SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ द्वितीयो लम्बः । हरितगोमयोपलिप्तस्थलनिष्पादितदम्यशष्पाङ्करतृषि कोलाहलक्षुभितवत्सवात्सल्याकुलकुण्डोनीकुण्डलितविषाणकोटिविघटितजनविमर्दै गोसंख्यमुख्यावासे स्नातानुलिप्तामलंकृतविस्मितामालोक्य विस्मयस्मेरमुखाभिर्वल्लववल्लभाभिः 'अस्या वल्लभ एनां केन सुकृतेन क्षीरमधुरामपनीतनवनीतमार्दवाडम्बरां तदात्वद्रुतसर्पिःसंकाशकायकान्ति मुकुलितयूथिकामुकुलधवलिमसौकुमार्यदन्तपङ्क्षि निर्वासितवायसकालिमकचपल्लवामुद्भिद्यमानवृषककुदोपहासिकुचयुगलामनुभोक्तुं लब्धवान् ' इति व्यक्तमुपलाल्यमानां गोदावरीदुहितरं गोविन्दामानीय नन्दगोपः कुमारकरकमले वारि समावर्जयत् । कुमारोऽपि ' अमुं मामेव गात्रमात्रभिन्नं मन्यस्व' इति वदन् ‘पद्ममुखाय' इति पयोधारां पर्यग्रहीत् । पद्ममुखस्तदनु गोविन्दां प्रदक्षिणभ्रमणपिशुनितशुभोदर्कार्चिषः सप्तार्चिषः संनिधौ तदीयपाणिपल्लवस्पर्शपल्लवितरागस्तां पर्यणैषीत् ॥ इति श्रीमद्वादीभसिंहसूरिविरचिते गद्यचिन्तामणौ गोविन्दालम्भो नाम द्वितीयो लम्बः ।
SR No.022636
Book TitleGadya Chintamani
Original Sutra AuthorN/A
AuthorVadibhsinh, T K Kuppuswami Sastri, S Subhramhanya Sastri
PublisherMadras
Publication Year1902
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy