंभवन्मणिभूषणरणितशब्दमात्रावशेषिते धात्रीतले, पवित्रकुमारः कुवलयैकमोहनं गानमतानीत् ।
गानविद्याविश्रुतस्य तामुपश्रुत्य गीतिम् 'किं नु किंनराः किमुत नराः किं स्विदमरा वा जगत्यनुपमेयं गायन्ति' इत्याहितात्याहितभरा परितः प्रहितनेत्रा तत्र सर्वत्राप्यपरमपश्यन्ती सेयं वैश्यपतिसुतावश्यं मन्त्रसिद्धमेनं वृद्धमेव विभाव्य गायकं सहयायिनीभिरमा तत्प्रान्तं प्राविक्षत् । अप्राक्षीच 'प्रक्षीणाङ्गस्य ते गीतिरियं प्रत्यक्षस्मरं स्मरयति जीवंधरम् । कस्मादियमनवद्या गानविद्या विद्वन्नुपलब्धा, यच्छक्तितः शमिनि वयस्यपि सर्वलोकश्राव्येयं दिव्यगीतिः । भवत्यपि नामान्यदप्यभीप्सितमुपलब्धमपायोऽस्ति । न चेदिदं गोप्यमत्र प्राप्यमुत्तरम्' इति । तदनुयोगसंवर्धितहर्षः स वर्षीयानपि वार्धकमुन्नाटयन्नुपधानात्कथंचित्किचिदुद्धृतोत्तमाङ्गः प्रक्षीणपक्ष्मकमक्षियुगमप्यतिप्रयासादिवोन्मील्य कफावगुण्ठितकण्ठलाघव इव मुहुः खात्कृत्य घघरेण स्वरेण स्वमनीषितोत्पादनमौपयिकमुपचक्रमे वक्तुम् - " बाले , हेलया गानमिदं साध्यम् । असाध्यमन्यदपि हस्तस्थं पश्य विश्वस्य मद्वचनमनुष्ठातुं यदि नाम पटिष्ठासि" इति । तद्वचनवञ्चितया सुरमञ्जर्याप्यञ्जलिबन्धेन 'बन्धुप्रिय, को नाम वराको जनः परहितपरैराख्याते वचसि वैमुख्यमुद्वहति' इति सदैन्यं सप्रश्रयं च प्रणीतः पुनरयं
Page #141
--------------------------------------------------------------------------
________________
१३०
गद्य चिन्तामण
1
प्राणिनाय 'श्रूयतां तर्हि । इहास्ति समस्तवरदानदक्षस्य साक्षात्कृताङ्गस्य किमप्यनङ्गस्यायतनम् | अद्य वा श्वो वा समुत्थाय तद्गोष्ठं यद्युपतिष्ठेयास्तमनन्यजं किमन्यदुदीर्यते कार्यत एव द्रक्ष्यसि । तत्क्षण एव कामितमखिलं -स कामदेवः साधयेत्' इति । सा च स्त्रीजनसुलभचापल्याद्भवितव्यताप्राबल्याच्च ' तथा ' इति प्रतिश्रुत्य प्रातरेव गन्तुमुदमनायत ।
अथ सुरमञ्जरीपरिरम्भणपर्युत्सुकतया परिगतान्ध्यस्य जीवंधरस्य तदैकस्यामपि त्रियामायां सहस्रयामतां प्रतिपद्य कथमपि प्रयातायाम्, उदिते वृद्धेन समं सवितरि पितरं मातरं बन्धुसमाजं च संवादयन्ती समारूढशकटेन तेन कपटवृद्धेन समं समारुह्य चतुरन्तयानं सखीभिः साकं सा कन्यका तदनन्यजावासमाससाद । तत्र च सादरविधीयमानसपर्याविधेर्विषमेषोः संनिधौ सास्तिक्यमस्यामास्थितायामयमन्त्यवयस्कस्तामामन्त्र्य 'वासु, प्रसादितोऽयमुपासना प्रपञ्चेन पञ्चशरः । त्वदभिवाञ्छितं वरमसहाया स्वयमस्माद्वृणीष्व' इत्यब्रवीत् । सा च मुग्धा बद्धाञ्जलिर्बहुधा प्रणुत्य प्रद्युम्नम् 'अयि पुष्पबाण, ते बाणानेव न केवलं प्राणानपि मे प्रत्यर्पयि - ष्यामि यदि प्राणनाथतां प्रतिपद्येत जीवककुमारः' इति सादरं सप्रणामं च प्रार्थयामास । प्रादुरासीच्च प्रागेव पुष्पायुधसविधे स्थापितेन बुद्धिषेणेन ' लब्धवत्यसि वरम्' इत्युक्तं वचः । अदर्शयच्च तावता कुमारोऽप्यवधीरितमारं निजाकारम् । सा च तमवलोक्य सविस्मयस्नेहमन्दाक्षा मत्तेवोमत्व भीतेव विषण्णेव मुदितेव परवशेवानुरक्तेव स्तम्भितेव समुत्की
विलिखिते विद्रुते शून्येन्द्रियेव स्वेदजलप्लावितसर्वाङ्गयष्टिरतिनिबिडपुलकनिचिता मदनशरपञ्जरमध्यवर्तिनी प्रान्तः प्रविशतः कुमारस्य पादन्यासादिव स्फुरदधरपल्लवा किंकर्तव्यतामूढासीत् । ततस्तावता तयोः संगमार्हमङ्गलप्रदीप इव प्रज्वलति प्रत्यूषाडम्बरे, स्त्रीपुंससंयोगप्रकारप्रकटनायेव घटमाने कोकमिथुने, हुतहुताशनकुण्डायमाने स्फुटित
,
Page #142
--------------------------------------------------------------------------
________________
"
नवमो लम्बः । सरोजपण्डमण्डिते सरसि मङ्गलवचनपठनाकुलेष्विव कूजत्सु कोकिलेषु, वंशस्वनानुकारिझंकारमनोहर भृङ्गवृन्दपदपातवृन्तच्युतप्रसवराजिमाचारलाजानिव विलासिनीषु विकिरन्तीषु लतासु, तन्मिथुन मिथः संगमपिशुनेष्विव शकुनेषु सविरावेषु स जीवकस्वामी तादृशीं दशामनुभवन्तीमन्तर्धातुं क्षेपीयः क्षितितलादुत्क्षिप्तैतेक चरणामन्तःकरणेन स्थातुं प्रस्थातुं च प्रतीकेन प्रयतमानां तदाननाम्भोजमतिस्पष्टं द्रष्टुमभिवाञ्छदृष्टियुगं प्रकृष्टतरलज्जया बलादाकर्षन्तीमीषद्विवर्तितमुखीममर्त्यलोकाद्भुवमवलोकयितुमायातां सुरश्रियमित्र सुरमञ्जरीम् 'मञ्जुभाषिणि, मा कृथाः प्रयाणे मतिम् । प्रमादस्खलितमस्य क्षम्यतां भुजिष्यस्य' इत्याभाष्य गाढमाश्लिष्य रमयन्नमरदुरासदसौख्यः पुनः प्रख्यात कुबेरसाम्येन कुबेरदत्तश्रेष्ठिना श्रेष्ठतमे लग्ने स्ववित्तस्य स्वचित्तोन्नतेः स्वनाम्नो वरमहिम्नश्चानुरूपमर्पितां पवनसखसाक्षिकं पर्यणैष्ट ।
इति श्रीमद्वादभिसिंह सूरिविरचिते गद्यचिन्तामणौ सुरमअरलम्भो नाम नवमो लम्बः ।
१३१
Page #143
--------------------------------------------------------------------------
________________
१३२
गद्यचिन्तामण
दशमो लम्बः ।
अथायं सुमतिः सुमतिसुतायां सुरमञ्जर्यं सुमनोमञ्जर्यं चञ्चरीक इव सक्तो भवन्नभिनवकरपीडनाम्रेडितत्रपाभरदर मुकुलितमस्याः सुरतदै । - र्लालित्यं ललितवेष्टितैर्विमुकुलीकृत्य क्रमेण तरुणतामरसतर्जनकलाकुशललोचनमुग्धमधुरसंचार सूचितपञ्चशरसमरसंरम्भया तया सह मनसिजमहीरुहपचेलिमफलानि भवपयोधिमथनजनित सुधारसायमानानि सौभाग्यशशभृदाभिरूप्यशारद दिनानि श्रवणचातकपारणपयोदजलधारायमाणानि मणितमधुरपरभृतरसित सुरभिसमयसाम्राज्यानि सरभसक चग्रहव्यतिकरविशेषितरतिविमर्दनानि निर्दयकृताधरग्रहजनितवेदनानि विधूतकसुरतसौ
रकमलरणितकनकवलयवल्गुरवनिवेदितमदनमहिमव्याख्यानि ख्यान्यनुभ्य पुनः स्पृहणीयभूयम् ' एवं प्राप्तामपि त्वां करणीय भूयस्तया विहाय विलासनि, त्वद्विरहविभावसुशिखाकलापकलनेन कष्टतमानि कतिचन दिनानि कर्तुमभिवाञ्छति जनोऽयम्' इत्याचष्ट | तदनु तां तनूदरीं विरहपिशुनवचनतनूनपादाश्लेषप्लुष्टाङ्गयष्टितया विसृष्टप्रायप्राणां तत्प्रयाणं कार्यगरिम्णा च विहन्तुमनुमन्तुमप्यपारयन्तीमसकृदाश्वास्य कथंचिद्विसृज्य गतोऽयं विजयापुत्रः स्वमित्रैरतिमात्रं सौभाग्यशालितया श्लाघ्यमानः स्वभवनमियाय । तत्र च चिरविरहितमालोक्यात्मजमभिन्नक्षणोद्भवदानन्दाभिषङ्गसंभूततया समशीतोष्णेन बाष्पवर्षेण स्नपयातीं सुनन्दाममन्दमिवानन्दीभूतं गन्धोत्कटं च सकलजगद्वन्द्योऽयमभिवन्द्य सनाभि - माजमपि चतुराश्लेषेण मधुरनिरीक्षणेन शिरःकम्पेन गिरः प्रदानेन दर
Page #144
--------------------------------------------------------------------------
________________
दशमो लम्वः।
१३३
स्मितेन करप्रचारेण च प्रीणयन् प्रियवल्लभामायल्लकायत्तां गन्धर्वदत्तां म्लानमालामिव गुणमालां च संलापसहस्त्रैरुल्लाघयन्स्वयमप्युल्लोकहर्षः पुनरुद्धर्षमयेषु केषुचिद्वासरेषु निर्वासितेषु निजस्वान्तगतं गन्धोत्कटेन समं मन्त्रयित्वा मातुलस्य महाराजस्य विदेहाख्यया विख्यातं विषयं प्रति प्रस्थाने मतिमकरोत् । ____ अथ यात्रार्हपवित्रलग्ने पवित्रकुमारः पद्ममुखप्रमुखैः प्रियसखैरनुजेनाप्यनुप्लुतः प्रबलभटघटाटोपभायितप्रतिपक्षः प्रक्षरदास्रबिन्दुसेकेन मन्दयन्तीमिव मार्गोष्णं सुनन्दा गन्धोत्कटबन्धुनिवहं च प्रयत्नतः प्रतिनिवर्त्य निरगात् । आपञ्च पुनरापदामापदमविरहितसंपदा संपादयन्तं कुक्कुटसंपात्यग्रामपुरभासिनम् , फलभारावनम्रतया समृद्धिमतामपि विनयावनम्रत्वमतीव शोभाकरमितीव दर्शयद्भिः शालिभिः शालीनम् , विजम्भमाणपूगकसरामोदामोदितदशदिशाभोगम् , परिपाकपिशङ्गेक्षुकाण्डस्फुटितविकीर्णमुक्तानिकरैस्तारकितमिव तारापथमधः संदर्शयन्तम्, प्रशस्तमणिमयसमस्तप्रदेशतया सर्वतः समुत्थितेन निजतेजःप्रसरेण कबलयन्तमिव त्रिलोकीम् , राज्यलक्ष्मीभिरिव डिण्डीरपिण्डपाण्डरपुण्डरीकमण्डिताभिः कृशोदरीभिरिव लोलकल्लोलवालिविलसदुदराभिः पञ्चमकालप्रपञ्चमिथ्यात्वपद्धतिभिरिवान्तर्धान्तबहुजलाभिबहुविदेहभूमिभिर्बहुवयःसमताभिः सिन्धुभिः संततसंभूष्णुसस्यसंपदम् , महाराजमिव महावाहिनीसंवर्धितैश्वर्यं परिहृतपरपार्थिवतया ततोऽपि पराय॑म् , जिनदीक्षाविधिमिवापेक्षिताखिलसौख्यसंपादनमनिर्वाणानन्दहेतुतया ततोऽप्यभिनन्दनीयम् , पण्यरमणीलावण्यमिव सर्वजनसाधारणरमणीयभोगप्रदं जरोपरोधविधुरतया ततोऽपि श्लाघनीयम् , पद्मालयापतिभिरप्यकृष्णैर्वृषचारिभिरप्यरुदैः कलाधरैरप्यकलङ्करधिकवीर्यैरपि स्ववशेन्द्रियैश्चरमदेहप्रायैर्निवासिजनैराश्रिततया विदेहाख्य इति विश्रुतं जनपदम् ।
12.
Page #145
--------------------------------------------------------------------------
________________
१३४
गद्यचिन्तामणौ.
तदनु चायं महाभागो विदितभागिनेयागममुदितेन राज्ञा मुहुराज्ञप्तैर्जानपदैः पदेपदे स्वपदानुगुणं प्रमदभरेण प्रतिगृह्य प्रदर्यमानानि मणिमौक्तिकमलयजप्रभृतीनि प्राभूतानि प्रेक्षमाणः प्रतिप्रसादवितरणप्रीणितलोकः पुनरुल्लोकलोककोलाहलमुखरितहरितं हरिताश्वरथनिरोधनकर्मकमण्यहावलीमिषेणानिनेषबृन्दारकदारणकुशलकुलिशपतनाकुलकुलशि - लोच्चथैरभयस्थानतयेवाश्रिताम् , श्रियमिवाश्रितजनाभीष्टार्थपुष्टिकरीमवहुवल्लभात्वेन ततोऽपि बहुमताम् , सागरवेलामिव सर्वरत्नसमृद्धां समुत्सारितजालिकात्वेन तदतिशायिनीम् , कान्तारभुवमिव महासत्त्वसमाक्रान्तां निष्कण्टकात्वेन तां न्यक्कुर्वतीम् , सर्वलोकतिलकभूतां धरणीतिलक इत्यन्वर्थाभिधानां राजधानी भेजे । यत्र पुरुषाः परेषां पदस्खलितेषु वंशोत्थिता अप्यपर्वभड्रा अवष्टम्भयष्टयः , शोकज्वरजृम्भणारम्भेषु मधुरस्निग्धा अप्यजडात्मानोऽमृतपूराः , मोहमहार्णवमजनेषु पारप्रापणप्रवीणा अप्यपेतपाशयन्त्रणा महाप्लवाः, मतिविभ्रमदिमोहेष्वनेकप्रस्थानविशङ्कटा अप्यकण्टका घण्टापथाः, परिधावनक्लेशेषु फलच्छायाभृतोऽप्यकुजन्मानो विश्रमदुमाः, तथाभूतवादिनोऽपि प्रधानाः , श्रुत्यनुकूलचरित्रा मीमांसातन्त्राः, सुकृतेतरविवेककुशलाः समवर्तिनः, पवित्रपादसंपर्कास्तमश्छिदः, गुणलवबध्नीयाः सुमनसः, बहुलोज्ज्वलास्तारकाः , तथा शिवभक्ता अपि जैनाः , समाश्रितश्रीरामा अपि बुधाश्रयिणः, क्षमाभृतोऽप्यकठिनाः , दानोद्यता अप्यनिस्त्रिंशाः , भूनन्दना अप्यवकचराः सन्तः सतां लक्षणमक्षूणमात्मसात्कुर्वन्ति । तावता तन्निशामनदुर्ललितस्वान्ताः, बन्धनादिव बन्धुतायाः श्मशानादिव सदनादाश्रयादिवोपदेशादभिचारादिव कुलाचारादपमृत्योरिव पत्युः प्रहरणादिव कालहरणादुद्दामादिव निजमानादुद्दाममुद्विजमानाः, कल्याणात्मना गुणिना सुवृत्तेन पलायनवेगात्पादयोः पतता 'परिपालनीया ननु निभृतगतिः' इति निवार्यमाणा इव मेखलाकलापे
Page #146
--------------------------------------------------------------------------
________________
दशमो लम्बः ।
१३५ न गुरुतरकुचकुम्भनितम्बभारेण निवारितत्वारितगमनमनोरथोन्मेषाः, भुजलताविक्षेपत्रेगगलितानि विजृम्भितामर्षविषमेषुप्रेषितचक्रजालानीव वलयानि पार्श्वयोरुभयोः पथि विधुन्वानाः प्रधावनरभस्रोत्थितमुक्तासरा आकृष्यमाणा इव मनसाग्रगामिणा निबध्य कण्ठेषु मदनमोवी गुणैर्दरविगलदलकबन्धविस्रंसमानकुसुमापीडोत्सङ्गसंधिभिः कणद्भिर्मदन प्रहितैरादेशडूतैरिव मधुकरैराकुलीक्रियमाणास्तर सोपसृत्य सर्वतः पुरो वीथिं पुरंध्रयः फुल्लभासिन्यो वल्लुर्य इव वनस्थलीमलंचक्रुः ।
तासां च तन्निध्यानेन ध्यानप्रत्रेकेण तपोधनमनोवृत्तीनामिव निचर्तितान्यव्यापृतीनां मदिरामाद्यत्स्वान्तानामिवाचान्तलज्जानां मज्जन्तीनामित्र रागसागरे मदिराक्षीणां कटाक्षशृङ्खलया शृङ्खलित इव मन्दीभूतगतिर्गच्छन्महीपतिमन्दिरं जीवंधरः संभ्रममयं निरवर्तयत् । निदध्यौ च निखिलजनप्रेक्षणीयेषु कक्ष्यान्तरेषु क्रान्तेषु बाह्येष्ववरुह्य करिणः कलधौतनिर्माणमण्डपमण्डनीभूतस्योर्ध्व हस्तपुरुषलङ्घनीयस्य रिपुनृपद्विरदरदनरचितपादपीठस्य, भ्राजिष्णुरत्नकनककान्तिकल्माषवपुषः पीनविपुछतूलतल्पस्यानल्पशोभाजुष्टस्य हरिविष्टरस्य मध्यम लंकुर्वाणम्, बन्धुराधरबन्धूकया स्मेरमुखारविन्दभासिन्या मञ्जुमञ्जीर शिञ्जित हंसस्वरानुबन्धया चलितचामरकलापपर्यायविमलनीरदया शरदेव वारयुवतिपरिषदा परिवेष्टितम्, अविरलताम्बूलपुनरुक्तरक्ताधररागेण भागिनेयानुरागमिवान्तरमान्तमुद्वमन्तम्, अमन्दादरवन्दिवृन्दस्य दिगन्तकृतप्रतिश्रुतिगीतेन श्रावयन्तमिव निजशासनमाशाधिपान्, राजलक्ष्मीशिखण्डिताण्डवमृदङ्गवाद्येन रिपुराजहंसनिर्वासनघनस्तनितेन धीरेण स्वरेण परिजनमात्मप्रतिग्रहणाय स्वरयन्तं गोविन्दमहाराजम् । स च समायान्तमालोक्य सात्यंधरिमात्यन्तिकभागिनेयस्नेहेन तदतिमात्रानुभावेन च गात्रे स्वयमेवासनादुत्थिते प्रागेव प्रत्युद्गमनं पुनः प्रत्युत्थानेच्छां पूर्वमेव पुलकोद्गममनन्तरमङ्ग हर्षप्राग्भारं पुर
,
Page #147
--------------------------------------------------------------------------
________________
गद्यचिन्तामणौ
स्तादेवानन्दाश्रुधारां तदनु तदङ्गसमालिङ्गनसंगतसौख्यभारं च भजन् , स्फारस्मेरमुखारविन्दो गोविन्दो महाराजस्तदीयचातुर्यसौकुमार्यवीर्यवैदुष्यवैभववैशारद्याद्याननवद्यानालोक्य गुणान् स्वयमपि स्वयंवृतः सुचरितैः स्वीकृतः कृतकृत्यतया परिगृहीतो महत्त्वेन परिष्वक्तः पावनतया करे गृहीतः कीर्त्या कण्ठे स्पृष्टो गद्गदिकया बभूव ।
__ तदनु च सत्यंधरमहाराजमरणानुस्मरणेनाधरितवारिधिमयनवानाक्रन्दनाक्रान्तं शुद्धान्तमप्याचान्तव्यथं विहितवत्यां विजयामहादेव्याम् , दिव्योपधादर्शनोत्सुकदेशाधिपप्रतीक्ष्यावसरेषु वासरेषु के चिनिर्वासितेषु, अयं सर्वविजयी विजयानन्दनरिपुविजयाभ्युपायवितर्कणपरतन्त्रो मत्रशालायां मन्त्रिभिः समं मन्त्रयामास । आचष्टे स्म च 'काष्ठाङ्गारेण प्रहितमिह संदेशं दर्शय' इति सातिशयविवेकं गणकयंत्रकम् । स च 'तथा' इति विहिताञ्जलिवैदेहीसुताहितेन प्रहितं पत्रमुन्मुद्रं विधाय विधिवद्वाचयामास-" पत्रमिदं काष्ठाङ्गारस्य विलोकयेद्विदेहाधिपतिः । पतितं मूर्ध्नि मे पापेन केनापि शोच्या किमपि वाच्यम् । न तत्तथेति याथात्म्यविदामग्रयायी भवानवैति चेदपि, चेतसि विद्यमानमिदमवद्यानुषङ्गभयादावेद्यते । केनाप्युन्मस्तकमदावलेपादपहस्तितहस्तिपकेन हस्तिना कचिदाक्रीडे क्रीडन्पीडां जगतः प्रवर्तयामास मर्येश्वरः । ततः परिणतकरिणा कृतमेव मयि परिणतं किंचिन्नाम । अकिंचनमेवं कजासनावल्लभं कल्पितवतः काश्यपीपतेरकारणकरणे कारणं किं नु स्यात् । को नाम पादपस्कन्धमध्यासीनः परशुना मूर्खस्तन्मूलमुन्मूलयेत् । को वा तरिष्यन्वारिधिं वहित्रेण तत्रैव जाल्माश्छिद्राणि जनयेत् । को वा पिपासुः पानीयचषकं पापः पांसुपूरैः पूरयेत् । कश्चन धेनोरापीनभारेण क्षीरस्यन्क्षतं क्षुरेण पातकः संपादयेत् । गतानुगतिकः खलु लोकः । कस्तमनुसतुं समर्थो भवेत् । मान्यो भवानेतन्मनस्यकुर्वन्गुर्वीमिमामस्माकमा
Page #148
--------------------------------------------------------------------------
________________
दशमो लम्बः ।
१३७
कस्मिकीमकीर्तिमधिकतूर्त्या समागत्य संमार्जयेत् । उपार्जितमपि दुष्कृतं सुकृतिसमागमो हि गमयेत् । किमन्यत् । आयुष्मतः किंकरं मां गणयेत्” इति कापटिकप्रष्ठेन काष्ठाङ्गारेण प्रहितसंदेशार्थसमाकर्णनेन निणीततदतिसंधानसंधः स वसुंधरापतिः 'अहो सचिवाः, साचिव्यमस्मदभीष्टार्थे दिष्ट्यानुतिष्ठति काष्ठाङ्गारः, यतः प्रागेव केनापि व्याजेन राजघमेनं समूलघातं हन्तुमुन्मनायमानान्नः स्ववधाय कृत्योत्थापनमिव कुर्वस्वयमेवाह्वयति । तस्मादस्मत्प्रतारणपराकूतेन तेनाहूता वयमकृतकालक्षेपाः क्षेपीयः प्रस्थाय प्रस्थापितास्मद्दुहितृविवाहमिषाः समूलकाषं कषिष्यामस्तं भुजिष्यम्' इति बभाषे । घोषयांचकार ' व्यापितकाष्ठाचक्रं काष्ठाङ्गारेण सार्धं वर्धते धात्रीपते मैत्री । गोत्रस्खलनेनाप्यस्य शात्रववार्ता निवर्तयन्तु निजासुप्रणयिनः प्राणिनः' इति । निदध्यौ च निजध्यानानुपदं मदलोलुपमधुपत्रात विहितनियतोपास्तिकैर्हास्तिकैः स्थलजलसमानगमनजवनतातुलितमातरिश्वभिरश्वीयैरसकृत्कृतापदान संभवदस्तो कह स्तवदनुरूपयशस्तातिभिः पदातिभिर्लङ्घिताचलशृङ्गैः शताङ्गैश्च बहुशतसहस्रैर्बहुमताम्, अमितपताकिनीपतिभिरहंप्रथमिकया पृथगेव सभयं सदैन्यं सनामकथनं साङ्गुलिनिर्देशं साञ्जलिबन्धं च जवजननचिह्नलक्ष्मीप्रतिपादनपूर्वकं प्रदर्श्यमानाम्, अक्षूणामक्षोहिणीम् ।
अथ प्रथितप्रयाणानुगुणे पुण्यतमे लग्ने निर्गत्य निर्विघ्नतायै विहितजिन पतिवरिवस्यः सवयस्यानुजेन सार्धमर्थिजनमनोरथानर्थविसरवितरणेन चरितार्थी कुर्वन्सर्वतः प्रसरन्त्या विसृमर विविधयौधायुधाभरणकिरणोल्लसत्तटिल्लतासंचयकञ्चुकितककुभा करटतटनिर्यदमितमदजलधाराप्लावितधरातलद्विरदनीरदनीरन्ध्रितवियदन्तरालया स्थैर्यविजिताखण्डलधनुःकाण्डको दण्डमण्डलया ताण्डवितशिखण्डिमण्डलमहाध्वानस्त्यानस्तनितसातङ्कभुजङ्गया तुङ्गतुरङ्गखुरशिखरखननजनितघनतरपरागपटलपयःशी
Page #149
--------------------------------------------------------------------------
________________
१३८
गद्यचिन्तामणौ
करनिकरनिबिडितनिलिम्पवर्त्मना प्रावृषेव प्रेक्ष्यमाणया वाहिन्या वाहिनीपतिरिव प्रलयकालोटेलः प्रच्छादितपृथ्वीतलः प्रत्यर्थिनिर्मूलनाय हेलया हेमाङ्गदविषयं प्रति ययौ । ततश्च वलक्षतरवारवाणोल्लसत्सौविदल्लवलभकरपल्लवकलितवित्रासकवेत्रलतात्वर्यमाणराजपरिबर्हधारिणि राजकीयदवीयःप्रदेशप्रापणश्रवणक्षणसत्वरसंभाण्डयमानभाण्डागारिकपरिषदि प्रश्रयप्रणतोत्थितगुणधनापृच्छयमानगुरुजनगौरवविहिताशिषि. प्रतिनिवर्तनप्रत्याशाविधुरभीरुचारभटनिर्दिश्यमाननिधिन्यासकोणक्षोणिनि विलम्बितलम्बोदरदासेरकसमाह्वानपौनःपुन्यखिन्नस्विन्नपुरोयायिनि विस्मृतविस्मयनीयाहार्याहरणधिषणाप्रेष्यमाणभुजिष्याभाष्यमाणव्यक्तेतरविसंवादवच - सि प्रसभप्रयाणप्रवणतानुष्ठितपृष्ठावलोकनानुवर्त्यमानप्रतिनिवर्त्यमानसनाभिसंसदि प्रगुणवलनभ्रष्टगोणीकदुष्टशाक्करदूरवित्रासितयात्रिकसंबाधे चण्डचण्डालपेटकनिबिडमुष्टिघटितकठोरकुठारपाटितविटपिविशङ्कटीकृतसंकटारण्यसरणिनि खननकरणनिपुणखानित्रकगणक्षणसंपादितोदम्भ:कूपशुम्भितमरुभुवि तादात्विककृत्यदक्षतक्षकसार्थसामर्थ्यवैचित्र्यरचितव - हित्रसुतरकाकपेयसरिति पुरःप्रसारितभूरिभीकरकलकलारवकांदिशीककेसरिणि चरणक्षणोत्थितधरणीविसृमररेणुविसरमसृणितमयूखमालिनि वारणपरिबृढोत्पाटितपार्श्वपादपपरिघसप्रतिघाध्वनि कण्ठरज्जुकषणोन्मथितत्वगालानवनस्पत्युद्वीक्षणवनचरानुमीयमानवारणवर्मणि प्रतिगजगन्धघ्राणप्रतीपगामिकाननद्विपप्रतिग्रहकृताग्रहभटप्राग्रहरकोलाहलभरितहरिति द्विरदतुरगखरकरभमहिषमेषशाकरशताङ्गशकटप्रमुखपृष्टारोपिताभीष्टकशिपु - समेतसकलहतिनि हेमाङ्गदविषयं विविशुषि सैन्ये, राजन्योऽप्युत्तरेण राजपुरीमुपकार्या कल्पयेयुरिति शिल्पिसमाजाध्यक्षानादिक्षत् । प्राविक्षच तां क्षणकल्पितां स्वसंकल्पसिद्धिशङ्काप्रहृष्टेन काष्ठाङ्गारेण प्रसभं प्रत्युद्यातः पृथिवीपतिः ।
Page #150
--------------------------------------------------------------------------
________________
दशमो लम्बः ।
१३९
अनन्तरमापाटलपटकुटीघटनायासक्लान्तस्वान्तेषु गृहचिन्तकेषु , विलुटितोत्थितविधूतकायहयपीयमानतोयेषु तोयाशयेषु , बहुप्रयासप्रापितालानस्तम्भेषु मदस्तम्बरमेषु, सद्यःपाकसंपादनोद्युक्तमानसेषु महानसमुपस्थितेषु पुरस्तादेव पौरोगवेषु , सत्वरसंकल्पितमापणमासेदुषि प्रथमतरपणायनत्वरणभाजि वणिजि, वामहस्तावलम्बितमस्तककुटोष्ठासु कूपसरिदन्वेषिणीषु कुट्टिनीषु , प्रसभं बहिः प्रधावत्येधानाहारके दासेरके , स्नातानुलिप्ताङ्गासु ध्रियमाणभूषासु वारयोषासु, व्यसनगौरवस्मारितपथकथाकथनलम्पटे दंपतिनिवहे , अहंपूर्विकोपसरदनेकविधयोधास्कन्दनकृताक्रोशे क्रोशशतान्तर्गतकुटुम्बिवर्गे, मार्गश्रमापनोदनमनीषानिहितदयिताङ्कशिरसि यवीयसि, विशङ्कटपीठप्रसारितप्रसवजालहेलानहनमनोहारिण्यां मालिकयुवतिश्रेण्याम् , श्रेणीभूतपादाताधिष्टितासु काष्ठासु, काष्ठाङ्गारेण सबहुमानमुपायनीकृतमनतिवयस्कममन्दबलमाश्वीयं हास्तिकमप्यास्थानकृतावस्थितिरयमद्राक्षीत् , प्राहैषीच्चास्य प्रतिप्राभृतम् । अनाडयच्च डिण्डिमम् 'अतिरुन्द्रचक्रयन्त्रनियन्त्रितं यो नाम युगपदेव पातयितुं शक्नोति शरेण शरव्यतां गतं वराहत्रयं वराहेऽस्मिन्नेव वरोऽयमस्मत्कुमार्याः स्यात्' इति । आयासिषुश्च चोलकेरलमालवमागधपाण्ड्यपारसीककलिङ्गकाश्मीरकाम्भोजप्रभृतिदेशाधिपा महीभृतः । पुनरवसरेऽस्मिन्नविप्रकृष्टमृतेः काष्ठाङ्गारस्य नापरो रोदितीति स्वयं रुददिव मन्यमानं दैन्यावहारसितमनिशमम्बरतले बम्भ्रमद्वायसमण्डलं खण्डितशिरोभागं तदीयशीर्षच्छेद्यतानियतिसूचननिबन्धं कबन्धमनन्तरज्वलिष्यददसीयशोकधूमध्वजपुरोगमधूमेनेव दिग्धूमेन धूम्रोपान्तं दिगन्तं नितान्तनिस्त्रिंशफलमन्यादृशमपि मन्युभरापादनं महोत्पातं निशाम्य निकृष्टाचारे काष्ठाङ्गारे किंचिन्न्यञ्चन्मनसि विषेण वा केनापि मिषेण वा वञ्चयितुं वाञ्छति गोविन्दराजम् , राजपुरीं निकषा निषेदुषां नरपतीनामुपकार्या
Page #151
--------------------------------------------------------------------------
________________
१४०
गद्यचिन्तामणौ
सु च प्रतिप्रदेशं स्वदेशादेशान्तरं कन्याभिनिवेशेन विशतां विशांपतीनाम् “धनुर्धरतमः कतमस्तां लभेत । लब्धवति च चापविद्यालब्धवणे कस्मिंश्चिदिमां कन्यकामन्ये कथमहीकाः स्वगृहं प्रविशेयुः । अपि च केचिदतः पूर्वमनुद्धृतशरासनाः संप्रत्युपासनामुपरचयन्ति । परे तु शरगुणनिकां कर्तुं गुणवन्मुहूर्तं पृच्छन्ति मौहूर्तिकान् । इतरे तु 'वयमारचितसमस्तशस्त्रयोग्याः सर्वथा योग्याश्च भाग्याधिकाश्च' इति पण्डितंमन्याः कन्यकां हस्तस्थामाकलयन्ति । तावदतिशयितालातचक्रशैघ्रये यन्त्रचक्रे शक्रस्याप्यशक्यमारोहणम् , आस्तां विद्धिः" इति योद्धृषु कथयत्सु , साधीयसि लग्ने स्थापितं यन्त्रमामन्त्रितास्ते विश्वेऽपि विश्वंभरापतयः परिवार्य पश्यन्तस्तदीयचक्रभ्रमणरयमासांचक्रिरे । तेषु केचिदुद्वीक्ष्य यन्त्रमुद्वेगाधिष्ठिताश्चित्रीयाविष्टाश्च त्वष्ट्रातु निर्मीयतां निर्विचारम् । मनसाप्यतर्व्यमेनं मूर्खण केन दुर्वर्णेन कन्यकाया: शुल्कत्वेन कल्पितम्। आकल्पमेतदभेद्यमेव लक्ष्यं द्रक्ष्यामः । तदपि सा च कुमारी स्वकुलगृह एव जरामियात्' इति चिन्तयन्तस्तरुणीलाभबुद्धिं विद्धिं च जहुः । केचिदुद्धताः सलीलमुत्थाय भूतलादाततज्यमापाद्य कार्मुकं करपल्लवाकलितभल्लाः सोल्लासमारुह्य यन्त्रचक्रमदसीयभ्रमणशैघ्यभ्रान्तस्वान्ताः स्वकान्तामवनिमन्याभिलाषविकोकनविहितेा परिष्वङ्गेण प्रसादयितुमिव प्रसभं पृथ्वीतले निपेतुः । केश्चिदभिसंधिपुरःसरमारूढचक्रः संधाय निःसारिताः शराः शरव्यं तरसोपसृत्य लुब्धपार्थिवमिवार्थिनो निष्फला न्यवर्तिषत । कैश्चिदाकर्णाकृष्टचापयष्टिभिर्निसृष्टाः खगाः खचरेभ्यः कथयितुमिव तदत्यद्भुतमतिकम्य लक्ष्यमन्तरिक्षमुत्पेतुः ।
एवमतिकान्तेष्वर्धसप्तमवासरेघु, क्रमादिष्वासविद्यालब्धवर्णेषु त्रैवणिकेष्वेपरेषु सर्वेष्वपराद्धपृषत्केषु , दिव्यशक्तिकः स जीवककुमारः स्मेराक्षिविक्षेपः , सहस्राक्ष इत्र चक्षुर्द्वयोपेतः, षण्मुख इव दर्शितैकमुखः ,
Page #152
--------------------------------------------------------------------------
________________
दशमो लम्बः ।
१४१
चक्ररहित इव चक्रपाणिः, साङ्ग इवानङ्गः, स्वाङ्गविलोकनविभावनीयवैभवप्रतापः प्रत्यूषाडम्बर इवोदयाचलप्रस्थगतः , समस्तबन्धुभिः सिन्दूरबन्धुरसिन्धुरस्य कस्यचित्पृष्ठमधितिष्टन्निमां गोष्ठीमुपातिष्ठत् । तदतिमात्रानुभावावलोकनमात्रेणैव धात्रीपतयः ‘पतिरयमेव लक्ष्मणायाः । लक्ष्यभेददक्षश्च जगत्ययमेव नियमेन' इति निरणेषुः । काष्ठाङ्गारस्तु कुञ्जर इव पञ्चाननम् , प्रतिवादीव स्याद्वादिवाबदूकम् , अधमर्ण इवोत्तमर्णम् , तस्कर इवारक्षकम् , सहसा ससाध्वसमवलोकयन्नेनमतितरामभैषीत् । आरब्ध चायमचिरभाविनिरयनिरीक्षणोन्मुख इवाधोमुखः सुतरां हतचित्तश्चिन्तयितुम् ' मथनः कथमेनमपधीरवधीत् । साधु साधितं स्यात्स्यालाधमेन बाढमेतत् । किमिति विश्वस्तो मयैवं विश्वासघाती । किमिति न मया वा पुरस्तादेव निरस्तासुः कृतः क्षात्रोचितचरित्रोऽयं वणिक्पुत्रः' इति । तावता समुपेत्य चतुरपुरःसरसमुत्सारितसमालोकनलम्पटजनसंबाधः स्तम्बेरमेन्द्रान्मृगेन्द्र इव सानुमतः सानोः सानुजः सानन्दमवप्लुत्य सलीलमारूढयन्त्रचक्रस्त्रिविक्रम इवाक्रमविहितज्यारोहणशरसंधानशरक्षेपः क्षोभयन्नरिहृदयमाशु केनचिदाशुगेन शरव्यं विव्याध । स च सायकप्रष्ठो निसृष्टार्थ इव साधितसमीहितः सहसा न्यवर्तिष्ट । ततः कृतपुङ्खमेनं पुरुषपुंगवं समीक्ष्य समीक्ष्यकारी स विदेहाधिपतिर्देहेन समं सिद्धक्षेत्रकृताध्यास इव प्रसीदन्प्रफुल्लवदनाम्भोजः समालोक्य भूभुजां मुखानि मुखविकासविवृतान्तर्गततुष्टिप्रकर्षः काष्टाङ्गारपर्यायानिर्वाणदर्वीकरस्य शिरसि दम्भोलिमिव पातयन्नतिगम्भीरया गिरा ‘जीवंधरोऽयं सत्यंधरसम्राजस्तनयः' इति तदुदन्तमिदंतया विवढे । तदुपश्रुत्य श्रवणचुलुकपेयं पीयूषायमाणं वचनं सर्वेऽपि सर्वसहापतयः 'सर्वथा क्षात्रमेवेदमौचित्यम् । न परत्र पदं लभेत परस्य हि कृत्यमिदं प्रत्यालीढपाटवं प्रेक्षणसौक्ष्म्यं लक्ष्यभेदमात्रपर्याप्तशररंहःसंपादनचातुर्य चेति प्रागेव निश्चितम्' इति निश्चलपक्षमाणः
Page #153
--------------------------------------------------------------------------
________________
१४२
* गद्यचिन्तामणौ
सपक्षपातं कुमारमैक्षिषत । पातिततद्वचनाशनिज्वलनज्वालास्पृष्टः स काष्टाङ्गारोऽप्यङ्गारीभूतकाष्ठवन्निःसारतां गतः । कथमन्यत्प्रस्तुतमन्यदुपस्थितं यदतिसंवित्सितो गोविन्दमहाराजः स्वयमस्मानतिसंधातुमवाप्ताभिसंधिरासीत् । 'इदं हि जगति लाभमिच्छतो मूलच्छेदः प्रकृत्या स्वयमस्माकममित्रोऽयं वणिक्पुत्रो राजपुत्रत्वमप्यतेनारोपितः । पुनरेनं च प्राप्य प्रतिष्कशङ्काकार्कश्यमपरं नः किं न कुर्यात् ' इति विमृशन्नेव विसृज्य तदास्थानमादृतप्रस्थानो भवन् 'अस्थाने पतितमिदं राज्यं त्यज्यतां त्वया नियोज्यखेटकेन' इति प्रकटाटोपपाटवैः पद्ममुखादिभिर्निर्भसितोऽयं कुत्सित. त्तिः पुनयुयुत्सुरासीत् । बभूवुश्च काष्टाङ्गारतो निकृष्टा विशिष्टास्तु जीवं. धरराजतो राजानः ।
___ ततस्तपस्यामिव बलवदुपास्यां दुरन्ततया तु ततो नितान्तगर्हणीयाम् , मीमांसामिव परिहिंसाप्रवणभजनीयामीश्वरापेक्षतया तु ततो विलक्षणाम्, चार्वाकचर्यामिवानपेक्षितात्मनिर्वहणीयां गुरुद्वेषमूलतया तु ततोऽपि कुत्सनीयामाजिमारचयितुमतीव क्षोदिष्ठे काष्ठाङ्गारे प्रक्रममाणे, पराक्रमशालिषु पद्ममुखादिष्वपि युद्धाभिमुखेषु , पिनद्धाोरुके सशीर्षके च सति सादिनि निषादिनि च , समारोपितधनुषि धन्विनि, धनुर्धरचक्रवर्तिना चक्रव्यूहपरेण च पद्मव्यूहे कृते, चक्रशोभिशताङ्गनक्रभृति तुरंगतरङ्गिणि मातङ्गपोताङ्कित पादातपयसि परस्परस्पर्धेद्यतपारावारद्वय इव पक्षद्वये लक्ष्यमाणे , पटहध्वनेरपि ज्याघातरवे पांसुपटलादपि पत्रिणि गभस्तिमालिगभस्तेरप्युदस्तास्त्ररश्मिनिकरे रणरागादपि रक्तौघे प्रतिसमयं प्रकृष्यमाणे , धानुष्कैर्धानुष्का निषादिमिनिषादिनः सादिभिः सादिनः स्यन्दनारोहैः स्यन्दनारोहा युयुधिरे । तावता धरणी धरणीपतिमरणभीत्या रणनिवारणायेव रेणुपटलापदेशेन परस्परदर्शनं परिजहार । मिथोदर्शनापेक्षिणीवाक्षोहिणी तत्क्षण एव शिलीमुखमुखविघटितविशङ्क
Page #154
--------------------------------------------------------------------------
________________
दशमो लम्बः ।
१४३
टवक्षःकवाटविगलदविरलरुधिरधारया धरातलोद्यत्परागपरम्परामाचचाम । ततः साक्षालक्ष्यमाणलक्ष्यतया निष्प्रतिघे सति बलौधे , पृषत्केबु केषुचिदगाधयोधहृदयावबोधलम्पटतयेव प्रतिभटोरःस्थलं प्रविशत्सु , परेषु परप्राणमोषणोपजातभीतिभराक्रान्तेष्विवान्तर्धातुमवनीमवगाहमानेषु , अ. परेषु स्वनायकनिकटाटनविघटनेच्छयेव पाटितप्रतीपगामिपत्रिषु , अन्येषु स्वयमपि जातमन्युभरेष्विवार्धपदविलुप्तपत्रभागेष्वपि परगात्रमधिविशत्सु , पुनरमित्रपर्यायनेत्रश्रवःस्फुरदहंकारहारिटंकारभीकरस्तनितसहितकरालकामुककरम्बितजीवककुमारजीमूतनिष्ठ्यतसनिनदनीरन्ध्रशरनिकरनीरधारा - भिहन्यमानसैन्यसानुमत्संभूता संस्थितधरणीपतिकिरीटकेयूरहारजालवालुकाषण्डा सदण्डसितातपत्रपुण्डरीका वेगविलोठितगजगण्डशैला प्लबमानचामरविसरडिण्डीरा परेततुरगलहरीपरम्पराकुलकूलंकषा कर्षणरयाकृष्टावशिष्टाक्षोहिणीका क्षतजधुनी क्षणादिव प्रावहत् । तदेवं मारितपादाते दारितहास्तिके नश्यदश्वीये विपरिवर्तितरथकड्ये सारथिरहितरथिनि रंथारोहक्षुण्णक्षत्तरि स्तम्बरममरणसविषादनिषादिनि हस्त्यारोहविरहितहस्तिनि तुरङ्गमविगमसीदत्सादिनि अश्वारोहविवर्जिताश्वे च सति सैन्ये, त्रियामामिव दीर्घनिद्रोपद्रुतबहुलां तमोगुण प्रभवां च , बौद्धपद्धतिमिव पिशिताशिसेव्यां निरात्मकशरीरां च , गार्हस्थ्यप्रवृत्तिमिव मृतवारणविधुरां रक्तसुलभां च विलोक्य रणभुवम् ‘किमिति क्षोदीयांसो हिंस्यन्ते जन्तवः । स एव द्विषन्समूलकाषं कषणीयः' इति धिषणया पर्याणाञ्चितस्याअनगिरिनाम्नः कुञ्जरस्य स्कन्धं बन्धुरयञ्जीवबन्धु बंधरकुमारः सुरशत्रुसादनोद्यतः शक्तिधर इव करकलितशक्तिः, त्रिपुरदहनाभिमुखस्त्रिपुरान्तक इव नितान्तभीषणकोपाट्टहासः , दाशरथिरिव तपस्यानधिकारिणं शम्बुकं राज्यानधिकारिणमेनमपि शीर्षच्छेद्यं परिच्छिद्यारातिमाह्वयते स्म । आह्वानक्षण एव क्षीणतरादृष्टः स रुष्टः काष्ठाङ्गारः क्रोधवेगस्फुरदोष्ठपटतया नि
Page #155
--------------------------------------------------------------------------
________________
१४४
गद्यविन्तामण
कटवर्तिनो निजाह्वानकृते कृतागमान्कृतान्तदूतानिव स्वान्तसंतोषिभिः सान्त्वयन्वचोभिः नातिचिरभाविनरकायसयभवदवतमसप्रचयमिवात्मानं प्रतिग्रहीतुकाममागतं करालं कालमेघाभिधानं करिणमारुह्य रोषाशुशुक्षणिविजृम्भमाणशोणेक्षणतीक्ष्णार्चिश्छटाच्छन्नाङ्गतया सप्तार्चिषि निमउज्य निजस्वामिद्रोहभावं विभावयितुं मापयन्निव सत्यंधरमहाराजतनयाभिमुखमभीयाय । अवदच्चायमकिंचित्कर: किंचिन्न्यञ्चन्मनाः 'कुमार कुरुवंशशिखामणे, प्रणतराजचूडामणिकिरणशोणनखमाणचरणो रावणोऽपि रणे मरणभीयिवानायुर्विरामे रामेण । किंपुनरपरः । तदयं मया वध्यो वध्योऽहमनेनेति बुद्धिमन्तो न विबुध्यन्ते । किमर्थं मामविवेकमधिकमधिक्षिपसि' इति प्रतारणपरमेतदणकनरेन्द्रस्याकर्ण्य कस्यचिद्भाषणं किमभैषीः इति प्रत्यभाषत प्रतिभाप्रकाशिततन्मनीषितः स मनीषी । पुनरनैषीच्च गत्यन्तरमत्यन्तरोषहुतवहावहवचःश्रवणेन ' किं वणिक्पुत्र , किं वाङ्कात्रेण । विजयस्तु विधिवशतः । तव शक्तिसमागमे चक्षुषी चेन्मम त्रासजुपी स्यातां तदा परुषा स्यान्ममेयमाहोपुरुषिका । युक्तं च त्वयापि वक्तुमेवम्' इत्युक्ता सत्वरोपसर्पितकरिणः करिणमवप्लुत्योदस्तकौक्षेयकं क्षेपीयः स्वयं हन्तुमापतन्तं तमन्तराले नितान्तनिशितशक्तिशकलितशरीरयष्टिं काष्टाङ्गारम् । उदस्तम्भयच्च संग्रामसंरम्भस्तम्भनं विजयानन्दनो विजयशंसिनं विजयध्वजम् । अभ्यनन्दयच्च सानन्दमभ्येत्य सफललोचनत्वमात्मन्यात्मजायां वीरपत्नीव्यपदेशं वीरसूव्यपदेशमप्यवरजायामाकलयन्तम् , चन्दनशिशिरेण हृदयनिर्वाणविवरणचतुरेण विमलस्थूलेन निष्पतता बाष्पपूरेणाभिषिञ्चन्तमिवालिङ्गन्तं गोविन्दराजम् , आजिदर्शितनैकापदानमंभवदानृण्यानवरजसमेतान्सखीन्सह प्राभृतेन प्रसभमागत्य प्रणमन्तमपि पृथ्वीपतिसमाजम् ।।
ततश्च वैरिनिहननोपलब्धवैरशुद्धिमेनं विलोकयितुमरिशुद्धान्ताव
Page #156
--------------------------------------------------------------------------
________________
दशमो लम्बः ।
१४५
शेषमापेतुषां भर्त्सनमपि कृत्स्नसंमानं ताडनमपि सनीडप्रवेशनं निवारणमपि दर्शनद्वारकरणं दूरीकरणमप्यूरीकरणं गणयतां गोगणावस्कन्दिविपिनेचरविजयोपोद्धातमात्मापदानं शंसतां पुरौकसामुल्लोककोलाहलेन सकुतूहलमनाः कनत्कलधौतमयकालाञ्चीमुकुरचामरभृङ्गारतालवृन्तप्रभृतिपरिबर्हनिरन्तरितपर्यन्तः समन्तात्सेवमानसामन्तलोकसमभिधीयमानालोकशब्दः प्रशस्ततमे मुहूर्ते निवर्तिततदुपकार्याप्रदेशः प्रतिप्रदेशनिविष्टनिष्टप्तहाटकहटदष्टमङ्गलविराजितं राजपुर्याः सहजमिवालंकारमलंकृतमिव त्रिदिवं त्रिजगत्सार इति विश्रुतं श्रीजिनालयमभिषेकविधये विधानज्ञोऽयमास्तिकचूडामणिरधिकास्थयोपतस्थौ । तत्र च सत्वरपरिजनसंनिधाप्यमानै - कमणिमहः कबलितधवलातपत्रकिरीटहरिविष्टरैरष्टमङ्गलाद्यभिषेकोपकरणैश्च कराम्बतहरिति , हूयमानदहनदक्षिणावर्तार्चिश्छटादर्शनतृप्तपुरोधसि , विधीयमानविविधकार्यतात्पर्यसंचरमाणपञ्चजनपरस्परसंघटनप्रेङ्खत्केयूरजनितक्रेकारवाचालितककुभि , दीयमानदीनारादिवितृष्णदीनलोकपाणितलान्तरपर्याप्तच्युतमाणिक्यमौक्तिकस्थपुटितमणिकुट्टिमे प्रसवपरिमलादपि भ्रमरझंकारस्य , जनताया अपि प्रमदस्य , सुन्दरीजनादपि सौन्दर्यस्य , कर्तव्यादपि तत्कन्तिकस्य , वनीपकवाञ्छातोऽपि देयकाञ्चनस्य , वादित्रक्कणितादपि नृत्यदङ्गनारशनारणितस्य, शास्त्रचोदितादपि सपर्याक्रमस्य समधिकस्य समुद्भवे , भगवतः श्रीमन्दिरे सुरेन्द्र इव दूरादैरावणाद्वारणवरादवरुह्य वर्यया भक्त्या सपर्यानन्तरपर्याप्तसम्यक्त्रं बहिः प्रसारयनिव वाणीं गद्गदयन् पाणि मुकुलयन् नेत्रयुगं स्रावयन् गात्रं पुलकयन शिरः प्रह्वयन मनः प्रसादयन् प्राज्येज्यापरिकरैः परिपूज्य भगवन्तं भक्तिजलप्रवाहेण प्रागेवाभिषेकात्प्रक्षालितबहलाघजम्बालोऽभूत् । तावदुदञ्चच्चन्द्रचन्द्रिकासंचयेनेव कञ्चुकितम् , विहरमाणसौत्रामणवारणदेहप्रभाप्रतानेनेव सवितानम् , क्रीडाचटुलसुरधुनीमरालमण्डलपक्षैरिव वल
13
Page #157
--------------------------------------------------------------------------
________________
गद्यचिन्तामणौ
क्षितम् , आकालिकतुषारवारिशीकरविसरैरिव विच्छुरितम् , विसृमरपर्याप्तधूपस्तूपधूमनिष्पन्नधूमयोनिपरस्परसंघट्टविघटितजठरान्तर्मुक्तमुक्ताफलकान्तिवातेनेव वीधं वियद्विदधानः पारिषद्यचक्षुराह्लादभाभारेण परीतः स कृतज्ञप्राग्रहरः कृतज्ञचरः सुदर्शननामा देवः सादरमन्तरिक्षादवारुक्षत् । अभ्यषिचच्च तदभिषेकाधिकृतैरमा सपरितोषं निजपरिवारामरपरम्परानीतया परा
ाखिलतीर्थाम्बुपूरपूरितया परिसरप्रत्युप्तपद्मरागप्रभाजालजटिलकिसलयापीडया महनीयरत्नमहौषधिबीजसमवापसमग्रमङ्गलशालिककव्या शातकुम्भकुम्भपरिपाट्या भगवन्तमिव मन्दरगिरिमस्तकनिविष्टं विष्टरश्रवा हरिविष्टरविराजिनं जीवंधरमहाराजम् । अभिषेकसलिलौघे च संसिद्धिसिद्धनैर्मल्ये निर्मलतमतदङ्गस्पर्शनेन पावनतां प्रतिपद्य पापभूपसंपर्कपांसुलामपांसुलां कर्तुमिव काश्यपी व्यश्नुवाने, भृशमुन्मूलितरागाणामप्युत्कण्ठावहं गायत्किनरकण्ठीनां गणेन सुरकिंकरवाद्यमानैरमानुषातोद्यैरभिनवरसानुबन्धमभिनन्दन्तीनामप्सरसां सार्थेन चिरममर्त्यलोकायमाने भुवने भुवनैकशरण्यं लावण्यमूर्ति मूर्धाभिषिक्तमेनं स्वयमेव परार्ध्यरत्नाभरणैः सपरिष्करणं कृत्वा प्रकृतिसिद्धरामणीयकस्यास्य भूषणानां च भूष्यभूषणभावसाधारणतां समालोक्य सस्नेहविस्मयस्तिमितचक्षुषि चक्षुष्यमेनं पुन:पुनराश्लिष्य यक्षेन्द्रे स्वमन्दिरमीयुषि, राजेन्द्रोऽपि सदातननरेन्द्रसरभसोत्थानसंरम्भच्युतकर्णशिखरगतकर्णपूरोत्कलिकापुनरुक्तपुष्पोपहारमण्ड - नादास्थानमण्डपादुत्थाय ततो निर्गल्य प्रसरत्यपि प्रणामलीलालालसानां भूभुजामुन्मेषिणि चूडामणिमरीचिनिचयबालातपे ससंभ्रममावर्जितमकुटप्रच्युतापीडकुसुमडोलायमानमधुकरकुलान्धकारकुटमलायमानकोमलाञ्जलिकमलसहस्रकरम्बितमम्बरतलमालोकयन् 'जय जय' इति तारतरमुद्गायतो वन्दिबृन्दस्यामन्ददुन्दुभिगम्भीरनिर्घोषानुयातमायतशङ्खध्वानमिश्र प्रहतमद्दलस्निग्धनिर्दादमांसलं कांस्यतालरवसंकुलमालोकशब्दमाकर्णयन्
Page #158
--------------------------------------------------------------------------
________________
दशमो लम्बः ।
१४७
आलोलकर्णपल्लवालम्बिवालचामरकलापामलकार्तस्वरकल्पितालंकारका - न्तां चारुकोमलपुष्करकरां ससंभ्रममाधोरणसमुपनीतां साक्षान्मूर्तिमतीमित्र जयलक्ष्मीं जयलक्ष्मीं नाम करेणुकामारुह्य हंसतूलमृदुचीनपट्टोपधाने परिस्तोमवति विचित्ररत्नचित्रपर्यन्ते सुविहितप्रस्तररमणीये महति कनकपर्याणके सुखनिषण्णः पश्चिमासनगतेन हेमाङ्गदवलयरत्नदीधितिस्तबकचित्रवारवाणेन कुलक्रमागतेन स्निग्धेन शीलवता शौचाचारयुक्तेन प्रथमानमित्रेणोह्यमानस्य मध्यार्पितमहामणिमयूखपटलपाटलितस्य बालातपर
क्तशारदबलाहकानुकारिणश्चामीकरदण्डस्य प्रलम्बतरस्थूलमुक्ताकलापस्मेरपर्यन्तस्य महाश्वेतातपत्रस्य निसर्गशिशिरच्छायया निवार्यमाणमार्तण्डकरावलेपः पार्श्वक रेणुसंश्रिताभिरतिमनोहराकाराभिर्वारवनिताभिरतिमधुरं गायन्तीभिर्विनोद्यमानः सकुतूहलपौरसुन्दरीजालमार्गप्रसृतलोचनसहस्रसंछादितामुदञ्चदुत्पलप्रचयमेचकामिव भवनदीर्घिकां राजवीथीं जगाहे ।
तावता तदवलोकनकुतूहलोद्भवदुद्दामसंरम्भाश्चरणयोः प्रथमं परिस्पन्दमानं चरणमन्यस्मान्मान्यतरं मन्यमानाः, अग्रभावि पूर्वाङ्गमनुलग्ना - दपराङ्गादधिक गौरव कलितमाकलयन्त्यः, करणेष्वपि पुरः प्रयाणनिपुणमन्तःकरणमतिकृतार्थं वितर्कयन्त्यः, सरभसगमनविरोधिनः स्तनभारात्तनुतरमनुकूलमवलग्नं श्रद्दधानाः स्वाङ्गभ्रष्टान्यवशिष्टेभ्यो लाघवपोषीणि भूषणान्युपकारीणि गणयन्त्यः समागत्य स्फुरदतिरागमनोहराधरपल्लवाः वल्लर्य इव कुसुमामोदमहिता माधवसंगमकृतासङ्गाः, चलद्वलीभङ्गतरङ्गभासुरा रसमय्यः सरित इव सरित्पतिम् कण्टकनिकरदन्तुरितवपुषः सतिलका वनभुव इव महीधरम्, चारुचन्दनपत्रलताङ्किता मलयमेखला इव दक्षिणजगत्प्राणं वीरश्रीप्राणनाथं प्रमदाः समासदन् । तासां च सदावलोकन कौतुकविद्वेषे निमेषेऽपि वैरायमाणानाम्, असंजातसर्वाङ्गनेत्रं मनुष्यसर्गे हृदा गर्हमाणानाम्, तादृशभागधेयभाजनमात्मानमपि श्रद्दध
"
"
"
Page #159
--------------------------------------------------------------------------
________________
१४८
गद्य चिन्तामणी
तीनाम्, तस्यैव वदने निलीनामिव केशहस्ते निबिडितामिव ललाटे कीर्णामिव कर्णद्वये कीलितामिव लोचनयोर्भ्रान्तमिव भ्रूयुगे लिखिता - मित्र कपोलयोः सक्तामिव नासिकायां प्रतिष्ठितामिवोष्ठयोःश्रुम्बितामिव चिबुके कन्दलितामिव गले मांसलामिवांसयोर्निभृतामिव बाह्वोर्निक्षिप्तामिव वक्षस्याश्रितामिव पार्श्वयोर्निबद्धामिव मध्ये निमग्नामिव नाभौ घटितामित्र कटितटे निवेशितामिवोरुदेशे लङ्गितामिव जङ्घयोः संदानितामित्र चरणयोर्नम्रामिव चित्तवृत्ति वहन्तीनां वारस्त्रीणां मारकृतानि साकूतानि सविभ्रमाणि समाधुर्याणि समन्दस्मितानि सकलप्रलापानि सापाङ्गवीक्षितानि साङ्गुलिनिर्देशानि विलसितानि विलोकयन्विलोभनीयविश्वगुणभूमिः स्वामी स्वामिलाभदुर्ललितहृदयं प्रकृतिजनं प्रकृतिरञ्जनसमर्थः पार्थिवकुञ्जरः कार्तस्वर कटक कम्बलपरिधानादिस्पर्शनेन परितोषयन् विशेषज्ञवीक्षणीयानि प्रेक्षमाणः कक्ष्यान्तराणि तत्र तत्रभवन्तमालेख्यशेषमालोक्य पितरं स्मारंस्मारं दर्शदर्श धीरतया नातिविकृतहृदयवृत्तिरतिघृतमतिदक्षैः सपक्षपातैः सौधाधिकृतैः संशोधितसकलोपान्तं राजनिशान्ताभ्यन्तरं प्राविक्षत् । आरुक्षच्चायं राजवीर्येण वीराणां सौन्दर्येण सुन्दरीणां प्राभवेण पृथ्वीशानां वदान्यतया वनीपकानां धर्मशीलनतया धार्मिकाणां वैदुष्येण विदुषां मन्त्रणनैपुणेन मन्त्रिणां च हृदयं भोगावलीप्रबन्धेन कवीनां प्रबन्धमिव दिगन्तं देहप्रभया सभां देहेन च सिंहासनम् | आदिशच्च दिशिदिशि विसर्पिभिरान्दोलितचामरधवलिममूच्छितैरुच्छ्रितधंवलातपत्रराजिसब्रह्मचारिभिः सहर्षब्राह्मीहसितसंकाशैर्दशनेन्दुचन्द्रिकासान्द्रकंदलैः काष्ठाङ्गारचरित्रानुधावनेन सत्रायितं धात्रीतलमिव पवित्रयन् सुत्रामत्रासावर्जिन्या पर्जन्यगर्जिततर्जनपरया भारत्या परिसरनिविष्टान्काष्ठाङ्गारावरोधस्य कारागृहनिरुद्धानां च निरोधो निवारणीय इति काराधिकृतान् । अतनिष्ट च राजश्रेष्ठिपदे गन्धोत्कटं यौवराज्यपदे
Page #160
--------------------------------------------------------------------------
________________
दशमो लम्वः ।
१४९ .
