SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ द्वितीयो लम्बः " प्रकीर्णकैरिव वीज्यमानः, खरतररथतुरगखुरपुटखननसमुद्भवदविरलधवलधूलीमण्डलेन चण्डांशोरंशुमभिभावकेन भाविपतिवत्सलधात्री समर्पितधवलातपत्रेणेव समेतः, प्रथमतरोदयसंरम्भसाफल्यपल्लवितरागैरनारतमजहद्वृत्तिभिरंशैरित्र मित्रैर्मित्र इवांशुभिर्मुषितदोषास्पदराजदीप्तिः, निष्प्रत्यूहसमीहितसिद्धेरध्वानमन्तरालबहुलं लङ्कयन्नप्यविदितपरिश्रमः क्रमेण पराक्रमकराकृष्ट्याभ्युद्गच्छतां पुरौकसामतुच्छरभसाङ्घिसंघट्टकैः काश्यपी - पृष्ठे काष्ठाङ्गारं च कम्पयन्कटकनिकटमाटीकते स्म । पुनः पराक्रमपुनरुक्तप्रेक्षणीयं पुराभ्यन्तरमाश्रयन्तं वीरश्रियाभिनवपरमादरादा लोकयितुमागतम्, आगमनपारवश्येन त्रस्त केशहस्तविन्यस्तवामहस्तम्, हस्ताङ्गुलिनखमयूख पुनरुदीरितचिकुरपल्लवापीडम्, शिथिलित नीवीप्रदेश निहितापरपाणिपल्लवं पल्लवितरागादागतं कामिजनहृदयमित्र करेण गृह्णत्, ईषदवगलितकुचांशुकं कुचकुम्भकुम्भिनो रतिरणसंरम्भाय विघटयदिव मुखपटम् विद्रावितविद्रुमच्छविना दन्तच्छदरागेण हृदयान्तर्गतरागप्राग्भारमिव प्रदर्शयत्, धवलितपुरोभागं सौभाग्यचन्द्रचन्द्रिकोदयमिव मन्दहसितममन्दादरादाचारलाजनिकरमित्र विकिरत्, समारोपितचारुतरथूलताचापं लक्ष्यभेददक्ष तीक्ष्णकटाक्षशरमोक्ष चतुरमबलारूपमनङ्गबलमसंख्यं प्रतिप्रदेशं प्रत्यदृश्यत । तदपि दर्शनप्रसादेन परितोषयन्नु लोकहर्षलोकलोचनमनोभिरनुगम्यमानः परार्ध्यजन्मायं परिकल्पितानल्पमङ्गलार्हपरिबर्हविराजितं निजभवनमासाद्य सद्यः समुपसृतपद्ममुखप्रमुखदत्तपाणिः पाणौ कुर्वन्निव प्रभावश्रियं शिलोच्चयादिव केसरिकिशोरः स्यन्दनादवरुरोह | प्रणनाम च सविनयं पितरं मातरं च प्रेमसंभारेण । संभावयामास संमुखमागतं गाढालिङ्गितेन प्रौढवचसा मुग्धहसितेन स्निग्धनिरीक्षणेन शिरःकम्पनेन करप्रसारेण च यथाप्रधानं प्रथमानहृदयबन्धं बन्धुवर्गम् । पुनर्निसर्गचतुरप्रणामाञ्जलिं पुरः पुञ्जितं नियुञ्जानः स्यन्दनयुग्यांश्च विश्र - ५.३ "
SR No.022636
Book TitleGadya Chintamani
Original Sutra AuthorN/A
AuthorVadibhsinh, T K Kuppuswami Sastri, S Subhramhanya Sastri
PublisherMadras
Publication Year1902
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy