________________
३०
गद्यचिन्तामणो ।
भिनवधौतधाराधारालकिरणेन कृपाणेन दारयन्दारकमादाय मृतं सूनृतवचसां मुनिवराणां वचसि विश्वासादेकाकी समागच्छन्नतुच्छतेजाः प्रत्यदृश्यत कोऽपि वैश्यः । पश्यन्ती च तं चम्पकमाला ‘पश्य देवि, मदुक्तोऽयमागतः । विश्वस्यतामेवमन्यदपि मद्वचनम् । यावदयमेनमादाय कुमारमपसरति तावदन्तरितया त्वया स्थातव्यम्' इत्यभ्यधात् । तदुक्तमुत्तमाङ्गना सापि विश्वसन्ती निःश्वसन्ती च विषादेन विगतरक्षणाभ्युपायतया तथाभावितया च तस्य वस्तुनः प्रस्नुतस्तनी स्तन्यं पाययित्वा शाययित्वा च भूतले भूपलाञ्छनमहितं महार्हमङ्गुलीयकमस्य करे न्यस्य सप्रणामम् ‘रक्षन्तु जिनशासनदेवताः' इत्याचक्षाणा क्षोणीपतिपत्नी परिचारिकाप्रयत्नेन तनयपरिसरादपसरन्ती समीपतरवर्तिनः कस्यचन तरोर्मूले तिरोधाय तस्थौ । तावता समुपेत्य स वणिक्पतिरपगतासुमात्मसुतं प्रेतावासे परित्यज्य पार्थिवतनयमन्वेषमाणः क्षोणीतलशायिनम् , नैशान्धकारपटलभेदिना देहप्रभाप्रतानेन प्रदर्शयन्तमात्मानम् , राहुग्रहणभयेन धरण्यामुद्यन्तमिव मार्तण्डम् , मन्द्रतारेण रुदितरवेण मुखरयन्तमाशामुखम् , सहजप्रतापविस्फुलिङ्गशङ्काकरेण रत्नाङ्गुलीयकमरीचिंजालेन किसलयितकरम् , अविरलगर्भरागपाटलवपुषमङ्गारकमिव भूगर्भान्निर्गतम् , दुर्गत इव दुर्लभं धनं धरापतितनयमालोक्य हर्षकण्टकिताभ्यां कराभ्यामत्यादरमादत्त । आदीयमान एव स कुमारः क्षुतमकरोत् । अश्रावि च तत्क्षणमन्तरिक्ष 'जीव' इति जातजीवितदैर्घ्यशंसी शब्दः । तेन च दिव्यवचनेन नितरां प्रीतः स वैश्यः काश्यपीपतितनयस्य तदेव नाम संकल्पयन्ननल्पविभवमात्मभवनमासाद्य ' कथमनुपरतं सुतमुपरत इति कथितवती' इति कृतकरोषेण पत्नीं भर्सयमानो वत्समस्याः करे समार्पिपत् ।
सा च गन्धोत्कटभार्या सुनन्दा चन्द्रमसमिव हृदयानन्दनमानन्दबाष्पवारिमुचा चक्षुषा क्षालयन्तीव क्षितितलमिलितधूलीधूसरं तदङ्गमन