________________
तृतीयो लम्बः ।
तत्क्षणेन क्षणदापगमविसृमरमिहिरमरीचिसहचरसहजतेजःपरिवृतहरितः समसमयचलदलघुबलभरविनमदवनिभरणखिन्नसंपन्नपन्नगपतिमौलयः समदमदावलकपोलतलगलदविरलमदजलजम्बालितभुवः प्रभूतजवभरदुर्निवारवानायुजवल्गनचटुलखुरशिखरसुदूरोत्थापितरेणुनिकरनिवारितवासरमणिमरीचयः काचमेचककरवालकरालमयूखपटलघटिताकालरजनीरीतयः शतमखशातशतकोटिशकलनशङ्कापलायमानसानुमत्सब्रह्मचारिशताङ्गशतशारितवीथयः स्फीतपरिकर्मपरिवर्धितकान्तयः काशीपतिकाश्मीरकर्णाटकालिङ्गकाम्भोजचोलकेरलमालवमगधपाण्ड्यपारसीकपुरोगाः पुरंदरसदृशभूतयो भूभुजः समेत्य समन्तादासीननानाजनपदजनताजनितसंमर्दै सर्वतोलम्बमानमुक्तासरसहस्रमण्डितं स्वयंवरमणिमण्डपिकामध्यमध्यरुक्षन्। तत्र च स्थानस्थाननिवेशितानि विडम्बितहाटकगिरिकटकानि निकटघटितनैकरत्नमरीचिजालपुनरभिहितोत्तरच्छदानि द्विगुणितस्तबरकोपधानाधिष्ठितपृष्ठभागानि निरतिशयवितरणकौशलशिक्षाकृते कृतमहीतलावतरणेनेव पश्चादवस्थितेन पारिजातपादपेन पल्लवितकान्तीनि दिगन्ततटप्रतिहतिपरिक्षुभ्यदात्मीययशःक्षीरोदपूरोदरोत्पतितफेनपटलपाण्डरेण समुत्तम्भितमाणिक्यमयदण्डधारितेन रोहणगिरिशिखरावतरदमृतकरमित्रेण धवलातपत्रेण तिलकितोपरिभागानि पराक्रमपराजयप्रणतैरिव पञ्चाननैरञ्चितपादानि सिंहासनान्यधिवसन्तः, समन्तादाधूयमानैरनिलचलदसितेतरकमलदलनिचयसुच्छायैश्चामरकलापैः कबलितोज्झितहरिन्मुखाः , परस्परसंघटनजन्मना भूषणमणिशिञ्जितेन तदङ्गसङ्गकौतुकानुबन्धेन गन्धर्वदत्तामाह्वयाद्भिरिवावयवैराविष्कृतशोभाः , संभावनासमभ्यधिकैर्गीयमाननिजभुजविजयभोगावलीवाचालितवदनैर्वन्दिभिरभिनन्दितश्रियः , श्रीदत्ततनयागमनं प्रतीक्षमाणाः क्षोणीपतयः क्षणमासांचक्रिरे ।
तावता च तमःस्तोममेचककचभारखचितमणीवकनिचयनिर्भर