नन्दाढ्यं महामात्रादिपदे पद्ममुखादीन्द्विषड्वर्षपर्यवस्यदकरपदे च जानपदान् । अतोषयच्च विषयान्तरेषु पुरा व्यूढानाहूतप्रविष्टानभिनिविष्टप्रेमाभिभूततया पादयोः पततः परिस्फुरदमन्दानन्दप्राग्भारोद्वान्तनितान्तशिशिराश्रुवर्षेणेव पांसुपरुषाधिंधावनसावधानान्तःकरणानन्तःस्फुरितविरहशोककृशानुकृशीकृताङ्गतया कृशाङ्गीति नाम सार्थमिव समर्थयतः स्वसंगमवासरकृताङ्गरागमाल्याद्यलंकृतान्पातिव्रत्यपताकाः पावनगुणोदारान्दारान् । अघोषयच्च धर्मचक्रभूषितललाटेन हर्षोद्भुरेण वीध्रवसनाङ्गरागसुमनोमण्डितेन शुण्डालौरसारोपितडिण्डिमेन चण्डालाधिकृतेन कृतभगवन्नमस्कारपूर्वकम् ‘संवर्धतां सद्धर्मः । सार्वभौमः क्षेमी क्षितिमण्डलमपायाञ्चिराय पायात् । अपेतसकलेतिरुपेतविश्वसस्या च भवतु विश्वंभरा । भवन्तु भव्या दिव्यजिनागमश्रद्धालवः सविचाराः साचाराः सानुभावाः सविभवाः सदयाः सदानाः सगुरुभक्तयः सजिनभक्तयः सायुष्याः सवैदुष्याः सहर्षाश्च पुरुषाः । धर्मपत्न्यः सधर्मकृत्याः सपातिव्रत्याः सतनयाः सविनयाश्च भूयासुः । भूयः श्रूयतामेतत् । देवविधित्सितविवाहोत्सववराहीभूतसप्तवासरावधिकमधिकं नगरीयमलंक्रियताम् । आहार्यविशेषः सविशेषमङ्गेष्वामुच्यताम् । अतिबहलागुरुधूपै—मायमानं केशजालमम्लानमालाभिरशून्यमातन्यताम् । नखंपचपायसाशनमनिशमश्यताम् । अरुच्यं तु भैषज्यमपि नोपभुज्यताम् । भज्यतां परमेश्वरस्य पादपद्मम् । इदानींतनाः सन्तु सनातनाः' इति ।
तदैवं घोषिते, केषुचिद्राजचरितोघोषणपरेषु पौरवृद्धेषु ‘क पूज्यं राजपुत्रत्वं प्रेतावासे क वा जनिः ।
क वा राज्यपुनःप्रातिरहो कर्मविचित्रता ॥' इति ससंवेगं प्रतिद्वारमुदीरयत्सु , परेषु तु पौरेषु 'सत्वरमलिन्दभूलि, मलयजरसेनालिप्यताम् । मृगलोचने , मृगमदमाहर । प्रसाधिके,
Page #161
--------------------------------------------------------------------------
________________
१५०
.
गद्यचिन्तामणौ
साधु प्रसाधय । सज्जीभव बाले , ताम्बूलवीटीविधौ । कुरङ्गलोचने , स्नापयितुमङ्गनं कुङ्कमस्थासककुम्भानानय । चित्रकर , प्रतिवेश्मचित्रादतिविचित्रं चित्रय । कर्पूरिके, कर्पूरोपलजालानि शकलय । मन्दीभूतगन्धपाटवामिदं पटवासं चूर्णाय भुजिष्ये , किं नु घृष्यते । मालिके , लब्धपरभागं माला सृज्यताम् । रजक, राजाज्ञा खलु त्वयैवाज्ञायि ; सद्यो वासांसि धवलीकुरु । कर्णाभरणानि तूर्ण विधेहि स्वर्णकार, किं नु कालं हरसि । मालाकार, प्रातरेवानय प्रसूनमभिनवम् ; सौगन्धिक - स्रगियमपेतगन्धा; बन्धुरसौरभामपरामर्पय ।' इत्येवंप्रकारमलंकाराय त्वरमाणेषु, राजकुले च कुलक्रमागतैः प्रागेवागमनं पश्चादाह्वानयन्त्रणां पूर्वमेव सर्वसमीहितकृत्योद्योगं तदनु नियोगं पुरस्तादेव स्वहस्तव्यापारमनन्तरमन्तःकरणवृत्तिं च भक्तिपरतन्त्रया भजद्भिस्तत्तत्कर्मान्तिकैः सुधासादिव सूत्रसादिव चित्रसादिव विचित्रपटसादिव पटवाससादिव कृते , कृतादराभिररुणसंग्राहिणीभिश्चूर्णसंयोजिनीभिः कुसुम्भरागकारिणीभिः कुसुमग्रन्थिनीभिर्मण्डनविधायिनीभिः पिण्डालक्तकसंपादिनीभिस्ताम्बूलदायिनीभिर्जाम्बूनदमुकुरधारिणीभिरष्टमङ्गलसंस्कारिणीभिः पिष्टपञ्चाङ्गुलक - लितशिलादिकल्पिनीभिश्च साधुशीलाभिः समन्तादागतसामन्तसीमन्तिनीभिनन्दिते, नरेन्द्रैश्च नाथमानैर्नरपतिकटाक्षस्य साकमुपधाभिरुपसरद्भिश्रुताशोकपल्लवशुम्भितवेदीवितर्दिकास्तम्भोत्तम्भिाभिश्च ससंभ्रमं कल्प्यमानायां कल्याणार्हसंविधायाम् , विजयामहादेव्यां च भर्तरि स्मरणेन कर्तव्ये चरणेन तनये स्नेहेन स्नुषायां हर्षेण बन्धुजने प्रियवचसा नियोज्ये नियोगेन च तदानीमेकस्यामपि नैकस्यामिव सत्यां सुतोद्वाहसुखानभिज्ञमात्मानं सुखयन्त्याम् , तदीयकौतुकेनाहूत इव वररागरज्जुनन्थिबन्धनाकृष्ट इव वधूसखीप्रपञ्चपञ्चशाखाङ्गुलीगणनाक्षीण इव स्वकुतूहलेन स्वयमेव वा सरभसमायासीदुद्वाहवासरः । .
Page #162
--------------------------------------------------------------------------
________________
दशमो लम्बः ।
अथ कल्पितकरग्रहणाहपुरश्चरणकर्माणं कनकधरणीधरकटकपरिभाविनि परिसरघटितविमलमुक्ताफलपटलपाण्डुरमहःप्रसरपुनरभिहितोत्तरच्छदशोभिनि पराक्रमविद्याशिष्यैरिव पञ्चाननैः पादच्छलेन विधारिते निष्टप्ताष्टापदनिर्मिते महति सिंहासने समुपविष्टम् , पृष्ठभागोपस्थापिते क्षीरोदतरङ्गकोमलदूकूलनिचोलचारुणि चामीकरपत्रचित्रितस्तबरकदर्शनीयपर्यन्ते द्विगुणनिवेशिते स्पर्शसुखप्रतिपादनपटीयसि हंसतूलोपधाने निधाय पश्चिमदेहमासीनम् , आसन्नस्थिताभिरनुवल्गनरणितमणिपारिहार्यमुखरबाहुलताभिरनिलचलितकुवलयदलदामपेशलविलोचनविक्षेपाभिर्विभ्रमकृतनिभृतहसितनिर्यदमलदशनमरीचिकुसुमिताधरकिसलयाभिः कुसुमशरकीर्तिपयोराशिवीचीविमलनीवीविनिहितैककरपल्लवाभिः परेण करपङ्कजेन कलहंसामिव परिमललोभपतितमुच्चालयन्तीभिश्चामरं वाममयनाभिः कल्पशाखिनमिव कनकलताभिः परिवृतम् , उत्तप्ततपनीयदण्डविधारितेन सुमेरुशिखरविलसदुडुपतिमण्डलविडम्बकेन विमलातपत्रेण तिलकितोपरिभागम् , अनुपरिपाटि स्थितैराहितकरकमलकलितकनककिरीटैरसकृदभिधीयमानजयजीवशब्दैरंसतटलुठितमणिकुण्डलमरीचिपर्याकुललोचनैरभिनवगगनशङ्कासमुदिततारकानिकरानुकारिणा हारेण पुलकितपृथुलवक्षःस्थलैरवनिपतिभिरारादासेव्यमानम् , आहितरत्नकेयूरकिरणपाटलितेनाध्यक्षीभवदभङ्गुरप्रतापेन भुजयुगलेन चमत्कुर्वाणम् , शारदजलधरधवलाम्बरपरिवेषदर्शनीयं दुग्धजलधिजलपूरमधिशयानमिव शाङ्गिणम् , नभोङ्गणे तारागणैरिव तारापतिं धरापतिभिः संसदि विराजमानं राजानमुपसृत्य प्रश्रितः प्राञ्जलि: 'प्रत्यासन्नो मुहूर्तः' इति मौहूर्तिकाधिकृतः ससंभ्रममब्रवीत् । तद्वचनमुपश्रुत्य द्रुततरमुच्चलतामिलापतीनां रंहसा चलितवक्षोगतवैकक्ष्यमालाभ्रान्तभृङ्गावलीझंकाररवे मङ्गलशङ्खध्वनाविवोच्चलति, तरसा त्रुट्यत्सूत्रहारमुक्तानिकरे रोहदतिस्फारकरपद्मरागकुट्टिमपातेन
Page #163
--------------------------------------------------------------------------
________________
१५२
द्यचिन्तामण
वधूवरविधेयहुतवहज्वालोचितलाजविसर्ग इव विभाव्यमाने, जनसंमर्दकृतयादृच्छिक मणिस्तम्भदक्षिण भ्रमणारम्भे दम्पतिविधास्यमानहुताशनप्रादक्षिण्यक्रियां पिशुनयति, हर्षविकीर्यमाणराजाभिमुखप्रसूनाञ्जली सा
7
नन्दगोविन्दमहाराजादिविधातव्यवधूवरचकासदार्द्राक्षतारोपणमनुकुर्वति परिष्करणमय इव परिबर्हमय इव नृत्तमय इव वादित्रमय इव महिषीमय इव महीपतिमय इवानन्दमय इवाशीर्मय इव विलसति विवाहमण्डपे, मण्डलाधीश्वरदत्तहस्तः शिलोच्चयशिखरान्नखरायुध इव हरिविष्टरादवरुह्य विरचितपरमेश्वरसपर्याञ्चितः स्वहस्तवितीर्णकाञ्चनः संचितसकल होम द्रव्य समिद्धपुरोभागेन पुरोधसा हूयमानसमित्कुशतिलबीजलाजजालचटचटायमानेन हुताशनेनाहूत इवासाद्य वेदीं मुदितपुरोहिताभिहितजयजीवेत्याशिषा समं जीवंधरमहाराजः, स्वमातुलमहाराजेन महनीयलग्ने ससंतोषं समर्पिताम्, आत्मीयकीर्तिमिवाकल्पभासुराम्, प्रबलतपस्यामिवाबलाप्रार्थनीयवेषाम्, वासरश्रियमिव दोषोपसंहारसुलभाम्, सुरसुन्दरीमिव साभरणजाताम्, मृगयामिव वराहवधसंपन्नाम् मुनिजनमनोवृत्तिमिव चरणरक्ताम्, ब्रह्मस्तम्भाकृतिमित्र कृशतरविलग्नाम्, शरदमिव विमलाम्बरविराजिनीम्, अध्वरसंपदमिव सुदक्षिणाम्, सुराज्यश्रियमिव चारुवर्णसंस्थानाम्, वनराजिमित्र तिलकभूषितां बहुपत्रलतां च, नक्षत्रराजिमित्र रुचिरहस्तामुज्ज्वलश्रवणमूलांच, हव्यवाहज्वालामिव काष्ठाङ्गारवर्धिनीं भूतिभाविनीं च, 'यदि कुन्तलानामीदृशी कान्तिरलमलं संतमसकान्तिचिन्तामणिभिः । ईदृशं चेदाननमस्य प्रतिरूपकमेव कुमुदिनीपतिः । यदि भुजयोरीदृशं संस्थानमनयोरनुकरोत्येव कल्पशाखिशाखा । यद्ययमाभोगः स्तनयोः पीनयोः क्रीडागिरिरपरः कीदृशो भर्तुः' इति निभृतं वल्लभपरिचारिकाभिनुरागिणीभिरभिष्ट्यमानाम्, अमन्दमृगमदामप्यकिरातगीतिम्, अलकोद्भासिनीमपि नवुतिसंभवाम्, मधुपाश्लिष्टगात्रामपि पवित्राम्, अक्रमक्षी
2
Page #164
--------------------------------------------------------------------------
________________
दशमो लम्बः ।
णामिव कौमुदीम्, अभुजङ्गसङ्गमामिव चन्दनलताम्, अजडाकरप्रभवामिव पद्मलक्ष्मीं लक्ष्मणां पर्यणयत ।
इति श्रीमद्वादीभसिंह सूरिविरचिते गद्यचिन्तामणै लक्ष्मणालम्भो नाम दशमो लम्बः ।
-:*:--
१५३
Page #165
--------------------------------------------------------------------------
________________
१५४
गद्यचिन्तामणौ
एकादशो लम्बः ।
अथ निष्कण्टकाधिराज्योऽयं राजा कुसुमशरशरकाण्डपतनेन करपीडाक्षण एव कण्टकितप्रकोष्ठः प्रकामस्विन्नाङ्गुलिमन्यूनभाग्यां भोग्यामिमां राज्यश्रियं च प्राप्य प्रकृत्यनुगुणेन चतुरवचसा मधुरनिरीक्षणेन मनोहरचष्टितेन यथेष्टभोगार्पणेन तयोः कंदर्प दर्पे च प्रसर्पयन्निरर्गलोपभोगस्यार्गलास्तम्भमभिनवतासंभावुकमवशीभावमुभयोरप्युत्सारय - न्स्वैरेममूभ्यां यथासौख्यं यथाभाग्यं यथायोग्यं कामसुखमन्वभवत् । एवं कान्तेः कार्ताक्षं कलानामेकायतनमाधिराज्यं माधुर्यस्य गुरुकुलं प्रसन्नताया वैदग्ध्यं वदान्यताया अवसानमनुक्रोशस्य दिष्टिवृद्धिं प्रियवादिताया यौवनं बिभ्राणाम् , गाढरक्तां पाणिपादाधरे भर्तरि च, अधिकवक्रां पक्ष्मवति कुन्तलकलापे पापसत्त्वे च, निकामतुङ्गां स्तनजघने मानसे च , अतिगम्भीरां नाभिमण्डले भाषिते च, विपुलां विलोचनयो
र्नाम्नि च, दीर्घा भुजलतयोः प्रणतरक्षणे च , सूक्ष्मां महिम्नि करचरणरेखासु च, चारुवृत्तां जक्योश्चरित्रे च, अत्यन्तमृद्वी तनुलतायां गमने च, अतिदरिद्रां मध्ये नैर्गुण्ये च, आभिजात्येनाभिरूप्येण पावनकृत्येन पातिव्रत्येन च विशिष्टाम् , अष्टधा भिन्नामप्येकीभावं गतां देवीपरिषदं यथोचितं साकूतस्मितैरपाङ्गपातैः सनर्मसौख्यैर्विलासोक्तिविस्तरैः सविस्रम्भैरनुरागवर्णनैः सापदेशैरपसर्पणैः ससंभावनैर्माल्यविनिमयैः सभ्रुकुटीपुटैरलीककोपैः सप्रणामैः प्रकृतिप्रापणैः सापराधसंवरणेरुपधावनैः सजीवितसंशयैः शपथसाहसैः सापलापैः स्थैर्यस्थापनैः सानुमोदः प्रतिवचोदानैः सावहित्थैः शुष्कनिर्बन्धैः साभिलाषैरनुनाथनैः स
