SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ प्रथमो लम्बः। २७ जनितवैराग्यभरः, ' विषयासङ्गदोषोऽयं त्वयैव विषयीकृतः । सांप्रतं वा विषप्रख्ये मुञ्चात्मन्विषये स्पृहाम् ' ॥ इति भावयन् , परित्यक्तसकलपरिग्रहः, स्क्हृदयमणिपीठप्रतिष्ठापितजिनचरणसरोजः, काष्टाङ्गाराय काश्यपीमतिसृज्य त्रिदशसौख्यमनुभवितुममरलोकमारुरोह । आरूढवति भूभृति भुवनमनिमिषाणामुन्मिषद्विषादविषविधुराणां पौराणां पङ्किलयति बाष्पजलप्रवाहे महीम् , मुखरयति दश दिशां मुखानि निर्दयोरःस्थलताडनजन्मनि वे निरवधिकवेपथूनां पुरवधूनाम् , अवधूतकलत्रपुत्राद्यनुवर्तनेषु निवृत्तिसुखरसाविष्टेषु विशिष्टेषु, काष्ठाङ्गारस्य काठिन्यं कथयति मिथः सुजने जने , निरूपयति दुरन्ततां कन्दर्पपारतन्त्र्यस्य पदार्थपारमार्थ्यपरिज्ञानशालिनि विवेकिवर्गे, व्यप्रगतिर्गगनपथेन गतः स कृत्रिमशिखण्डी निजनगरोपकण्ठभाजि परेतवासे पार्थिवप्रेयसीमपातयत् । ___अत्रान्तरे वृत्तान्तमिममतिदारुणमम्बरमणिरनुसंधातुमक्षममाण इव ममज्ज मध्येसागरम् । साक्षात्कृतनरपतिमरणाया वरुणदिशः शोकानल . इव जज्वाल संध्यारागः । न लोकयतु लोकः प्रेयसी पृथिवीपतेरितीव कालः काण्डपटिकामिव घटयंति स्म दिङ्मुखेषु निरन्तरमन्धकारम् । अथ नरपतिसमरधरणीसमुद्गतपरागपटलपरिष्वङ्गपांसुलमङ्गमिव क्षालयितुमपरसागरसलिलमवतीर्णे किरणमालिनि, महीपत्यनुमरणमण्डनसंभृतरक्तचन्दनाङ्गराग इव वसुंधरायाः क्षरितजननयनाश्रुनिझरक्षालनादिव क्षयमुपेयुषि ज्योतिषि सांध्ये , सार्वभौमविरहविषादवेगविधूयमानदिशावधूकेशकलाप इव मेचके कवचयति भुवनमभिनवे तमसि, नरेशविनाशशोकादिव संचरत्सायंतनसमीरनिभेन निःश्वसन्त्यां निशायाम् ,
SR No.022636
Book TitleGadya Chintamani
Original Sutra AuthorN/A
AuthorVadibhsinh, T K Kuppuswami Sastri, S Subhramhanya Sastri
PublisherMadras
Publication Year1902
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy