SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ पञ्चमो लम्बः । ९१ नू, तत्रत्यया जिनशासनरक्षियक्षिदेवतया सादरसंपादितकशिपुः ततो . विनिर्गत्य विश्वतः शश्वदुपपादिततरुणीचरणयावकरससंपर्करक्त तलतया स्वयमपि पल्लवितरागमित्र पल्लवव्यपदेशं देशमशिश्रियत् । तदनु च तन्मध्यनिवेशितं निर्दोषतया दोषाधिपतिरिति सदा सुवृत्ततया व्यवस्थाविकलवृत्त इति कलाक्षयरहिततया परिक्षीणकल इति च परिभवन्तं चन्द्रम्, चन्द्राभं नाम कमपि स्कन्धावारम्, नैकवार संभवदसंभविनिमितोपलम्भेन ससंभ्रमं गाहते स्म । तस्मिन्नपि स्थानस्थानेषु वाचंयमानामित्र वर्जितव्याहृतीनां साद्यस्कहविषा मित्र बाष्पनिष्पादनव्यसन जुषां भूरिफलभरित भूरुहामिव विनम्रशिरसां पुरौकसां नालनिष्कुषितनलिनानीव प्रम्लानवदनानि प्रेक्षमाणः प्रान्तवर्तिनं कमपि दान्तहृदयं पुरुषममृतवश्रीयमाणदशनकिरणैः सकरुणमिव सिञ्चन्वनकुञ्जरोत्पाटितविटपिपेटकस्येव विश्वस्यापि जनस्य विच्छायतानिदानम् ' किमवगच्छसि' इत्यपृच्छत् । स च कुमारमादरादभिपत्यैवमब्रवीत् — “भद्र, भद्रासिकार्थिपार्थिवपरार्ध्यकिरीटपादपीठप्रतिष्ठितपादपल्लवः पलत्रदेशापदेश कुबेर कोशगृहपतिः पतितजनदुरालोको लोकपालो नाम राजा भवत्यस्या राजधान्याः । तस्य च सकलगुणगरीयसी कनीयसी प्रज्ञाशालिजनकलाभेन जडाशयप्रभवेति पतिदेवताव्रतभाविबहुमानप्राप्त्या बहुपुरुषाभिलाषिणीति लोकपालसहजसंगमेन लोकविनाशकरगरलसोदरेति च गर्हमाणा पद्मां पद्मा नाम । कन्यामिमामिदानीं कन्यागृहान्निर्गत्य गृहोद्याने स्वकरावर्जितजलसेकेन सस्नेहमभिवर्धिता पुष्पवती जाता माधवीलतेति महोत्सवमारचयन्तीं तद्वदनगोचरशशाङ्कशङ्कयेव भुजङ्गमः कोऽप्यस्प्राक्षीत् । नरेन्द्राश्वासनरेन्द्रा इव प्रबलप्रार्थिनो व्यर्थप्रयासाः । तन्निमित्तोऽयं मर्त्यानां शोकः । शाकुनिस्तु कश्चिन्निश्चेतनेयं यदि जातापि कन्यका तावदेनामनन्यसाधारणविषहरणनैपुणः कोऽपि प्राणैः समं सांप्रतमेव संगमयतीति संगिरते ।
SR No.022636
Book TitleGadya Chintamani
Original Sutra AuthorN/A
AuthorVadibhsinh, T K Kuppuswami Sastri, S Subhramhanya Sastri
PublisherMadras
Publication Year1902
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy