________________
सप्तमो लम्बः ।
तदनु च दृढ मित्रमहाराजोऽपि सुमित्र निवेदित कुमारचापाचार्यकश्रवणेन प्रगुणितसंभ्रमः साकूतमेनं समालोक्य ' केवलत्वेऽप्यकेवलपुरुतामस्य वरवर्णं वर्णयति' इत्यन्तश्चिन्तयंस्तत्प्रकोष्ठप्रतिष्ठितज्याघातरेखाद्वयसौष्ठवातिशयेन काष्ठागतशंभरश्चापभृतामयं भूभृदिति संभावयन् ‘असंभविभवदागमनस्य फलमनुभवन्तु मम पुत्राः । सुमित्राद्यन्तेवासिभिः समं तद्गमयन्नहानि कानिचिदबन्ध्यामिमां तनोतु वसुंधरां भवान्' इति सात्यंधरिमतुच्छमुपच्छन्दयामास । अथैत्रमत्युल्बणधरणीपतिनिर्बन्धेन बन्धुप्रियतया कृतावस्थितेर्गन्धर्वदत्तापतेः कतिषु च दिनेषु हेलया तत्र विलयं गतेषु, सुमित्रादिराजपुत्रेष्वप्यस्त्र कोविदात्कुमारादधिगतशस्त्रेतरसमस्त शास्त्रे षु जातेषु, कदाचन धात्रीपतिः पुत्राणां करिरथतुरगायुधविषयविविधपाटवेष्वप्रतिभटतां तत्तत्कर्मण्यलंकर्मीणैरत्यादृतामत्याहितस्तिमितचक्षुःप्रेक्ष्यमाणः प्रीतिप्राग्भारपारंगत ः 'कुमार, भवदनुग्रहादद्याहमस्मि पुत्रवान् । पुत्री
पाचार्यस्य भार्येति नियमिता नैमित्तिकैर्गात्रबद्धेन क्षात्रधर्मेणेव भवता पतिमती भूयात्' इति भूयो भूयोऽपि प्रार्थयामास । पार्थिवकुमारोऽपि तदीयार्थितया तदर्थस्य तथाभवितव्यतया दिव्ये मुहूर्ते पूर्तिमदानन्दभृतमहीभृता स्वविभवस्य स्ववैभवस्य सुतानुरागस्याप्यनुगुणसंविधापुरःसरं विधिवदतिसृष्टां तदङ्गयष्टिसंस्पर्शन पुनरुक्तचकासदविरलकनकाभरणोज्ज्वलां कनकमालामनघगुणभूषणो द्विजहूयमानपवनसखसाक्षिकं परिणिनाय ।
इति श्रीमद्वादीभसिंह सूरिविरचिते गद्यचिन्तामणी कनकमालालम्भो नाम सप्तमो लम्बः ।
:(*):·
------
११३