SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ तृतीयो लम्बः । तटपरिणाहपर्याप्तं वा न वेति निरीक्ष्यतामिदमिति विवक्षुरिव वक्षःस्थलादुपवीतमुपादाय सविलासमंसदेशे न्यवेशयत् । कश्चित्कमलकोमलेन करेण कनकधरणीधरकटकविशङ्कटवक्षःकवाटलम्बिनी विकचरक्तोत्पलदलनिचयविरचितां प्रालम्बमालां परामृशन्कुण्डलितकोदण्डेन कुसुमशरासनेन मनसि निखातां विशिखमालामुन्मूलयन्निवामन्यत । कश्चित्प्रियसुहृदभिहितनर्मभणितिसंभावनास्मितविनिर्गतैर्विमलदशनकिरणकन्दलैरिन्दी - वरदृशस्तस्याः करपीडनकुतूहलाङ्करानिव हृदयालवालरूढान्निर्गमय्य दर्शयन्निवादृश्यत । कश्चिदवनमय्य मणिमयकिरणमञ्जरीमालिनं मौलिमालोकयन्नधरितगगनाभोगमात्मभुजान्तरं पूर्वप्रविष्टामिमा बिम्बोष्ठीमनुभवितुं स्वयमप्यन्तः प्रविविक्षुरिवालक्ष्यत । एवं विजृम्भमाणेषु विश्वंभरापतीनां पञ्चशरपराक्रमपयोधिविजृम्भणविवरणचतुरेषु विकारेषु सा च गरुडवेगसुता सुधाकरलोकप्रतिभटं कुसुमशरयशोराशिमिव राजमानं स्वयंवरपरिषदन्तरवस्थापितं स्फटिकगृहमाविश्य दृश्यमाननिखिलावयवा निजसखीजननिवेद्यमाननिखिलपार्थिवसार्थस्वरूपा परिसरगतायाः परिचारिकायाः पाणिपल्लवादादाय वीणामुपवीणयितुमुपाक्रंस्त । 'विनमदमरश्रेणीमौलिस्फुरन्मणिमालिका' किरणलहरीपातत्यायन्नखद्युतिकन्दलम् । प्रणतदुरितध्वान्तध्वंसप्रभातदिवाकरो दिशतु भवतां श्रेयः शीघ्रं जिनाङ्घिसरोरुहम ॥' इत्येवमभिव्यक्तसप्तस्वरमुन्मिषितग्रामविशेषमुच्छ्रसितमूर्च्छनानुबन्धमतिबन्धुरमाहितकर्णपारणमाकर्ण्य तस्यास्तदपवीणनमतिप्रहर्षेण परिषत्परिसरतरवोऽपि कोरकव्याजेन रोमाञ्चमिवामुञ्चन् । तिर्यञ्चोऽपि तिरस्कृतापरव्यापृतयस्तदाकर्णनदत्तकर्णाः समुत्कीर्णा इव निःस्पन्दनिखिलावयवा
SR No.022636
Book TitleGadya Chintamani
Original Sutra AuthorN/A
AuthorVadibhsinh, T K Kuppuswami Sastri, S Subhramhanya Sastri
PublisherMadras
Publication Year1902
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy