SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ गद्यचिन्तामणौ माय प्रश्रयशालि परिजनं विशन्वेश्मोदरमादरकातर्यादुदश्रुमख्या प्रस्नविन्या जनन्या निर्तितनीराजनविधिरारुरोह हृच्छल्यविधानेन विद्विषां प्रेमबन्धेन बन्धूनां लावण्यातिशयेन पण्यनारीणां गुणगरिम्णा गुणलुब्धानां हृदयं सविलासनिवासेनासनस्य मध्यं च । ___ अथ प्रथितयशसा तेजसां निधिना पुत्रेण पवित्रतपसां योग्यादहं कुतो भाग्यात्पुत्रवानस्मीति विस्मयस्नेहमुखरे पितार, वितर्कयति कथमुदर्कः स्यान्निसर्गवीरकुमारवीर्यस्येति विचारनिष्ठे काष्ठाङ्गारे , प्रतिदिशं प्रतिदेशं प्रत्यगारं च कुरुकुलशिखामणेः कुवलयकुटीरसंकटनिवासनिबिडिताभोगां भोगावलीमपलालयति बाले जरति यूनि च जने , रामभद्रमिव भ्रात्रा प्रलयसमयमिव मित्रमण्डलेन महीध्रमिव वंशजातेन चन्द्रमसमिव सद्भिः सकलगुणनिकरपरिपूरितैर्वयस्यैः परिवृतं कुमारमभिवन्द्य नन्दगोपः स्वसंतानस्य पुरातनतां राजकुलकुलभृत्यतां च पुरातनषण्मुखमुखविशिष्टानामविशिष्टजातिजाताङ्गनासंगमसंकथां च कथयन् ‘भवद्विहितनिर्हेतुकोपकारस्य प्रत्युपकारमपश्यता मया दिश्यमानां परिणयतु मे कन्याम् । न मन्येतान्यत्' इति सदैन्यमयाचत । स च कुरुवंशनभोंशुमाली नीचकुलललनासंपर्कमविवेकिवर्गसुलभमाकलयन् ' अलमत्यर्थमर्थितया । माम, यथाभिमतम् ' इति स्वमतानुरूपमुदीरयामास । स च तावता तुष्टो गोपप्रष्ठस्तद्वचनमाकर्ण्य सुखार्णवे निमज्जस्तर्णककुलचर्विताग्रदूर्वागुच्छशबलितोपशल्यं निःशल्यः प्रविश्य गृहं गृहिण्या अप्यनया वार्तया प्रवर्तयञ्श्रवणोत्सवं दुहितृकल्याणमहोत्सवे महान्तमकुरुत संरम्भम् । अथ प्रथमानवीयधनकुमारसंबन्धेन गोधनोपलम्भादपि शंभरसंभ्रमैर्गोसंख्यानां मुख्यस्य गुणैः प्रवृद्धे द्विगुणितीत्सुक्यजनविहितविवाहोत्सवकर्मणि प वितरागवल्लुवरामाकरपल्लवसर्पकपुनरुक्तरागरक्तमृदुपलिप्तभित्तौ रम्भास्तम्भशुम्भितद्वारि समर्दविघटितघटघटाप्रवहदूधस्याज्यदधिकर्दीमतभुवि
SR No.022636
Book TitleGadya Chintamani
Original Sutra AuthorN/A
AuthorVadibhsinh, T K Kuppuswami Sastri, S Subhramhanya Sastri
PublisherMadras
Publication Year1902
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy