________________
९२
गद्यचिन्तामणौ
नरपतिरपि तद्वचनविश्वासाद्विश्वदिश्यपि शक्तिमदन्वेषणाय शुद्धान्तादपरमन्तिकचरं प्राहैषीदघोषयच्च ‘विषहरणसमर्थाय मम राज्याध वितारध्यामि' इति । महाभाग , महीपतिना विषविद्याविदग्धान्वेषणाय प्रेषितेध्वहमप्यन्यतमः कश्चिदस्मि । कार्येऽस्मिन्कच्चिदार्य , भवतोऽप्यधिकारोऽस्ति" इति। तद्वचनानन्तरं जीवकस्वामी च 'जीवमात्रस्याप्युपद्रवो द्रावयितव्यः। किमुत प्रबलोऽयमबलाजनस्य' इत्यन्तश्चिन्तयन् 'अयि भोः, तत्र यामो वयम् । अस्तु वा न वा प्रस्तुतकर्मणि प्रावीण्यम्' इति प्रणिगदन्नेव राजगृहमुपसृत्य प्रवर्तमानतुमुलनिवर्तितवर्षधरनिवारणयन्त्रणमनामन्त्रित एव प्रविश्य कन्यान्तःपुरं तत्र सर्वतोऽपि सर्वसहापृष्ठे वेष्टमानगात्रयाष्टं कष्टां दशामापन्नमाक्रन्दमयमिव शोकमयमिव विलापमयमिव व्यामोहमयमिवाश्रुमयमिवामयमयमिव निरूप्यमाणं जनं तन्मध्यगतां धवलकोमलकदल्यन्तर्दलसच्छायप्रच्छदाच्छादितशयनीयमधिशयानां मृणालिनीमिव च्छिन्नमूलां विच्छायां कन्यकामपश्यत् । व्यचिन्तयच्च तदङ्गकान्तिकेन्दलितकन्दर्पदपः 'न चेयमप्सरसः, न हि तस्याश्चक्षुः पक्षीकृतपक्ष्मक्षोभम् । न वासौ तडिल्लता, न हि तस्या अप्येवमतिपेलवाङ्गोपाङ्गसंगतिः । न वैवासौ रतिः , न हि तस्यास्तनूजन्मना भुक्तोच्छिष्टाया एवमक्लिष्टाङ्गयष्टिता घटते । नूनमियं भुजङ्गेनाप्यनङ्गाविष्टेन किं स्पृष्टा' इति । एवं चाभ्यथा चिन्तयन्तमन्तिकचरमुखादुपलब्धमहिम्नि महीपतावपि सपादपतनमवरजाकच्छ्रमुच्छेत्तुमुपच्छन्दयति तदिच्छां विनापि तत्कर्मणि कम्रोऽयमानम्रोद्धारी कुमारस्तथेति तद्वक्रमालोक्य निमेषमात्रेण तां निर्विषीचकार । स्वीचकार च पुनरेनां कन्दर्पसर्पः । वपुष्मान्मारो हि कुमारः । कथमेनं साक्षादुद्वीक्ष्य चक्षुष्मती कन्या न भवेदनन्यजाक्रान्ता । ततश्च सा सकृदवलोकनकृतव्यसनभूयस्तया भूयः कुमारमपारयन्ती द्रष्टुं विषवेगमिषेण पश्चादपि निमेषणमेवात्मनः शरणममंस्त । अतर्कयच्च प्रथमतरमनुभूयमानस्म