Page #166
--------------------------------------------------------------------------
________________
एकादशो लम्बः ।
१५५
वञ्चनैः काञ्चीशैथिल्यैः सधाष्टघैरुपप्रलोभनैः सवैलक्ष्यैः प्रत्यवेक्षितैः सप्रमादोपन्यासैः स्खलितानुज्ञापनैः सत्रासैर्गोत्रव्यत्ययैः सदास्योपगमैः संरम्भमार्जनैः समार्गनिरोधैः प्रतिनिवर्तनैः सकौतूहलैराश्चर्यविलोकनाक्षेपैः सगद्गदिकास्तम्भैमिथ्याकथितैः सलज्जाजाड्यैरधोमुखस्थितैः सानुशयैरनुपदप्रस्थापनैः ससमाह्वानैः क्रीडनसंकल्पनैः ससद्भावाभिनयैः प्रतार• णप्रावीण्यैः सरहस्यसंज्ञैराशोत्पादनैः सरोमाञ्चैरवतंसकमलकेलिताडनानुभावैश्च रमयन्यथाकामं कामसौख्यमसक्त एवान्वभवत् । तथाहिअसौ राजा वाह्यममित्रजातमध्रुवमतिविप्रकृष्टं चेयात्मनिष्ठमरिषड़र्ग व्यजेष्ट । असहाया नीतिः कातर्यावहा शौर्य च श्वापदचेष्टितमित्यभीष्टसिद्धिमन्विताभ्याममूभ्यामाकाङ्क्षीत् । सप्रणिधानं प्रहितप्रणिधिनेत्रः शत्रुमित्रोदासीनानां मण्डलेषु तैरज्ञातमप्यज्ञासीत् । राज्ञां रात्रिंदिवविभागेषु यदनुष्ठयमिदमित्थमनिर्बन्धमन्वतिष्ठत् । जातमपि सद्यः शमयितुं शक्तोऽपि सदा प्रबुद्धतया प्रतीकारयोग्यं प्रकृतिवैराग्यं नाजीजनत् । किं बहुना । राजन्वतीमवनीमतानीत् ।
___ एवमनन्यसुलभानन्योन्याबाधितान्धर्मार्थकामान्संचिन्वति तस्मि - प्रजापतौ, प्रजाश्व तदधीनवृत्तयः सादरैः करप्रदानैः सानुशयैः प्रमादस्खलितैः सभयैराज्ञानुष्ठानैः सविनयैर्गुरुजनानुवर्तनैः सनिर्बन्धैश्चारुवृत्तैः सविचारैः प्रारम्भैः सफलैरखिलवृत्तैः सपरप्रयोजनैः साधुचेष्टितैः सदानपूजैरुत्सवोपक्रमैः समेतास्तं राजानमनार्जनक्लेशमर्थजातमजन्मोपयुक्तं पितरमनिमेषोन्मेषं नेत्रमनभिवर्धनायासं सुतमाबद्धमूर्तिमिव विश्वासमवनीतलसंचारमिव सुरतरुमात्मप्राणानामिव पुञ्जीभावममन्यन्त । तथा गात्रबद्ध इव क्षात्रधर्मेऽस्मिन्धर्मोत्तरं धनोत्तरं सौख्योत्तरं च धरातलमवति सम्राजि, वत्ससाम्राज्यसमवलोकनसफलीकृतजीविता विविधविहितपूर्वोपकारिसर्वजनतृप्तिः पुनरतृप्तिकारिण्यविचारितरम्ये किंपाकफलप्रख्ये वि
Page #167
--------------------------------------------------------------------------
________________
१५६
· · गद्यचिन्तामणौ
षयसौख्ये विरक्ता सती विजया महादेवी सस्नेहं सदयं साश्वासं सनिर्बन्धं सवैराग्यं सावश्यकं च समादिश्य काश्यपीपतिनापि कथंचिदनुमतैव सुनन्दया समं सुतयोः स्नुषाणां पुरौकसां च सीदतां प्राबाजीत् । प्रव्रज्यामनयोरुपश्रुत्य तदाश्रमस्थानं राज्याश्रमगुरुरपि गुरुतरविषादविहलमतिः सपदि समभ्येत्य समुद्वीक्ष्य दीक्षिते जनयित्र्यौ कर्तव्याभावादतिमात्रं विषीदन्मातृभ्यां विशिष्टं तत्संयमं विश्राणितवत्या श्रमणीश्रे. ष्ठया प्रपञ्चितैर्धर्मवचोभिः किंचिदिवाश्वास्यमानः पुनःपुनः प्रगृह्य पादं प्रसवित्र्योः ‘अत्र नगर्यामासिका कर्तव्या । न च स्मर्तव्यान्यत्र यात्रा' इति ययाचे । ताभ्यां च तदीयप्रश्रयबलेन 'तथा' इति प्रतिश्रुते , विश्रुतवीर्यः स विश्वंभरापतिरम्बावियोगादम्बकविहीन इव दीनवृत्तिः प्रतिनिवर्त्य सप्रणामं निवृत्त्याश्रमान्निजावसथमशिश्रियत् । ___तदनु कालपाकेन स्वपाकेन शान्तस्वान्तरुजः कान्ताभिरमा निर्विशतस्त्रिदशाहसौख्यं त्रिंशत्संवत्सरसंमिते समये समतिक्रान्ते, क्रमादात्मजेष्वप्यात्मनिर्विशेषेषु कलागुणैः कवचहरतां निविशमानेषु, कदाचिन्नितान्तक्षीबवसन्तबन्धुर्वसन्तसमयावतारः समधुक्षयदस्य जलक्रीडोद्योगम् । अनन्तरमानायिभिः संशोधितां स्फटिकतुलितपयःपूरां स्फुटितारविन्दबृन्दनिष्यन्दिमधुबिन्दुसंदोहचन्द्रकिताममलस्फटिकशिलाघटितसोपानां प्लवमानराजहंसफेनिलतरङ्गां कूजत्कारण्डवमिथुनाधिष्ठितकूलकेतकीकुसुमधूलीधूसरपुलिनामनिभृतमीनाहतोत्पलगर्भप्रतिबद्धषट्पदझं - कृतमुखरामुपरितटोद्यानवाटिकागूढां क्रीडासरसीं समदशकुन्तकुलकूजितैरिवाभिहितालोकशब्दः समवगाहमानमानिनीनिकरकरास्फालनरय - तीरगामिलहरीप्रवाहणेव प्रतिगृह्यमाणः समवगाह्य वनकरीव करिणीभिः करभोरुभिरुपलक्षितः क्षालिताङ्गरागसंपर्कसकुङ्कमसलिलं सादुकूलाश्लेषस्पष्टदृष्टयोषिदवयवाकृष्यमाणात्मलोचनं सुलोचनालोचनकुचसारूप्य -
Page #168
--------------------------------------------------------------------------
________________
एकादशो लम्बः ।
१५७
साक्षालक्षणसंभावनीयविकचमुकुलनलिनमलकाप्रविगलदम्बुबिन्दुसंदोह - संदेहकरहारमुक्तमुक्तानिकरं करविलुलितसलिलप्लवमानबिसवलयरचितचन्द्रशकलशङ्क जडसंनिधिसंजातवाग्यतवृत्तिकताविभाव्यमानसुजनकृत्यरशनाकलापं दृतिमुखसिच्यमानकुङ्कुमसंपर्कसंभाव्यमानसिन्दुरितकुम्भिकुम्भसाम्यकुचकुम्भं च भृशमक्रीडत् । ____ क्रीडावसाने च बलवदनिलचलकिसलयसमुल्लासिवेलल्लतालास्यलालितेऽभिनवपरागपटलस्विन्न'नागमञ्जुमञ्जरीजालजल्पाकमधुकरनि - करझंकारमुखरे गाङ्गजल इव पृथुलहरीसनाथे, पचेलिमकलमशालिक्षेत्र इव बहुलवनमाले , अङ्गनाङ्ग इव मृदुलपनसबहुमाने , सनीडवर्तिनि मबंदुरासदसुमनोमनोहरानोकहानिबिडे कचिदाक्रीडे क्रीडाक्लमहरणाय विहरमाणः स धरित्रीपतिः क्वापि कोणे कौतुकविधायिकापेयविलोकनाय विलोचने व्यापारयामास । तत्र चातिसंधानकोविदः कोऽपि कपिरन्यस्त्रीसंगमावलोकनेन मन्युग्रस्तां मर्कटीं ‘अवितर्कः कोनाम निसर्गसुन्दरीमनादृत्य त्वामन्यां बहुमन्येत' इति प्रियवचःसहत्रैरपि प्रकृतिमानेतुमपारयन्पारवश्यनटनेन ‘पश्य मां प्रिये, परासुरहं भवामि' इति परिवतितेक्षणः क्षणादेव क्षितौ क्षीणासुरिव पपात । वराकी तु सा वानरी वञ्चनाकृतं मरणमञ्जसेति स्त्रीत्वसुलभाच्चापल्याद्विश्वस्यभावेन दीर्घ नि:श्वस्य ‘हा नाथ , हतास्मि पापाहम्' इत्यालप्य सत्वरमेनं हरि धरातलादुत्क्षिप्य करतले गृह्णती निगृह्णती चात्मानं 'कुट्टिन्या मया पतिद्रोहः कुतः कारणात्कृतः' इति पुनःपुनः कृतगाढपरिष्वङ्गा पाणितलविकीर्यमाणपयःशीकरशीफरेण शिशिरोपचारेण चिराय जीवितेश्वरं जीवयामास । प्रियाङ्गपरिष्वङ्गेण प्रत्युजीवित इव प्रीणानः प्रतारणचतुरः स शाखामृगः शाखिशाखान्तरलम्बमानमम्बरव्यापि पाकसुलभसौरभरचितजिह्वाचापलं पमसफलमानीय मुद्गफलाकाराभिः कराङ्गुलीभिर्दलयना
14
Page #169
--------------------------------------------------------------------------
________________
१५८
: गद्यचिन्तामणौ
त्मदयितायै तस्यै ददौ । तदवसरे तत्र नियुक्तो नातिबालः कोऽपि वनपालः पलाययन्मिथुनमिदं फलमेतदपजहार । तदेतदखिलमवलोक्य लोकोत्तरोन्नतचित्तः स जीवंधरमहाराजः सदयमना ‘जीवानामुदय एक न केवलं जीवितमपि बलवदधीनन् । दीनवृत्तिके मृगद्वन्द्वे संभवदिदं द्वन्द्वजातं किमेवं संभाव्यते । भवेऽस्मिन्नेवास्माभिर्भवभृतां वृत्तेरवस्थाविकलता किमनालोकिता। आलोकिताप्येषा विभवदूषिकादूषितदृष्टीनां न खलु नः स्पष्टीभवति । कष्टमतः पूर्वमाचरितम् । सर्वथा काष्ठाङ्गारायते करशाखाभ्रष्टफलः शाखामृगः । अस्मद्यते नूनमाच्छोटिततत्फलः स वनपालः । फलं तु नियमेन भोगायते । गच्छतु तुच्छफलकासया कृच्छ्रायमाणेन मया गमितः कालः । सफलयेयमवशिष्टं वा विशिष्टतपसा। भोगेन हि भुज्यमानेन रज्यमानेनापि त्यज्यते जनः। तस्मादहमेव तावदैहिकभोगेषु मुह्यन्मनो जह्याम् । यावदमी माममीमांसया नूनमभिलषन्तं हसन्त एव जिहासन्ति । नियोगतश्चेद्भोगानां वियोगः स्वयं त्यागात्किमिति लोकोऽयं बिभेति । किं च ते भजन्तमात्मानं त्यजन्तः स्वातन्त्र्यात्स्वान्तमस्य सुतरां तुदन्ति । स्वयं त्यक्तास्तु तदानीं मनःप्रसत्तये पुनर्मुक्तये च भोगा भवेयुः' । इति भूयो व्यरजत ।
तथा विहितविचाराभोग भोगाद्विरज्यन्तं योगे क्रममाणमेनं क्रमादतर्कितदक्षिणाक्षिस्पन्देन किमुदर्कोऽयमिति वितर्कविजृम्भितरणरणकविषीददन्तःकरणास्तदन्तःपुरसुन्दर्यः पर्यवारयन् । वैभवमहो वैराग्यस्य यतो भोग्ये संनिहितेऽप्ययोग्य इवासीदस्पृहमस्य मनः । तत्त्वज्ञानविवेकतो विमलीकृतहृदयाः कृतिनः खलु जगति दुष्करकर्मकारिणो भवन्ति, यस्मादमी मनस्विनो मनोरथेनाप्यभावित्वादभूतत्वादननुभूयमानत्वाच्च वाञ्छामात्रपरिग्रहाण्येव वस्तूनि परित्यक्तुमप्यपारयति लोके, तान्युपभोगभाज्येवाञ्जसा मुञ्चन्ति । तथाहि-- तत्पूर्वक्षणे ताः सुन्दरीनिरन्तरं
Page #170
--------------------------------------------------------------------------
________________
एकादशो लम्बः।
१५९ निशामयितुमन्तरायभूतमात्माक्षिपक्ष्मक्षोभमप्यक्षममाणोऽयं राजर्षिर्न मृष्यति स्म तदात्वे सनिधिमपि तासाम् । पुनरासीच्च महीपतेर्महानुद्योगो योगीन्द्रमुखादुपश्रोतुं धर्मम् । आदिशच्च परिजनम् ‘जिनपूजां कल्पयितुमनल्पमुपकरणमनवद्यमानीयताम्' इति । तावता संमुखागतैर्मुखविकारविभाव्यमानविरक्तिपरिणामैः परिणतैर्मन्त्रिभिर्नियन्त्रणाशतेनाप्य - निवार्यमाणप्रयाणः प्रयाणदुन्दुभिभिषेणानिमेषाध्यक्षस्य यक्षस्याप्यात्मनिर्वेदं निवेदयन्निव निर्विण्णहृदयेन किंकृतविषय आसीत् । 'क्रीडानन्तरं पीडेयं प्रवृत्ता। किंनिमित्तमेतद्विरक्तमस्य चित्तम् । किमस्मद्विषयमुतान्यविषयं किंस्विदाकस्मिकम् । किमु स्वन्तं किमुत दुरन्तम् । दुरन्ततामेव हि नः शुभेतराक्षिस्पन्दः कन्दलयति' इति चिन्ताक्रान्तेन शुद्धान्तेन सममुद्यानान्निरयात् । अयाच्च यातयातनैस्तपोधनैरध्युषितं मुषितभव्यलोकमोहब्यूहं मोघीकृतदिनमणिमयूखैर्मणिभिर्निर्मितं धर्मैककुलभवनं जिनभवनम् । अबुध्यत चात्मानमबद्धं कर्मभिः । अस्तावीच्चायमतितोषादपदोषमात्मानं कर्तुं समर्थैः स्तवैः प्रवर्तितनैकप्रदक्षिणक्रियाप्रणामपूर्वकपुष्पाञ्जलिः स्फारयन्परिणामशुद्धिं दूरयन्दुष्कर्म गात्रं रोमाञ्चक्ने स्रावयन्वाणी गद्गदयन्पाणी मुकुलयन्भगवन्तं परमेश्वरम्-.
'यदपि प्रणतौ प्रवीणा न कुर्वते जातु नतिं परेषु । अपारभूमानमनन्यतुल्यं श्रीवर्धमानं शिरसा नमामि ॥.. यदीयपादाम्बुरुहस्तवेन क्षणावधि वा गमयन्ति कालम् । न ते परस्तोत्रपरा इति त्वां श्रीवर्धमानं स्तुतिभिर्भजामि ।। आराधयन्ति क्षणमादरेण यदपिङ्केरुहमात्तभावाः । पराङ्मुखास्ते परसत्क्रियायामित्यर्चनीयं जिनमर्चयामि ॥' इति ।
तावता तत्र तत्रभवन्तौ संनिहितौ हितकार्यकरणायेव कायभृतां कायबद्धौ शुद्धतमतपःशक्तिसिद्धां निजसिद्धान्तस्थितिमिव निर्मलां नाति
Page #171
--------------------------------------------------------------------------
________________
गद्यचिन्तामणौ
१६०
"
विशालां कामपि स्फटिकशिलां घटितविविधोद्गमस्य विबुधतरोरधस्ताद - धिवसन्तौ वारिदपथसंचारचतुरचरणारविन्दौ चारणपरमेष्ठिनौ राजायमै - क्षिष्ट । दृष्टमात्रयोरेव तयोरयं भ्रष्टकल्मष इव प्रीतिविस्फारितनेत्रः स्तोत्रमुखरमुखः पवित्र कुसुमविसरविकिरणत्वराविलकरयुगः प्रहृमणिमौलिः प्रदक्षिणं भ्रमन् 'मम भवभ्रमः शाम्यतात्' इति तपः काम्यया तपोधनयोः श्रीपादाम्भोरुहं शेखरीचकार । स्वीचकार च घटितकरपुट: स्फुटोच्चारितजयशब्दः ' तत्रभवतोः प्रसादतस्तथा' इत्यवितथवचन: मुनिवरमुखाम्भोजभवां 'भो महाराज, कच्चिते वार्तम्' इति मधुरवार्ताम् । प्रार्थयाञ्चक्रे च वीक्षितधेनुर्बुभुक्षितो वत्स इव मुनिवरवात्सल्येन वर्धितहर्षोऽयं राजर्षिः 'महर्षी भगवन्तौ भवन्मुखशतपत्रनिशामनमात्रेणैव जातसंसारप्रशमनोऽहमस्मीति प्रगणयामि । ततः पवित्रधर्मयानपात्रसमर्पणेन भवाब्धौ विस्तृते दुस्तरतया सदा सीदन्तं मां प्रसीदताम्' इति । प्रश्रयस्पृहणीयतदीयप्रार्थनावसाने च धर्मामृतवर्षेण कर्मपर्यायमाभ्यन्तरमस्य मलमशेषतः क्षालयिष्यन्पूर्वमपाकुर्वन्निव बाह्यमभ्यन्तररंद नज्योत्स्नारूपाभिरद्भिरभिषिञ्चन्नुप्रतपसोस्तयोरग्रणीर्नातिव्ययं समप्रगुणसंपन्नां रत्नदीपिकामिव प्रकटितपदार्थपारमार्थ्यं तमोपहां चाकठिनप्रभावत्वादिमामप्यतिशयानाम्, सुधामिव वसुधातलदुर्लभां सुमनः संभावनीयां चाक्षयकलानिधिसंभवादतोऽपि संभावनीयाम्, संजीवनौषधिमिव सकलजीवजीवातुभूतां चरणरुचिसंपादिनीं च पुनर्जननक्लेशहननादतोऽपि पुरस्क्रियार्हाम्, हारयष्टिमिव सुवृत्तबन्धुरां गुणानुबन्धिनीं चाजडाश्रयत्वादतोऽप्यधिकमीडनीयां च भव्यलोकरञ्जनीयां दिव्यवाचं मुमोच - 'महाराज, श्रूयताम् । यतोऽभ्युदयनिश्रेयससिद्धिः स धर्मः । स च सम्यग्दर्शनज्ञानचारित्रात्मकः । अधर्मस्तु तद्विपरीतः । आयुष्मन् अवगच्छसि त्वमधीती श्रुते तुच्छेतरमशेषममीषां लक्षणम् । इत्थंभूतमात्मो
Page #172
--------------------------------------------------------------------------
________________
एकादशो छ। १६१ स्थानन्तसौख्यादिगुणनिर्माणं धर्म बलवन्मोहकर्मोदयेन यथावदवगन्तुमशक्ता अधर्मे धर्मबुद्धिं धर्मे चाधर्मबुद्धिं बनन्तस्तदुभयमप्यबुध्यमानाच प्राणिनः पृथिवीपते, निकामतीवनीचकर्मोदयान्निरये तिरोभूततीव्रभावपापात्तिरश्चि, प्रवर्तितसुकृतेतरद्वयान्मर्ये, सुकृतमात्रेण सुरेषु च कृताबतारास्तावद्भमन्ति यावन्निर्मूलितनिरवशेषकर्माणों भवेयुः । एवं निगदितायां नाकनरकनरतिरश्चां भेदेन चातुर्विध्यं गतायां गतौ, हिंसानृतस्तेयमैथुनमात्रपरा हिंस्रसत्त्वाईक्रूरपरिणामा अधर्माभिवर्धिनो धर्मद्रुहश्च घर्मादिनिरयं प्रयान्ति । एवंभूतपुरोपार्जितपुण्येतरबलेन बद्धनिरयायुषो निरयं प्रयातास्ते प्राणभृतः प्राण्यन्तरमारणप्रवीणप्राकृतपूतिगन्धोद्रेकादुद्वेजनीयामुद्दामदावज्वालालीढतालतरुसमाकारां नालिकेरफलोदररज्जुघदितभाजनमिव स्थपुटितां यावदायुः केनाप्यविघटनीयां सपटलभेदसप्तपृध्वीनु प्रथमनिरयादारभ्य क्रमादभिवृद्धेनापकर्षतः षडङ्गुलकलितत्रिहस्ताधिकसप्तकेन प्रकर्षतश्च पञ्चशतेन धनुषां समुच्छ्रितां मूर्ति मुहूर्तमात्रेगोर्ध्वगतिशीलावलम्बिनः पूर्णयन्तः शिततरनैकशस्त्राकीर्णतले पक्कतालफ़लानीव स्वयमेव पतन्ति । पुनरुत्पतन्ति च पतनवेगेन बहुयोजनानि । बहुधा विशीर्णमप्यर्ण इव तद्गात्रं क्षणमात्रेण घटतेतराम् । क्षशवटितप्रांशुप्रतीकान्प्रतीकारविरहादनारतमुत्पततः पततश्च नारकान्पातकाः परे पवनपथ एव मननक्षणनिष्पन्नैर्निस्त्रिंशैरंशतः कदलीदण्डा. मिव खण्डयन्ति । तांश्च परे। परस्परं च । कथंचिदवनौ चेत्संचरेयुरमी संजातभीकरदंष्ट्राङ्करैर्विक्रियागतशरारुचक्ररूपैः परैश्चय॑न्ते । तच्चर्वणभयेन पलायमानास्ते सर्वप्रदेशसुलभाभिरयःसूचिभिः प्रोतायः कुरङ्गा इघ सकीलवागुरां गताः परिस्खलनेन पतित्वा तास्वेव दारुणं क्रोशन्ति । क्रोशरभसविवृतास्यानमून्विवृततरास्यान्विधाय केचित् 'मूढ , त्वया पुरा मुदा खादितं मांसखण्डमेतत्' इति तप्तताम्रपिण्डं बलेन खादयन्ति ।
Page #173
--------------------------------------------------------------------------
________________
१६२
परे तु परदारेष्वतिकत्रांस्ताम्रमयतप्त सालभञ्जिकाम् 'तव प्रियाङ्गनेयम्' इति हठादतिगाढमालिङ्गयन्ति । बद्धमन्यवः केचिदन्ये पूर्वमन्यायादस्मत्तो वित्तमत्तेन धनमपहृतम् । अधुना त्वयास्माभिरुपहृतमूरीक्रियताम्' इत्यङ्गारीकृतमयः मिण्डममीषां करेष्वर्पयन्ति । अपरे तु 'निरपराधानां नः कारयामास कारागृहनिरोधं क्रूरयानया जिह्वया । जह्यतामधुना वा इत्यसत्यवादिचराणां नारकाणां हठादेनामुत्पाटयन्ति । दुरापं मानुष्यं मलीमसीकृतवतः सुरापानपरान्पापिनः पावकक्काथजलीकृतं लोहं पाययन्ति । भूतपूर्वभूतद्रुहः कांश्चिदूर्ध्वाधोमुखकण्टकशालिशाल्मलीद्रुममारोप्य हतप्राणिलोमगणनाप्रमाणमधोमुखमूर्ध्वमुखं च केचिदाकर्षयन्ति । एवमुरसि क्षुरिकानिखननम्, शिरसि दहनप्रज्वालनम् अङ्गुलीषु सूच्यारोपणम्, अङ्गच्छेदनमग्निकुण्डपातनमस्त्रधारावस्थापनमन्यादृशमप्यतिनृशंसकर्मपाकमेकादित्रयस्त्रिंशदुदधिप्रमितकालमसंख्यदुःखमनुभवताममीषामतिमात्रबुभु - क्षायां गन्धाघ्रायिजन्तुमरणादात्तगन्धगरलाहारः संपद्यते । पिपासायां प्रतिभासमानमतिमनोहरसलिलं सरः पुनरुष्णरसायते । छायार्थितायां बहुलच्छदतया प्रतिभाताः पादपाः पावकमयपत्राणि तद्गात्रेषु पातयन्ति । किं बहुना । परस्परव्यसनकृतस्ते महादुष्कृततया निष्प्रतिक्रियतया कास्महे क सुप्यामहे क नु तिष्ठामः क्क याम इति स्फीतानुशयाः सर्वदेशे सर्वकाले च सर्वप्रकारां कारणां यावदायुरनुभवन्ति । वयमपि पुरा महाराज बहिष्कृतसन्मार्गा बहुकृत्वस्तत्र कृतावताराः किं नान्वभूम । तथा महामायाजुषां तपोधनद्विषां धनैकलोलुपानां जघनाजीविनां च जीवानां जननस्थानतया निश्चिते तिरश्चि कर्मद्वयभाविनि मानवभवे च भयेन भावहनेन ताडनसहनेनाभीष्टवियोगेनानिष्टसंयोगेन भक्ष्यान्वेषणेन रक्षकाभावेन वृषस्यया विषसंपर्केण परस्परस्पर्धया गर्धया गर्भव्यथया क्षुधा तृषा शुचा रुषा रुजा च महाभाग भवदिदं द्वन्द्वमिदंतया न पार्यते
.:
गद्यचिन्तामणी
"
B
Page #174
--------------------------------------------------------------------------
________________
एकादशो लम्बः ।
"
विवरितुम् । विशेषतश्च नराणां परिभवपराराधनवचनपारुष्यमननकालुष्यभुजिष्यभावेर्ष्यादारिद्र्यादिभिरुदेकितोऽयमुपद्रवप्रकारः प्रत्यक्षनरकायते । सुकृतोदयेन सुखायमानानां सुराणामपि परनिरपेक्षणक्षणक्षण निरपायेन निसर्गतः सिद्धेऽपि कर्मबन्धतया दुष्परिहारपरिभवजननी पराधीनवृत्तिर्मर्त्यप्रवृत्तेरप्यधिकतरमरुंतुदा । प्रत्युत मरणभीत्या पूर्वममृताहरणादिभिरनुभूतमखिलमपि सौख्यं क्षण एवं नारकदुःखायते । ततः सर्वथाप्यसारे संसारे मन्देतरभाव एव द्वन्द्वस्य न खलु सर्वथाप्यभावः । तत्रातर्कितमरणमपगतशरणमशुचिसदनमनल्पव्यसनमनेकविधापायमपि मानवकायमपवर्गोपायतया राजेन्द्र मनोरथेनापि दुर्लभं तोयधिमध्यमग्नमणिमिव लब्ध्वापि मोहविप्रलब्धाः केचन मुग्धा दग्धुकामा इव भस्मने मणि कामं कामसौख्यमात्रफलं कल्पयन्ति । पार्थिवेन्द्र, पदार्थयाथात्म्यदृशस्तु भवादृश: पुनरीदृशपारवश्यपराचीनाः परस्पराविरोधेन साधितत्रिवर्गाः स्वयमपवर्गमपि साधु साधयेयुरिति धर्मदेशनानन्तरं जन्मान्तरप्रबन्धमपि जननाथनिर्बन्धेन विनीतबन्धुर्विवत्रे । “भूभृतां पुरोग, पुरा खलु भवान्धातकीपण्डललामायमानभूमितिलकाधिपतेः पवनवेगनाम्नो धात्रीपतेर्यशोधर इति पुत्रो भूत्वा कदाचन भूरिपरिकरेण नगरबहिरुद्याने सरस्तीरे विहरमाणस्तत्र रमणीयमालोक्य जालपादशिशुं लीलार्थे वर्धयितुमेनं परिजनमुखतः पाणौकृत्य निवर्तयामास । वृत्तान्तमेतमुपश्रुत्य श्रुतशाली भवन्तमामन्त्र्य भवत्पिता ' पातककृत्यमिदं चतुष्पदां पततां च स्वपदाद्वियोजनम् । यो जनस्तथा चेष्टते स कष्टायते । आत्मज धर्मो हि नामात्मनोऽन्यस्य च हिते प्रवृत्तिरहितनिवृत्तिश्च । तथा सति जतूनां छेदनरोधनताडनतापनादीनि पापनिमित्तानि त्वया परिहर्तव्यानि भवेयुः । एवमात्मप्रतिकूलानामन्यजनेऽप्यनाचरणं चरणं गणयित्वा कारुणिकेन त्वया स्वहिंसने स्वाहितवचः कथने स्वद्रव्यापहरणे स्वस्त्रीग्रहणे
.
१६३
Page #175
--------------------------------------------------------------------------
________________
१६४
· गद्य चिन्तामणी
च स्वस्य यथा व्यथा तथा परहिंसादिषु परेषामप्येषा स्यादिति मनीषी प्रवर्त्य तन्निवृत्तिरपि कर्तव्या । अङ्ग, पुनरर्थेष्वतिमात्रलोलुपता लोकद्वयेऽप्यात्मनः कृत्स्नव्यसननिदानतया निराकरणीया । लौकिकैरपि सप्तव्यसनानीति पापहेतुतया पापर्धिपरदार चौर्यसुराद्यूतपिशितगणिकांस्तु गणिताः । किमुत जैनैः । तस्मादिह गृहमेधिनामस्माकं जैनमार्गे क्रमादपवर्गसाधनतया कथितानि मधुमद्यमांस निवृत्तिविशिष्टतयाष्टौ मूलगुणा इति प्रपञ्चितानि पञ्चाणुत्रतानि व्रतत्वेन परिगृह्यापोह्य चापरिगृह्यकानामपि भावयितुमक्षममक्षपक्षपातं पात कित्वसंपादिवेशाभिनिवेशं च वत्स, धर्मवत्सलो भवन्भवपारावारपारप्रापणं परमेश्वरपदपङ्केरुहद्वन्द्वममन्दभक्तिर्भज त्वम्' इति भवते हितमुपादिशत् । क्षत्रियोत्तम, तातपादेन प्रणयेन प्रणीतं वचः प्रणामाञ्जलिचुम्बितोत्तमाङ्गो भवन्भवानुत्तमपुरुषतया वित्तोपलम्भी रिक्त इव प्रीयमाणः प्रतिगृह्णन्निगृह्णश्वात्मानम् 'अनात्मज्ञेन मया कृतमज्ञानोचितम्' इत्यपचितिमप्यतिमहतीं भगवतः स्वदुश्चितप्रायश्चित्ततया विधिना विदधानस्तावत् ‘अधुनास्माभिरनुभुज्यमानमपि भुक्तपूर्वमेव पूर्वभवानामानन्त्यात् । अनन्तमपि पुद्गलाभोगं भोगोपभोगत्वेन यदहमभुङ्खि । भोक्तुं भुक्तोज्झितमुच्छिष्टमिव विशिष्टेन केन विचीयताम्' इति विचारणप्रचीयमानवैराग्यः प्रव्रज्य तपोबलादबलाभिरमूभिः समममरसुखमनुभूय भूयोऽपि भूमौ भूपतिरभूत् । राजकुञ्जर, पुरा राजहंसशिशोः पञ्जरबन्धेन बन्धुविरहविधिना च लोकबन्धोर्भवतोऽपि बन्धुवियोगेन सह बन्धः किलासीत् " इति ।
एवमकारणबन्धोश्चारणेन्द्रात्कोकनबन्धोः कोकनदराशिरिव लब्धप्रबोधः स लब्धवर्णाग्रणीर्धरणीपतिः, पीयूषे स्थिते विषमग्न इव विषीदन्, साम्राज्यात्तपोराज्ये रज्यन्, नियोज्य इव नीचैरुपचरन् वाचंयमवृन्दारकं, सदारः सावरजः सवयस्यश्च सादरं सप्रणामं सविनयं सगुणस्तवं सया
Page #176
--------------------------------------------------------------------------
________________
एकादशो लम्बः।
चनं चापृच्छय राजपुरीमगच्छत् । तत्र चाहूतप्रविष्टान्पुरुहूतगुरुकृत्यानमात्यान्पुरौकसः पुरोधसं च पुरातननिजवंशजानामपि शमिनि वयसि योगेन तनुत्यजां प्राचुर्य प्रदर्शयन्प्रकृतिस्थान्कृत्वा पुनः कर्तव्यं च तैर्मन्त्रयित्वा नियन्त्रणापूर्वकं याचितेनापि नन्दाढ्येन विरक्तिदााद्विसृज्यमानं राज्यं कवचहराय वंश्यज्येष्ठाय श्रेष्ठगुणपात्राय पैतृकं नाम संदधते गन्धर्वदत्तानन्दनाय दत्तवान् । उक्तवांश्चास्मै 'वत्स , सदा धर्मवत्सलेन प्रजानुरागिणा प्रकृतिरञ्जिना स्थानप्रदायिना न्यायार्थगवेषिणा निरर्थकविधिद्वेषिणा स्मितपूर्वभाषिणा गुणवृद्धसेविना दुर्जनवर्जिना दूरभाविवितकिंणा हिताहितजातविवेकिना विहितविधायिना शक्यारम्भिणा शक्यफलकाशिणा कृतप्रत्यवेक्षिणा कृतस्थापनव्यसनिना गतानुशयद्रुहा प्रमादकृतानुलोपिना सचिववचःप्रश्राविणा पराकूतवेदिना परीक्षितपरिग्राहिणा परिभवासहिष्णुना शिक्षासहेन देहरक्षावहेन देशरक्षाकृता युक्तदण्डयोजिना रिपुमण्डलहृदयभिदा देशकालविदा लिङ्गावेद्यसंविदा यथार्थविदपसर्पण हृषीकपारवश्यमुषा गुरुभक्तिजुषा च त्वया भवितव्यम् । इति । ततश्च तदिदमवबुध्य शुचा दग्धरज्जुसोदरीभूताः कृशोदरीराहूय 'प्रियाः, किमेवमभिभूयध्वे शालीनतया । जगति जातेष्वजातमृतयः के नाम । केवलं यावदायुरवस्थितास्तदनु संस्थिताश्च ननु सर्वेऽपि तनुभृतः । सर्वथा नश्वरशरीरेण यद्यनश्वरसुखं सिध्येदिदमेव ननु बुद्धिमाद्भरद्धा साध्यम् । अहो मुग्धाः, पृथग्भावनिरसनाय बहुसिरापिनद्धकीकसे मार्दवसंपादनाय रुधिरार्दीकृते प्राचुर्यादन्तर्गतमलानामनन्तर्भावात्संततस्यन्दाय संकल्पितनवद्वारि मांसलालसवायसादिवयसामदर्शनाय पिशिताच्छादिचमणि कर्मशिल्पिकौशलेन बहिरुज्ज्वलतरे शरीरे ऽस्मिन्किमु यूयं सस्पृहाः । तर्हि गर्हणीयमिदं न स्यादस्यान्तरस्वरूपे बहिर्गतेऽपि प्रार्थिता वा यूयमेतत्प्रेक्षितुं यदि समर्थाः । ततः शरीरस्य विघटनात्प्रागेव घटध्वं यूय
Page #177
--------------------------------------------------------------------------
________________
१६६
गद्यचिन्तामणी
मपि तपसे' इति ताः संबोध्य गत्यभावात्तास्वपि तपसे समुद्यतासु जातानन्देन नन्दाढ्येन समं रथकड्यो ह्यमानमह्यार्ध्यराशिरनर्व्यशेवधिमातुमटन्नश्रीक इव सभाजयन्भगवतः पारमैश्वर्यश्रिया वर्धमानस्य श्री वर्धमानस्वा मिन: श्रीसभाभिमुखः प्रयातुं प्रचक्रमे ।
"
अथ जीवंधरमहाराजः श्रवणकटुना प्रयाणध्वनिना प्रयाणे विश्रुते, प्रसरदश्रुजलपूरेषु पौरेषु तं प्रणामंप्रणामं तदीयगुणं स्मारंस्मारं तस्य यथोचितं वाचंत्राचमनेकप्रयाणपथमनुप्रयाय तत्प्रयासतः प्रतिनिवृत्तेषु, सामात्यं सत्यंधरमहाराजमपि समुचितवार्तया निवर्त्य, निवृत्तिपरैः परः सहस्र तरैर्नरैः संगतः, पर्यश्रुमुखैः पारिषद्यपार्थिवैर्विहिताञ्जलिभिरभिहितालोकशब्दैरनुद्रुतो द्रुतं विद्रावितविश्वलोकोपद्रवं भद्रपरिणामाञ्चितभव्यलोक सेव्यमव्याजरमणीयं सकलसारार्थ तीर्थकरनामधेयमहाभागधेयफलं चिचित्रविविधगोपुरसालं शतमखशैलूषं सर्वसुलभपीयूषं रत्नरैरजतनिर्माणं द्विषड्योजनप्रमाणं द्वादशगणवेष्टितं शुनासीरचोदितधनदप्रतिष्ठितं प्रेक्षमाणमानस्तम्भिमानस्तम्भमभ्यर्थितार्थदाननिपुणनिधिकुम्भं सर्वजनजङ्घादनजलोपेतजलाशयं वनशोभाकृष्टदेवाशयं पापास्रवनिवारणं पुण्यैककारणं सर्वलोकशरणं समवसरणमासाद्य, मणिमयमिव महोमयमिवादित्यमयमिव खेचरमयमिव भूचरमयमिव शर्ममयमित्र धर्ममयमिव नृत्तमयमिव वाद्य- मयमित्र गेयमयमिव गण्यमानं स्थलसप्तकं यथोचितोपचारं कारंकारमुल्लोकतोषादा लोकमालोकमतिक्रम्य, हृदयादपि प्रागेव कृतप्रयाणाभ्यां चरणाभ्यामेव भन्देतरभक्तिर्गन्धकुटीबन्धुरं श्रीमन्दिरं मन्दरमिव सहस्ररोचिः सहस्त्रशः परीयन्, वरिवस्यापर्यवसाने गणस्थानगतः स्थित्वा भगवतः श्रीमुखपद्माभिमुखं भक्तिमय इव जायमानः, परायत्तो भवन्,' आत्तगन्धसौगन्धिकगन्धवहे गन्धकुटीमध्ये निर्गन्धताया उपदेष्टारमप्यष्टमहाप्रातिहार्यैरलंकृतपरिसरमपाकृताखिलदोषतया व्यपेतविकृतवेषं कृतकृत्यतया कृत्यन्तरा
Page #178
--------------------------------------------------------------------------
________________
एकादशो लम्बः ।
नपेक्षं प्रेक्षमाणदृशां प्रीतिकरमपि दिनकरव्यूहातिशायिदिव्यदेहकान्तिमन्दाकिनीप्रवाहं मन्दरस्योपरि मन्दरमिव मध्येसिंहासनं भासमानं भगवन्तं भासुरया गिरा गीर्वाणानामपि गीतिस्पृहां कुर्वन्मृष्टमसौ तुष्टाव
'स्वहस्तरेखासदृशं जगन्ति विश्वानि विद्वानपि वीर्यपूर्तिः । अश्रान्तमूर्तिर्भगवान्स वीरः पुष्णातु नः सर्वसमीहितानि ॥ यदाननेन्दोर्विबुधैकसेव्या दिव्यागमव्याजसुधास्रवन्ती । भव्यप्रवेकान्सुखसात्करोति पायादसौ वीरजिनेश्वरो नः ॥ अभानुभेद्यं तिमिरं नराणां संसारसंज्ञं सहसा निगृह्णन् ।
अस्माकमाविष्कृतमुक्तिवा श्रीवर्धमानः शिवमातनोतु ॥' इति । व्यजिज्ञपच्च विनयावनम्रमौलिः कुट्मलितकरपुट: ‘कौरवः काश्यपगोत्रजो जीवको नाम जिननायक, प्रसीद प्रव्रजामि' इति । लेभे च 'हितमेतत्', इति हितमितमधुरस्निग्धगम्भीरां दिव्यां गिरम् । एवं लब्धमहाप्रसादः प्रसभं प्रणम्य सविनयं तस्मानिवृत्य निगलमोचनाय चलन्निगलितचरण इव हर्षलस्तपोधनपरिषदि तस्थिवान् । इह तत्त्वसर्वस्वं सर्वज्ञोपज्ञमज्ञानां श्रोतृणां यथाश्रुतं विस्तरतो व्याकुर्वाणं सार्वइयसाम्राज्ययौवराज्यपदे तिष्ठन्तमिव गणनायकमुपतिष्ठमानः प्रकृष्टमनाः स्पष्टया वाचा यथेष्टं नुत्वा नत्वा श्रुत्ता च तत्त्वमनुजेन मनुजपतिभिश्च परैः सार्धं पराग्रंकेशाभरणवसनमाल्याङ्गरागादिकं रागद्वेषमोहादिकं च बाह्याभ्यन्तरमपोह्य गन्धं निर्गन्धार्हाणि महार्हफलमूल्यानि मूलोत्तरगुणरत्नानि बहुप्रयत्नरक्षणीयान्यषणमञ्चितमनोवाकायः पञ्चगुरुसाक्षिकं परिगृह्णानः परमसंयम दधौ । संनिदधे च तदन्तरे सान्द्रचन्द्रिकासब्रह्मजारिचारुनिजशरीरप्रभाविक्षेपेण वलक्षयन्नन्तरिक्षं तत्क्षणे यक्षेन्द्रः । विदधे च विविधां स्तुतिम् । तिरोदधे च कृतज्ञप्राग्रहरः कृतज्ञचरः स सारमेयभवरचितमहोपकारविवरणपरैः परःसहस्रगुणस्तवैः परावर्तमानोऽपि नावनावं नाम
Page #179
--------------------------------------------------------------------------
________________
द्यचिन्तामणी .
१६८
I
नामं च नूतनतपोधनम् । ततश्चायमाश्चर्यकरदुश्चरतपश्चरणचिताभिसंधिधरमहामुनिर्यमे नियमे स्वाध्याये ध्याने चावबद्धो यथाविधि यथाकालं यथादेशं यथायोग्यमप्रमत्तः प्रवर्तमानः, प्रमत्ततायां कदाचन मत्तेन्द्रियपारतन्त्र्येण परिशङ्कनीयायां परित्यजन्नाहारम्, अनशनेन शरीरावसादनानुकूल्यमनुष्ठानस्याशने तु स्यादिन्द्रियदर्प इति यथा प्रसर्पति मतिस्तथाकाशनं कल्पयन् शयनासनस्थानेषु नियतस्थानेषु सत्सु तत्र सङ्गस्य प्रसङ्गे जन्तुसंदोहोपद्रव संदेहे च भवन्ननियतदेशः, प्रायेण वृष्यमिति भाष्यमाणं भूयस्तथानुभूयमानमस्तोकरसं च वस्तु प्रस्तुतानुगुणं वर्जन्, निर्जनस्थाने कृते सत्यवस्थाने प्रकृतिस्थता स्यादिति विविच्य विविक्तशयनासनं विरचयन्, उदन्यादैन्यकृति नखंपचपांसुमति पथिकप्रयाणपरिपन्थिनि स्विन्नखिन्नदेहिनि मृगतृष्णिकाकरणनिष्णाते निदाघे सत्यमोघमेघोपरोधशीलं शिलोच्चयमुच्चैर्मनाः समारोहन्ननातपत्रमातपयोगमातन्वानः, अपवरकशरणाश्रयिशरीरिणि दन्तत्रपुःकम्पकारिणि धारासंपातबधिरितश्रवसि प्रावृडारम्भे बीताम्बरोऽपि विगतहृदयश्रमस्तरुमूलमाश्रयन्, अकाण्डपलितशङ्कावहमूर्धजली न हिम विन्दुपिशुनितवार्धके वर्षायमाणहिमानीजनितशैत्योद्रेकद्रवीभवदस्थिचर्मणि हेमन्तसमये निर्ममतामङ्गयष्टौ स्पष्टयन्निव केवलमाकाशमेवावकाशीकर्वन्, एवं दुर्वहबाह्यतपोभिरपवाह्य स्वातन्त्र्यमिन्द्रियाणामात्मस्वातन्त्र्ये निष्पन्ने निष्प्रत्यूहमनन्तरमभ्यन्तरतपांसि तरसा कुर्वन्, चतुर्विधाराधनपर्यायचतुरङ्गबलश्रेणीकः क्षपकश्रेणिमारुह्य प्रक्षेतुं कर्मरिपून्यथाक्रमं प्रक्रममाणः, स्वयं पाणौ कृतेन यत्नकृतावधानत्सरुकेणैकाप्रयातिशयधारेण वीर्यगुणप्रष्टपृष्टेन भावनापर्याय निशानजनैशित्येन निर्मलज्ञान निर्मान परमकारुण्यपयोगर्भेण बहलावरणनिचोलोत्खातेन मैत्रीस्नेहोपलितेन रत्नत्रयातिशयरूपेण परमशुक्लध्यानकौक्षेयकेण क्रमेण धर्मवैरिणः सर्वकर्मनिर्माणस्य दुर्मोचस्य मोहनीय कर्ममहाराजस्य मौलभूतत्वादजनस
-
Page #180
--------------------------------------------------------------------------
________________
एकादशो लम्बः ।
१६९
हायाः साहस्रीः सहसा नासीरतां प्राप्ताः सप्तप्रकृतीनिहत्य निरुपमनिजात्मस्वभावविघातिनि घातिकर्मचतुष्टयेऽपि समूलघातं हते, निहतकर्मवैरिणमेनं मुनिराजं पूजयितुं पुञ्जीभूतैरक्रमं शक्रचक्रधरधरणेन्द्रप्रमुखसुरासुरनरखचरैः करपीडाहमहार्हकल्याणविधौ विधीयमाने , ध्यानाग्निसाक्षिकमात्मसामर्थ्यादात्मनैवात्मने वितीर्णा पूर्णनिखिलगुणां प्रगुणरमणीयस्वभाववेषभूषां योषान्तरासंभवदनुभवपौनःपुन्येनाप्यखिन्नामन्योन्यमन्यूनानतिरिक्तरतिशालीनतया समानभर्तृशीलामतीव केवलां कैवल्यवधूं विधिवदुपयम्य सदाप्यनुपरतकाम्ययाप्यनघया तयैवाघातिचतुष्टयेऽपि धातिते प्रतिघरहितसुखहेतुसमृद्ध सिद्धिगृहोदरमासाद्यानवद्यमात्मसंवेद्यमात्मसंभवमात्मस्वभावमात्माह्लादनमनन्तमनन्तरायमनन्तकालस्थितिकमनन्तविज्ञान - वीर्यदृशात्मकमनन्तकर्मक्षयापेक्षमनन्तपूर्वजननानुपलब्धपूर्वं पुनरनुत्पाद्यमनुपरममनुपममनुत्कर्षमनपकर्षमनुक्षणसुलभं सुखमनुबोभूयते ।
इति श्रीमद्वादीभसिंहसूरिविरचिते गद्यचिन्तामणौ मुक्तिश्रीलम्भो नामैकादशो लम्वः ।
-:*:श्रीमद्वादीभसिंहेन गद्यचिन्तामणिः कृतः । स्थेयादोडयदेवेन चिरादास्थानभूषणः ॥ स्थेयादोडयदेवेन वादीभहरिणा कृतः । गद्यचिन्तामणिोंके चिन्तामणिरिवापरः ॥
-
-
-
समाप्तोऽयं ग्रन्थः ।।
-
बटटटटटटटटटी
-
Page #181
--------------------------------------------------------------------------
Page #182
--------------------------------------------------------------------------
________________
पृष्ठम् । पङ्किः । ३ रिछोली
४
""
११
39
१५
२६
३१
शोधनपत्रम् ।
३५
૪૭
शुद्धपाठः
१५ भरित
९ सुधाच्छुरण
१८ दानजलार्द्रीकृत करता
१० सरोजमात्मजवृद्धि
३ वासरालोक
१३ श्री क्षोदयोचित
७१
३ कपोलकोपराग
९६ २४ समवर्तिवाहन
१०७ ८ निभृतेन्द्रियवृत्ति
१८-१९ परमधार्मिकतां
३ कण्डूलदोर्दण्डमण्डलो
४ वमितविष इव
शुद्धपाठः
पृष्ठम् । पङ्किः । १२६ १४ समन्ताद्गुप्तं
१२९
"
५ कुसुमामोदामोदितदशदिशि
१६ मुपलब्धुमुपायोऽस्ति
१३२ १८ स्नपयन्तीं
१४८
२ लोचनयोर्भ्रान्तामिव
१५८
४ बलवदधीनम्
१६२
४ मयः पिण्डममीषां
१६४
२१ त्कोकनदबन्धोः
१६५
१६ शालीनतया
१६७
१७ श्रुत्वा
१६७
२१ सब्रह्मचारि
| १६८ १७ मेवावकाशीकुर्वन
Page #183
--------------------------------------------------------------------------
Page #184
--------------------------------------------------------------------------
________________ Sarasvativilasa Series 10. 2. IN THE PRESS AND WILL BE READY SHORTLY. VIRANARAYANACHARITA OF VAMANABHATTABANA BY T. S. KUPPUSWAMI SASTRI, Assistant, Government Upper Secondary Training School, Tanjore.