________________
गद्यचिन्तामणौ
जमदकरिकुम्भमण्डनसंमृतेन गैरिकपङ्काङ्गरागेणेव नवनलिननिपतितेन तरुणतरणिकिरणकलापेनेव स्वभावपाटलेन प्रभापटलेन विनाप्यलक्तकरसानुलेपनमुपपादिततलाकल्पशोभमनवरतविनमदवनीपतियोषिदलकापीडनिपतितैः सुमनोभिरिव मनोहराङ्गुलिपर्यायशुक्तिपुटवमितैर्मुक्ताफलैरिव प्रकृतिचतुरचङमकलाशिक्षणकुतूहलनिषेवमाणैः कलहंसशाबकैरिव सततमुद्गच्छता स्तनमण्डलेन मा पीडय वदनतुहिनमहसमिति कृतप्रणामैस्तारकागणैरिव तारुण्योष्मकठिनीभवत्कान्तिसलिलबिन्दुसंदोहसंदेहदायिभिर्नखमाणिभिरवतंसितमनुपजातपङ्कपरिचयमज्ञातमधुपपरिषदुपसर्पणमालिन्यमहर्निशविभागविधुरविकासमननुभूतपूर्वमम्भोरुहयमलमिव चरणयुगलं दधाना, मदनतूणीवैगुण्यजल्पाकेन कान्तिजलधिजलवेणिकानुकारिणा जङ्घाद्वयेन प्रतिपादिताधोमुखकमलनालशोभा, सुनासीरदन्तावलशुण्डागारमलुण्टाकेन कुसुमशरनिवासनितम्बप्रासादमण्डनमणितोरणरामणीयकधुरीणेन मदनमातङ्गनहनालानस्तम्भसविभ्रमेण स्वभावपीवरेणोरुकाण्डव्येन कामपि कमनीयतां कथयन्ती, कंदर्पसाम्राज्यसिंहासनेन कठिनविशालेन प्रतिक्षणमुच्छ्रसता श्रोणिमण्डलेन शिथिलीकृतनीवीनहनाभ्यासखेदितकरा, मणिकिङ्किणीरणितच्छलेन भङ्ग भयान्नितम्बविष्टरमिवाभिष्टुवता चिरपरिचयपल्लवितप्रेमतया पतनशीलस्य मध्यस्य मन्देतरमरीचिवीचिसमुद्गमव्याजेन हस्तदानमिव प्रयच्छता प्रतप्तकाञ्चनकल्पितेन काञ्चीवलयेन परिवेष्टितनितम्बचन्द्रबिम्बा, विडम्बितरशनालंकारमरकतमणिमयूखलेखया त्रिभुवनविजयसंनादनङ्गसुभटकरकलितकृपाणलतालावण्यापहासिन्या रोमराजिकया विराजन्ती , रामणीयकसरिदावर्तमण्डलेन मदनमतङ्गजनिगलकटकेन.कान्तनयनशफरविहरणतडागेन सौन्दर्यमहानिधिगर्तसनाभिना नाभिचक्रेण चरितार्थीकृतलोकलोचना, नितान्तपीवरनितम्बनिष्पादनजनितपरिखेदपरिणततन्द्रालुभा