________________
प्रथमो लम्बः ।
२९
ऋकुहरविस्फुरदनलकणजर्जरिततमसि समीरपूरितविवरवाचाटनकरोटिकर्परकलिलभुवि डामरडाकिनीगणसंपातचकितपुरुषपरिहृतपरिसरे प
च्यमानशवपिशितविस्रगन्धकटुके कल्याणेतरचिताभस्मसंकटे प्रेतवा.टे जात, कथमपि जातः कथमनुपलक्षितरक्षाप्रकारे प्रणयिजनशून्ये
प्रतिभटनगरपरिसरपरेतवासे वसन्वर्धिष्यसे वा। इत्थमपगतकरुणमतिदारुणमाकस्मिकमप्रतिक्रियमननुभूतपूर्वमतिदुःसहं विधिविलसितं विलोकयन्त्या न मे प्राणाः प्रयान्ति । किमिह करोमि । किं वा व्याहरामि । यदि त्यजामि जीवितं जीवितेश्वरवचनलङ्घनजन्मा महान्दोषः' इत्येवं चान्यथा विलपन्ती विगतपरिकरां परितापविह्वलामबलाम् ‘अलमलमतिप्रलापेन' इति कथयन्ती कापि देवता सुतसुकृतपरिपाकप्रेरिता परिचारिकायाश्चम्पकमालाया वेषमास्थाय संन्यधात् । तिरोऽधाच्च तदर्शनेन जाताश्वासायास्तस्याः पुनस्तन्मुखाकर्णितभर्तृवियोगविनिश्चयेन चैतन्यम् । देवताशक्तिस्तु प्राणप्रयाणं न्यरौत्सीत् । अरोदीच्चातिदुःसहं लब्धचेतना । प्रालापीच्च बहुप्रकारम् । एवमवचनगोचरमापदमनुभवन्तीमात्मजपरिरक्षणपराङ्मुखीमात्मत्यागाभिमुखां च तामालोक्य चम्पकमाला 'किमेवं देवि, खिद्यसे । पश्य तव तनयस्य तरुणतामरससोदरयोश्चरणयोररुणरेखारूपाणि रथकलशपताकादीनि साम्राज्यचिह्नानि । इयं च बिभ्रती स्पष्टतरतामष्टमीचन्द्रसौन्दर्यहासिनि ललाटपट्टे मुक्तकण्ठमूर्णा वर्णयत्यर्णवाम्बराधिपत्यम् । अयमभिनवजलधरनिनदगम्भीररुदितध्वनिः स्वराज्यस्वीकारमङ्गलशङ्खघोषश्रियमभिव्यनक्ति । तद्भविष्यति भगीरथादीनपि महारथानधरयन्धरायाः पतिरयम् । परित्यज्यतां च परित्राणचिन्ता। चिन्तामणिकल्पः कोऽपि वणिजामधिपतिरधुनवागत्य तव तनयं ग्रहीष्यति वर्धयिष्यति च महाराजसुतोऽयमिति' इति चतुरतरवचोभिश्चिरपरिचयजनितविश्वासां महिषीमाश्वासयामास । तत्क्षण एव क्षणदान्धकारम