________________
गद्यचिन्तामो
दना पितरौ बन्धुजनं च प्रणम्य परिष्वज्यापृच्छय तुच्छेतरशुकशारिकाचामरतालवृन्तकन्दुकाम्बरताम्बूलपरिवादिनीप्रमुखपरिबर्हपाणिभिस्तरुणीभिर्बर्हिणीभिरिव पयोदपतिरभिसंवृता निभृतेतरगगनेचरपृतनाभिरक्षिता क्षणादन्तरिक्षण विमानमारुह्य धरदर्शितपोतदर्शनोत्तालहर्षचित्तेन श्रीदत्तेन समं गत्वा राजपुरी शिश्रिये । ____ ततः श्रीदत्तोऽपि गन्धर्वदत्तायाः समागमननिमित्तावबोधेन दुर्ललितस्वान्तं विधाय बन्धुसमष्टिं काष्ठाङ्गारमप्युपहारपुरःसरमनुज्ञापयन्ननुगुणलग्ने प्रक्रम्य यथाक्रमं कर्तुं भर्मरत्नरजतजातनिर्माणं निन्दितनिलिम्पग्रामणीसभाशोभं भासुरानन्तरत्नस्तम्भजृम्भमाणप्रभाप्रतानवितानीकृतयामिनीप्रसङ्गं प्रान्तलम्बितबहुगुणहरितकम्बलयवनिकावरणं भ्रमराचान्तोद्वान्तमधुरसविसरवर्षिकुसुमदामोत्करमनोहरं रणितमणिकिङ्किणीमालिकालिङ्गितविकटविद्रुमयष्टिप्रतिष्टितपवनतरलधवलध्वजपटपङ्गिपरिहसितसुरसरित्तरङ्गजालं जालविवरविसर्पिमन्दसमीरसीमन्तायमानकालागुरुधूपपरिमलाञ्चितवियदन्तरालमचिन्त्याभोगरूपसंस्थानं नभस्ता समस्तलोकावगाहनावकाशदानदक्षम् , सागरमिव नैकरत्नसंपन्नम् ,बक्षिनिमिषसदनमिवानिमेषलोचनताविधानविदग्धम् , चन्द्रशेखरमिव शेखरीकृतशीतांशुमण्डलम् , विष्णुमिव विष्णुपदव्यापिनम् , शतानन्दमिव सदालोकसंपादिनम् , जिनेश्वरमिव जगत्त्रयश्लाघनीयम् , महनीयनिर्माणातिशयविशेषविस्मापितनिर्मातृहृदयं , कमपि वीणावादनमण्डपं निर्मापयामास । ततश्चायमाज्ञया राज्ञः समाहूय चण्डालम् 'चतुरुदधिमेखलायां मेदिन्यामनन्यसाधारणेन वीणावादननैपुणेन पल्लवितपरिवादिनीपाण्डित्यगी गन्धवदत्तां मम दुहितरमधरयिष्यति यस्त्रैवर्णिकेषु तस्येयं दारा इति नगरे पटुतरं पटहमाताड्यताम्' इति तत्कर्मणि दक्षमादिक्षत् ।
अनन्तरमन्त्यजेन तदाज्ञावतसितशिरसा तथैव ताडिते पटहे