________________
११४
गद्यचिन्तामो
अष्टमो लम्बः ।
--*अथ तामव्याजरमणीयां गरुडवेगसुतारमणः पाणौकृत्य पाणिगृहीती गृहीतातिमात्रब्रीडार्गलां निरर्गलमवगाहितुमप्रगल्भः स्वैरावगाहनविधायिविविधोपक्रमविशृङ्खलीकृतमदनमदान्धगन्धसिन्धुरत्रोटितत्रपापरि - घामप्रतीपः समवगाह्य तस्याः प्रणयकलहे दास्येन प्रकृतिस्थितावुपास्यभावेन च सुचिरमरीरमत् ।
एवमधिकाभिरामां रामामविरामं रमयतस्तस्य साहाय्यं संपादयितुमिव गाढायां शरदि, सात्यंधराविव सत्कविभिः सातिशयप्रकाशे सति चन्द्रमसि , संमार्जति दृढसम्यक्त्व इव जडसंपर्कसमागतसन्मार्गकलङ्कपकं पतङ्गे, कवचहरदारक इव निरस्तनीरदावस्थे सति तारकावर्त्मनि , सुजनहृदय इव निर्मलीभवति ह्रदनिवहे , नवयौवनसत्रीडयोषिज्जघनानीव पुलिनानि शनैःशनैः प्रदर्शयन्तीषु नदीषु, अराजवति राष्ट्र इव मधुपपेटकाक्रान्ते कुसुमितविटपिनि, गलितयोग्यकाले शैलूष इव नर्तनं त्यजति नर्तनप्रिये, मानिनीजनमञ्जुवाचमुपलब्धुं योग्यां कुर्वत्स्विव निकामं कूजत्सु कोकिलेषु, भास्वत्सूर्यकिरणगुरुपादभक्त्या भव्यमनसीव स्फारविकासिनि पद्मसरसि , शरदन्वितकुसुमशरे मरुदुपेतमरुत्सख इव दुरुत्सहप्रतापिनि, नातिशीतलोष्णैः सुराजचेष्टितैरिवाभीष्टैः कशिपुभिर्निकाम कामदायिकामदेवसदातनसमाराधनलम्पटयोस्तयोर्दम्पत्योरनुक्षणं साभोगतां भजति संभोगजाते, जातु स्वप्नावलोकितस्वामिवियोगशोकपावकार्चिश्छटारूढगाढमूर्छाक्रान्तां कान्ताम् ‘भीरु , किमस्थाने कातर्येण । को नाम कृशोदरि, त्वां प्रतार्य प्रयातुं प्रक्रमते । मुग्धे, किमेवं मां दग्धहृदयमनि