________________
प्रथमो लम्बः ।
ङ्गमिव रतिरचितचिरसमाराधनमुदितपुरमथनपुनःप्रतिपादितशरीरं कुमारमादरादाददे । सा च धात्रीवेषधारिणी देवता दयितमरणेन तनयवियोगेन च विजृम्भमाणदारुणशोकदहनदह्यमानहृदयामनभिमतजीवितां विजयां निजानुभावादाश्वास्य तामनभिनन्दितसनाभिगृहगमनामविदितकर्तव्यां विश्वसत्त्वविनम्भवितरणशौण्डदण्डकारण्यान्तःपातिनं पत्रलपारसरपादपनिर्वासितपथिकपरिश्रमं तापसाश्रममनैषीत् । सा च तत्र संतापकृशानुकृशतरा कृशोदरी करेणुरिव कलभेन धेनुरिव दम्येन श्रद्धेव धर्मेण श्रीरिव प्रश्रयेण प्रज्ञेव विवेकेन तनुजेन विप्रयुक्ता विगतशोभा सती विमुक्त भूषणा तापसवेषधारिणी करुणाभिरिव मूर्तिमतीभिर्मुनिपत्नीभिरुपलाल्यमाना मनसि जिनचरणसरोजमात्मवृद्धिं च ध्यायन्ती समुचितव्रतशीलपरित्राणपरायणा पाणितलविलूनाभिर्मरकतहरिताभिर्दूर्वामुष्टिभिर्मोदयन्ती नन्दनाभिवर्धनमनोरथविनोदनाय मुनिहोमधेनुवत्सानवात्सीत् । सा च साधितसमीहिता देवता तत्रैव तपोवने तामवस्थाप्य 'सुतावस्थामवगम्यागमिष्यामि' इत्यभिधाय तिरोऽधात् ।।
__ गन्धोत्कटश्च हर्षोत्कटेन मनसा समसमयप्रहतभेरीमृदङ्गमर्दलकाहलकांस्यतालशङ्खघोषणमुषितेतरशब्दसमुन्मेषम् , तोषपरवशवंश्यजनजन्यमानसमर्दविकीर्यमाणपिष्टातकपांसुधूसरीभवदहस्करालोकम् , उल्लोकवितीर्यमाणवित्तमुदितार्थिवर्गविधीयमानाशीर्वादम् , वचनावचनविवेकविधुरपरिजनप्रवर्त्यमानलीलालापकलकलसंकुलम् , समन्तादावय॑मानतैलधारापिच्छिलधरातलस्खलितलोकम् , प्रमोदमयमिव प्रदानमयमिव प्रसूनमयमिव सत्कारमयमिव संगीतमयमिव संमर्दमयमिव लास्यमयमिव लावण्यमयमिव लक्ष्मीमयमिव लक्ष्यमाणमात्मजजन्ममहोत्सवमन्वभूत् । अज्ञः . स तु काष्ठाङ्गारः स्वराज्यलाभजन्मना हर्षेण विहितोऽयमुत्सव इति मन्वानस्तस्मै सगौरवं कुरुकुलमहीपालपरम्परापरिपालितमखिलमपि राज