________________
प्रथमो लम्बः ।
तेन प्राकारेणेव परिवृतम्, शेखर कुसुमपरिमलतरलमधुकरकलापपुनरुदीरितकुन्तलकालिमकवचितमूर्धानम्, उभयसविधगतवारयुवतिकरतलविधुतधवलचमरवालपवननर्तितचेलाञ्चलम् अन्तिकमणिदर्पणप्रतिबिम्बनिभेनानङ्गसुखानुभवाय नालमेकेनेति देहान्तरमिव धारयन्तम्, अनवरतताम्बूल सेवाद्विगुणितेन स्फुटितबन्धुजीवलोहितिम सुच्छायेन दशनच्छदालोकेन प्रभूततया मनस्यमान्तं रागसंभारमिव बहिरुद्वमन्तम्, निजमुखलक्ष्मीदिदृक्षोपनतेन क्षीरजलराशिनेव स्निग्धधवलगम्भीरेण कटाक्षेण विकसितपुण्डरीकदलनिवहधवलितमिव तं प्रदेश दर्शयन्तम्, नृत्तरङ्गमिव शृङ्गारनटस्य निवासप्रासादमिव विलासस्य साम्राज्यमिव सौभाग्यस्य संकल्पसिद्धिक्षेत्रमिव कंदर्पस्य सारमिव संसारस्य दृश्यमानं मानवेश्वरं विश्वंभरातलविनमितमौलिरभिप्रणम्य प्रतीहारः सप्रश्रयमब्रवीत्' देव कुरुकुलकमलमार्तण्ड महीपालबलपयोधिमथनमन्दरायमाणदोर्दण्ड दुःसहशौर्यबाधितपरचक्र विक्रमाक्रान्तसकलदिगन्त, समन्तादागतेन सरभसचलिततुरगखरखुशिखरदारितधरापरागपां सुलनभोमण्डलेन मण्डलाग्रमरीचितिमिरितहरिदन्तरालेन सिन्धुरवरकरटवहदविरलमद जलजम्बालितजगतीतलेन गगननीलोत्पलविपिनविडम्बिकुन्तदन्तुरेण वीरलक्ष्मीभ्रू
२५
विरचितभ्रुकुटिकुटिलकार्मुकतरङ्गितेन प्रलयवेलाविशृङ्खलजलधिजलपूरभयंकरेण निखिलजगदाक्रमणचतुरेण चतुरङ्गबलेन प्रत्यवतिष्ठते काष्ठाङ्गार:' इति ।
अथ तेनाश्रुतपूर्वेण वचनेन ' कथं कथं कथय कथय ' इति पृच्छन्प्रतीहारं झटिति घटितकोपग्रन्थिरन्धीभवन् पर्यङ्कपरिसरनिहितमहितकुलप्रलयधूमकेतुकरालं करवालं करे कुर्वन्, अखर्वगर्वसमुत्क्षिप्तदक्षिणचरणाधिष्ठितवामोरुकाण्डः चण्डराषाट्टहास विसरदमलदशनकिरणधवलितवदनशाशिमण्डलः, स्फुटितगुञ्जाफल पुञ्जपिञ्जरेण क्रोधरागरूषितेन
3