SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ गद्यचिन्तामणौ परिमलनिपतितेन निखिलयुवतिसाम्राज्यचिह्नन नीलातपत्रेणेव षट्पदपटलेन परिवृताम्बरा , त्र्यम्बकनयनदहनदग्धमदनपुनर्जीवनदक्षान्कटाक्षानक्षयरागजलधिजठरपरिप्लवमानपार्थिवहृदयमत्स्यजिघृक्षया दिशिदिशि नीलकुवलयदलदामनिर्मितां वागुरामिव प्रसारयन्ती, प्रियसखीसलापसमयनिर्गताभिरमलदशनकिरणकन्दलीभिश्चन्द्रातपमिव दिवि विषमशरसाहायकाय संपादयन्ती , वदनकमलविकासभङ्गभयविदारितेन तरुणतरणिकिरणनिकरेणेव कुण्ठितकुसुम्भकुसुमसौकुमार्यस्य दशनच्छदमणेररुणेनांशुजालेन रागजलेनेव सिञ्चन्ती समन्तादासीनमवनिपाललोकम् , आगामिदयितहृदयगृहप्रवेशमङ्गलविकीर्णसुमनःसौभाग्यहरेण हारेण पुलकितस्तनकलशयुगला,नवदलितकदलगर्भकोमलं वासो वसाना, वासुकिसमाविष्टमन्दरमथितमहोदधिसमुद्गतां संसक्तडिण्डीरपाण्डुरितनितम्बां निन्दन्ती श्रियम् , काभिश्चन करकलितकनककालाञ्चीभिः काभिश्चन कमलनिलीनकलहंसपरिभावुकपटपल्लवपरिष्कृतपाणिपुटाभिः काभिश्चन काञ्चनमयमपि पञ्जरं काचकल्पितमिव निजकान्तिकल्लोलैरापादयन्तमुद्वहन्तीभिः क्रीडाशुकं काभिश्चन भर्तृदारिकावदनसौन्दर्यचौर्यागतं चन्द्रमसमिव स्फाटिकमणिदर्पणं करेण गृह्णतीभिः काभिश्चन कलितवकुलदामपुलकितसंनिवेशाः संमुखसमीरस्पर्शमन्द्ररणिततन्त्रीवलया वसुधापालेषु वल्लभोऽस्याः कः स्यादिति मिथो मन्त्रयन्तीरिव विविधा विपञ्चीरुदञ्चयन्तीभिः परिचारपुरंध्रीभिरिन्ध्रितपरिसरं परितोलम्बमानमुक्तासरविभूषितं मुषितदिवसकरमरीचिसमुद्गमैर्मणिगणालोकैराकुलितलोकलोचनमाकीर्णविविधपुष्पं पुष्पकविजयचतुरं चतुरन्तयानमधिरूढा , प्रौढमतिभिगूढानपि भावानाविष्कुर्वतीभिरन्तिकवर्तिनीभिरात्मनिर्विशेषाभिः प्रियवचनशतैः प्रसाद्यमाना , प्रत्यदृश्यत गन्धर्वदत्ता । प्रादुरभूवंश्च तन्निरीक्षणेन महीक्षितां मन्मथमहिमनिवेदनचतुरा विकाराः । तथाहि-कश्चिन्नभश्चराधिपतनये , तव कुच
SR No.022636
Book TitleGadya Chintamani
Original Sutra AuthorN/A
AuthorVadibhsinh, T K Kuppuswami Sastri, S Subhramhanya Sastri
PublisherMadras
Publication Year1902
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy