SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ गद्यचिन्तामण कोशमदिशत् । आदिशच्च तदपेक्षया तत्क्षणे तन्नगरजांश्च जातान्गन्धोकटगृह एव तत्सुतेन सह संवर्धयितुम् । तदेवं स्वापतेयेनैव स्वकीयेन सहितस्याह्नि सप्तमे सप्तसप्तिसमतेजसस्तनयस्य जीवंधर इति प्रथमसंकल्पितं नाम चकार चक्रवर्ती वणिजाम् । ततश्च क्रमेण तैश्च समानवयोभिर्वयस्यैरनुजेन सुनन्दानन्दनेन नन्दादयेन सममाढ्यपरिवृढस्य गन्धोत्कटस्य सद्मनि वर्त्मनि दिविषदामोषधीनाथ इव नक्षत्रैः पाकशासनवेश्मनि पारिजात इव कल्पद्रुमैः, उदन्वति कौस्तुभ इव मणिभिरनुवासरं वर्धमानलावण्यः पुण्येन प्रजानामवर्धत जीवंधरः । तेन च प्रतिदिवसमुदयमासादयता जलनिधिरिव चन्द्रेण कमलाकर इत्र दिवसकरेण नितरामैधिष्ट गन्धोत्कटः । " प्रमदोत्कटे गच्छति काले कलहंसपोत इव कमलात्कमलं दर्पणमिव करात्करं धात्रीणामुपसर्पन्, प्रसर्पता निर्हेतुकहसित चन्द्रालोकेन बन्धुजनहृदय कुमुदाकरमुल्लासयन्, उन्मीलितनिखिलभुवनव्यापिनि निजतेजसि किमनेनेति गृहप्रदीपान्निर्वापयितुमिव स्प्रष्टुमिच्छन्, अतुच्छरत्नशिलाघटितभवनभित्तिसंनिवेशदृश्यमानमात्मप्रतिबिम्बमद्वितीयताभिनिवेशेन नाशयितुमिव परिमृशन्, भाविभर्तृभावावबोधिन्या मेदिन्येव विहारधूलीव्याजेनालिङ्गितशरीरः, समीरतरलिताग्रैरलिकतटविलुलितैरलिनिचयमेचकैः कचपल्लवैर्बालभाव एव वल्लभत्वमभिलषन्त्याः श्रियः क्रीडाभिसरणमनोरथपूरणाय निशामित्र दिवसेऽपि निष्पादयन्, कलमधुरगम्भीरेण कर्णामृतवर्षिणा स्वरेण सरस्वतीप्रवेशमङ्गलशङ्खध्वनिमित्र सूत्रयन्, लोकनेत्रचकोरपीयमानलावण्यामृतनिः स्यन्दश्चन्द्र इव दिनेदिने दशितरूपातिशयः, शनैः शनैः शैशवमत्यक्रमीत् । आक्रमीच्च पञ्चमं वयः । ततः पुण्येऽहनि महनीयमुहूर्ते राजपुरीमध्यमध्यासितस्य निष्टप्ताष्टापदध टितेष्टकानिर्मितमूलभित्तेः, उत्तमप्रमाणोज्ज्वलस्य, निखिलावयवशिखर ३२ ·
SR No.022636
Book TitleGadya Chintamani
Original Sutra AuthorN/A
AuthorVadibhsinh, T K Kuppuswami Sastri, S Subhramhanya Sastri
PublisherMadras
Publication Year1902
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy