SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ प्रथमो लम्बः । " रिजात इव परिपूर्णार्थिजनमनोरथ राजा राज्याश्रमगुरुः कुरुकुलधुरंधरः सत्यंधरो नामाभूत् । ११ यस्य प्रसरदविरलकीर्तिचन्द्रातपशीतलामंसवलभीमधिशयाना मेदिनी शेषफणा विष्टर निवासानुबन्धिनीं विषोष्मवेदनामत्यजत् । यस्मिन्परिपालयति पयोधिरशनावच्छेदिनीं मेदिनीं कुसुमपरिमलचौर्येण चाकित्यमुद्वहन्त इव मातरिश्वानो न क्वापि लभन्ते स्थितिम् । यस्य च निहितहारोपधानमधरितकनकगिरिशिलातलविशालं वक्षःस्थलमधिशयाना स्वभावसंकटकमलकोटरकुटीरदुरासिकादुःखमत्याक्षी लक्ष्मीः । यस्य च प्रलयसमयविलसदनेकदिनकरकिरणदुःसहे प्रसर्पति प्रतापानले जलनिधिजलमध्यघटितां प्राक्तनीं स्थिति बह्वमन्यत मधुसूदनः । यस्य च दुःसहप्रतापेऽपि सुखोपसेव्यता सौकुमार्येऽप्यार्यवृत्तिरतिसाहसेऽप्यखिलजनविश्वास्यता विश्वंभरात्रहनेऽप्यखिन्नता सततवितरणेऽप्यक्षीणकोशता परपरिभवाभिलाषेऽपि परमकारुणिकता पञ्चशरपारतन्त्र्येऽपि पाकशालिता परमदृश्यत । यस्य चारम्भमभिमतावाप्तिः प्रज्ञां विद्याधिगमः पराक्रमं परिपन्थिपरिक्षयः परहितनितिं जनानुरागः प्रतापं दुराक्रमता त्यागं भोगावली काव्यरसाभिज्ञतां कविसंग्रहः कल्यसंघतां कल्याणसंपत्तिर्न्यायनेतृतां निजकृत्यानुल्लङ्घिलोकता तत्त्वज्ञानितां धर्मशास्त्र शुश्रूषा दुरभि - मानहीनतां मनिजनपदप्रहृता माननीयतां दानजलार्दीकृतकरः परमधा, र्मिकतां परमेश्वरसपर्या नीतिनिपुणतां निष्कण्टकता निरक्षरं निरन्तरं निवेदयति तस्य चाभवदद्भुताचाररूपा रूपसंपदिव विग्रहिणी गृहिणीधर्मस्थितिरिव साक्षात्क्रियमाणा, समरविजयलक्ष्मीरिव पुष्पधनुषः, संकोचितसपत्ननारीवदनकमला कौमुदीव विधुंतुदकबलनभयादपहाय रजनीकरमवनिमवतीर्णा, रामणीयक चन्द्रोदयपिशुनेन संध्यारागेणेव मनसि -
SR No.022636
Book TitleGadya Chintamani
Original Sutra AuthorN/A
AuthorVadibhsinh, T K Kuppuswami Sastri, S Subhramhanya Sastri
PublisherMadras
Publication Year1902
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy