________________
२६
गद्यचिन्तामणौ
चक्षुषः प्रभापटलेन परितः प्रसर्पता प्रतिभटपलायनमनोरथरोधिनमनलप्राकारमिव प्रवर्तयन् , प्रस्विन्नदेहप्रतिबिम्बिताभिर्भवनभित्तिचित्रयुवतिभिः ‘अतिसाहसं मा कृथाः' इति गृहदेवताभिरिव प्रणयपर्याकुलाभिः परिरभ्यमाणः , क्षुद्रनरेन्द्राक्रमणकोपवर्मितविष इव विषधरस्तत्क्षणमन्यादृश इवादृश्यत काश्यपीपतिः । आदिशच्च प्रतीहारम् 'आनय त्वरितमहितचमूसमूहनिवारणान्वारणानप्रतिहतजवविराजिनो वाजिनोऽसमसमरसाहसलम्पटान्भटान्भग्नरिपुनृपतिमनोरथान्रथानपिः' इति । अथ निजभुजदम्भोलिविस्रम्भादनपेक्षितसहायः सरभसमुत्तिष्ठन्नर्धासनभ्र - ष्टामुत्कम्पमानकायां समुच्छिन्नमूलामुर्वीतलपतितामिव लतामुत्क्रान्त - जीवितामिव निःस्पन्दकरणग्रामां धरणीतलशायिनी शातोदरीमालोक्य बहुविधनिदर्शनसहितवस्तुस्वभावोपन्यासप्रयासैरप्यनासादितस्वा - स्थ्याम् ‘अस्थाने केयं कातरता । क्षत्रिये, मद्विरहकातरापि कुरुकुल. मूलकन्दगर्भरक्षणाय क्षणादितो गन्तुमर्हसि । शपामि जिनपादपङ्केरुहस्पर्शेन' इत्यभिदधान एव विधाय तां मयूरयन्त्रे नरेन्द्रः स्वयमेव तद्भमयांचकार । चकोरेक्षणामादाय क्षणेन गगनमुड्डीने यन्त्रशिखण्डिनि खण्डयितुं प्रतिभटान्करकलितकरवालः काश्यपीपतिः कण्ठीरव इव गिरिकन्दरान्मन्दिरान्निरगात् । निर्गते च तस्मिन्विस्मयनीयविक्रमे विघूर्णितकृपाणविराजिनि राजनि मृगराजदर्शन इव करिकलभयूथमन्धकारमिव च दिनकृदुदये तदनीकमनेकसंख्यमतिदूरं पलायत । पलायमानं बलं बलात्प्रतिनिवर्त्य स्वयमेव प्रार्थयमाने पार्थिवं कार्तघ्न्यकाष्ठां गते काष्ठाङ्गारे राजा तु दारितमत्तकारकुम्भकूटः, पाटितरथकड्यः , खण्डितसुभटभुजदण्डसंहतिः, संहृततुरगचमूसमूहः, ससंभ्रमं समरशिरसि विहरन् , विविधकरिरथतुरगखण्डनरभसकुण्ठितमण्डलायः, किमनेन कृपाविकलजनसमुचितेन सकलप्राणिमारणविहरणरसेनेति