________________
गद्यचिन्तामण
तनुतर बिसलता भङ्गिनी संसारभङ्गीमुपहसतीव विकसति विकचदलनिचयधवलितदशदिशि कुमुदाकरे, कुमारोदयसमयसमुन्मेषिहर्षपरवश सुरसंतानिते संतान कुसुमप्रकर इव तारकानिकरे निरन्तरयत्यम्बरम् आविभवनिपतनयातपत्र इव पाकशासनादिशि दृश्यमाने यामिनीप्रणयिनि, प्राप्तवैजननमासा महिषी सा प्राणनाथविरहदुःखभारान्तरितप्रसववेदना तस्मिन्नेव पितृनिवासे बालचन्द्रमसमित्र पश्चिमाशा विपश्चिल्लोकनयनहारिणं हरिताश्वमिव पूर्वकाष्ठा काष्ठाङ्गारपर्यायतिमिरध्वंसिनं सूनुमसूत ।
"
सुतसुधासूतिदर्शनसमासादितजीवितवहनवात्सल्या तज्जन्ममहोत्सवसंभ्रमाभावपुनरुक्तविषादा पुत्रमङ्के निधाय प्रलपितुमारभत —– 'यस्य जन्मवार्तानिवेदनमुखरा हरिष्यन्ति पूर्णपात्रं धात्रीजना जननाथेभ्यः, यस्मिंश्च कृतावतारे काराध्यक्षकरत्रोटितशृङ्खला विशृङ्खलगतयश्चिरकालकतधरणीशयनमलिनितवपुषो बन्दीपुरुषाः पलायमाना इव कलिसैन्याः समन्ततो धावेयुः यस्मिंश्च जातवति जातपिष्टातकमुष्टिवर्षपिञ्जरित हरिन्मुखमुन्मुखकुब्जवामनहठाकृष्यमाणनरेन्द्राभरणं प्रणयभरप्रवृत्तवारयुवतिवर्गवल्गनरणितमणिभूषणनिनदभरितहरिदवकाशं निर्मर्यादमदपरवशपण्ययोषिदाश्लेषलज्जमानराजवल्लभं वर्धमानमानस परितोषपरस्परपरिरब्धपार्थिवभुजान्तरसंघट्टविघटितहारपतितमौक्तिकस्थपुटितास्थानमणिकुट्टिमतटं कुलितसौविदल्लनिरोधसंलापनिरङ्कशप्रविष्टाशेषजानपदजनितसंबाधं सादरदीयमानकनकमणिमैक्तिकोत्पीडमुद्घाटितकवाटरत्नकोशप्रविशदच कितलोक लुप्यमानवस्तुसार्थमार्थंगणगवेषणादेश निर्गतानेकशतप्रतीहारानीतवनीपकलोकमुल्लोकहर्षविहितमहार्ह जिनमहामहमहमहमिकाप्रविष्टविशिष्ट - जनप्रस्तूयमानस्त्रस्तिवादं सौवस्तिकविधीयमानमङ्गलाचारमाचारचतुरपुराणपुरंध्रीपरिषदभ्यर्च्यमानगृहदैवतं दैवज्ञगणगृह्यमाणलग्नगुणविशेषमशेषजनहर्षतुमुलरवसंकुलं राजकुलमवलोक्येत, स त्वमारसदशिवशिवाव
२८